________________
११२
व्यवहार-छेदसूत्रम् -२- ४/१२६ इतिपाठयितुरप्याभवनात् ।। [भा.२२३५] एवं ता उउबद्धे, वासासुइमो दिही हवतितत्थ ।
खेत्त पडिलेहगाउपयठिया तेन अन्नत्थं ।। वृ- एवं तावत् ऋतुबद्ध काले-आभवनव्यवहारविधिरुक्तो वर्षासु वर्षाकाले पुनरयं वक्ष्यमाणो विधिर्मवतितमेवाहतत्थेत्यादि । । द्वयोराचार्ययोः क्रुतुबद्धेकालेसाधारणक्षेत्रस्थितयोरेकोऽपरस्यैकस्य पार्थे उपसम्पदंगृहीतवान् । वर्षारात्रश्च प्रत्यासन्नीभूतोऽन्यानिचक्षेत्राणि वर्षावासयोग्यानि तादृशानि प्रत्यासन्नानिनसन्ति,ततः उपसम्पन्न आचार्यस्तत्रेतितस्मिन्नेव आषाढमासिकेक्षेत्रेवर्षावासं स्थितस्तेन च वाचनाचार्येणान्यत्र वर्षावासयोग्यस्य क्षेत्रस्य प्रतिलेखकाः प्रवर्तितास्तांश्च प्रवर्तयन्निदमवादीत् । [भा.२२३६] जातुन्भे पेहेहातावेतेसिं इमंतुसारेमि |
तंचसमत्ते तेसिंवा वासंचपबद्धमालगं ।। वृ- यावत् यूयं क्षेत्रं प्रत्युपेक्ष्य समागच्छथ । तावदेतेषामाचार्याणामिदं श्रुतस्कन्धादिकं सारयामि सूत्रतोऽर्थतश्च गमयामि । तच्च श्रुतस्कन्धादिकं तेपां तथा अधीयानानां समाप्तमेतद्व्यवच्छिन्नमित्युच्यते, । अत्रान्तरे च वर्ष प्रबद्धं प्रबन्धेन पतितुमालग्नं तेऽपि च क्षेत्रप्रत्युपेक्षकास्तत्रैव वर्षेण निरुद्धाः । [भा.२२३७] निगंतूणन तीरइ, चउमासे तत्थलाभमायगयं ।
लभते वोच्छिन्नेवं कुवंति गिलाणगस्स विय ।। वृ- यतः प्रबन्धेन वर्ष पतितुमारब्धं, च क्षेत्रप्रत्युपेक्षकाः समागच्छन् ततः समाप्तेऽपि श्रुते स वाचनाचार्यस्ततः क्षेत्रान्निर्गन्तुंनशक्नोति । अनिर्गतश्चतस्मिन् क्षेत्रेचतुरोवर्षापत्रमासान्यावदात्मगतं आत्मसमुत्थं लाभ लभते, । द्वितीयोऽप्यात्मसमुत्थस्य लाभस्य स्वामी एवं कुर्वते व्यवच्छिन्ने समाप्ते श्रुते अथवा गिलानस्स विय इति समाप्ते श्रुते याचनाचार्यो ग्लानोऽभवत् ततो गन्तुमशक्तस्यापि च ग्लानस्यैवमाभवनव्यवहारो दृष्टव्यः ।उभयोरपि चतुरोवर्षामासानात्मसमुत्थो लाभइत्यर्थः । [भा.२२३८] अहपुन अच्छिन्न सुए, तेआयाबेंतिमेय तुब्भेतु ।।
अम्हे खेत्तं देमोसाहारणंतंमिएसितु ।। वृ-अथ तत् श्रुतस्कन्धादिकमद्यापिनसमाप्तं, तेच क्षेत्रप्रत्युपेक्षका, आयातास्ततो वाचनाचार्या आपृच्छन्ति वयं निर्गच्छामः । तत् इमे प्रतीच्छिका आचार्य ब्रुवते, मा यूयं निर्गच्छत, समाप्तेऽपि श्रुते युष्माकं वयं क्षेत्रं दास्यामः । एवमुक्ते तत्क्षेत्रमेतेषां द्वयानामपि साधारणं भवति । एष संस्तरणे विधिरसंस्तरणमधिकृत्याह[भा.२२३९] असंथरण नित अनिते चउभंगो होइ तत्थवितहेव ।
एवंताखेत्तेसुं, इणमन्नामग्गणविहादी ।।। वृ-असंस्तरणेसाधुषु निर्गच्छदनिर्गच्छत्सुचतुर्भङ्गीभवति । साचैवम्-वास्तव्यानां चतुर्भागादिना प्रकारेणसाधवोनिर्गच्छन्तिन वाचनाचार्याणामितिप्रथमः, वाचनाचार्याणां नेतरेषामितिद्वितीयः,। उभयेषामिति तृतीयः, । नोभयेषामिति चतुर्थः, । तत्रापि चतुर्भङ्गयामपि तथैवाभवनव्यवहारः । द्वयानामप्यात्मसमुत्थो लाभइतिभावस्तृतीयेभङ्गेयद्येकतर एकतरस्यापार्श्वे साध्वभावत उपसम्पद्यते, तत उपसम्पद्यमान लाभ इतरस्मिन् संक्रामति । अनुपसम्पन्नौ च द्वयोरपि साधारणं क्षेत्रं, । एवं तावत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org