SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ ११८ दोषो न ज्ञायते इत्युक्तं । तत्रान्यं दोषमाह[भा. २२६७ ] व्यवहार- छेदसूत्रम् - २- ४ / १२६ भमो वा पित्तमुच्छा वा उद्धसासो व खुब्भति । गति विरए वि संतं मुच्छादिसु न रीयति ।। वृ- यस्मिन् गतिविरतेऽपि सतिभ्रम आकस्मिकी भ्रमिः पित्तनिमित्ता मूर्च्छा उर्ध्वश्वासो वा क्षुभ्यति चलति । आदिशब्दात् शिरोव्यथादिपरिग्रहो न रीयते, न गच्छति न विहारक्रमं करोतीति भावः, तस्य चापराक्रमस्य वृद्धावासेन तिष्ठतः सहाया दातव्यास्तेषां परिमाणमाह [भा. २२६८ ] चभागतिभागद्धे सव्वेसिं गच्छलो परीमाणं । संतासंतसतीए हावासं वियाणाहि ।। " वृ- गच्छतो गच्छमधिकृत्य साधूनां परिमाणं कृत्वा सर्वेषां चतुर्भागस्त्रिभागोऽर्थं वा साहाय्यास्तस्य वृद्धावासप्रतिपन्नस्य दीयन्ते । तत्र त्रिभागोऽर्द्ध वा दीयन्ते । संतासंतसतीए सद्भावेनासद्भावेन चेत्यर्थः । तत्र सद्भावे सन्ति साधवो भूयांसः केवलमगीतार्थास्ततस्ते सन्तोऽप्यसन्तः । असद्भावी न सन्ति बहवः साघवः । एवं वृद्धावासं ससहायं जानीहि । ततो गच्छतः साधूनां परिमाणं ज्ञात्वा परिमाणं ज्ञात्वा सर्वेषां चतुर्भङ्गसहाया दातव्या इत्युक्तं ततो गच्छपरिमाणं जघन्यादिभेदत आहअट्ठावीस जहन्त्रेण उक्कोसेण सयग्गसो । सहाया तस्स जेसिं तु उवट्टाणा न जायति [भा. २२६९ ] Jain Education International , वृ- गच्छस्य परिमाणं जघन्यतोऽष्टार्विसतिरुत्कर्षतशताग्रशः शतादारभ्य यावद्वात्रिंशत्सहस्त्राणि तत्राष्टाविंशतिकस्य गच्छस्य चतुर्भागः सप्त एतावन्तः सहायास्तस्य दातव्याः चैरुपस्थापना उप सामीप्येन सर्वदावस्थानलक्षणेन तिष्ठन्त्यस्यामिति उपस्थापना शय्या अजादिपाठांतू प्रत्ययः नित्यवसतिर्न जायते । इयमत्र भावना । प्रतिमासमन्यान्या वसतिर्न लभ्यते स चालाभो द्विधासदलाभोऽसदलाभश्च । तत्र सदलाभो नाम लभ्यन्ते वसतयः किन्त्वकल्पिका, असदलाभो मूलत एव न लभ्यन्ते वसतयः । एवं सदलाभेनासदलाभेन वा प्रतिमासमन्यान्यवसत्यलाभे एकस्यामेव वसतौ जङ्घाबलपरिक्षीणो वसति । तस्य च सहाया अष्टाविंशतिकस्य गच्छस्य चतुर्भागमात्राः सप्त प्रदत्तास्ते ऋतुबद्धे काले एवं मासं स्थित्वा गच्छं व्रजन्ति, । अन्य सप्त सहाया स्थविरस्यागच्छति, तेऽपि द्वितीये मासे परिपूर्णे गतास्ततोऽन्ये सप्तागच्छन्ति तेऽपि तृतीयमासे पूर्णेगतास्ततोऽन्ये सप्त सहाया आयान्ति तेऽपि चतुर्थमासं स्थित्वा गच्छं व्रजन्ति, ये प्रथमे मासे सप्तागच्छन्ते भूयः समागच्छन्ति, एवं त्रिमासांतरितः सर्वेषां पुनर्वारको भवति एवं वारेण वारेणागमने तै र्नित्यवसति दोषः परिहती भवति, अथ सदभावेनाष्टाविशते रूनो गच्छो वर्तते यावदेकविशतिकस्तस्य त्रिभागे सप्त तेषां द्विमासांतरितो वारको भवति, तथैव सद्भावेन वा यदि चतुर्दशको गच्छो भवति तदा तेषामर्द्धेन सप्त तेषामेकमासान्तरितः पुनर्वारकः एवं प्रतिमासमन्योन्यवसत्यभावे वृद्धस्यैवैकस्य वृद्धावासो भवति न तु सहायानामथ सदभावेन असद्भावेन वा चतुर्दश गच्छे न सन्ति, तदा ते एव सप्तजना चिरकारलमपि तिष्ठन्तों यतनया तं वृद्धं परिपालयन्ति । अमुमेवार्थममिधित्सुराह [भा. २२७०] चत्तारिंगा तिन्नि दोन्नि एक्को व होज्ज असतीए । संतासई अगीय ऊणाउ असंतउ असती ।। वृ- चत्वारः सप्तका वारेण वारेण वृद्धपरिपालनाय प्रेषणीयाः । असति सदभावेनवाष्टाविंशतेरभावे For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy