SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ उद्देशक: :- ४, मूल- १२६, [भा. २२२९] अत्र पतितं नियट्टि सुहदुक्खयं जति करेंतीति द्वारमस्य व्याख्यानमाहसुहदुक्खित्तो समत्ते वाएंतोनिग्गएसु सीसेषु । वाइचंति वि तहा निग्गयसीसो समत्तंमि || [ भा. २२३०] वृ- इदमुक्तमागन्तुकाः सर्वेऽपि निर्गच्छन्ति केवलमेव प्रवाचकोऽवतिष्ठते । तत्र यदि निर्गतेषु शिष्येषु वाचयन् प्रवाचकः समाप्ते श्रुते सुखदुःखितः सुखदुः क्खनिमित्तमुपसम्पदं ग्राहितस्तथा तस्य वाच्यमानस्य भवतितत्क्षेत्रम् । इदं द्वितीयभङ्गमधिकृत्योक्तं प्रथमभङ्गमधिकृत्याह तथा वाच्यमानोपि निर्गतः शिष्यः समाप्ते श्रुते वक्तव्यं । किमुक्तं भवति ? | यदि वाच्यमाजो निर्गतेषु शिष्येषु बाचनाग्रहणाय पश्चात्स्थितः । समाप्ते श्रुतस्कन्धे वाचयता सुखदुःखनिमित्तमात्मोपसम्पदं ग्राहितस्तदा वाचयति आभवति क्षेत्रम् ।। [भा. २२३१] 999 दोहवि विनिग्गएसुं वाएंतो तत्थ खेत्तितो होति । तंमि सुए असमत्ते संमत्ते तस्सेव संकमति ।। बृ- द्वयोरपि शिष्येषु विनिर्गतेषु तावेव द्वौ केवलौ तिष्ठतस्तत्र यावदद्यापि तत् श्रुतं न समाप्यते तावत्तस्मिन् श्रुतं असमाप्ते तत्र तयोर्द्वयोर्मध्ये वाचयन क्षेत्रिको भवति । समाप्तं पुनः श्रुतस्यैव पूर्वस्थितस्व तत्क्षेत्रं संक्रामति । अथ द्वावपि परस्परं सुखदुःखोपसम्पदं प्रतिपन्नी तदा साधारणं क्षेत्रमिति यो यल्लभ्यते तस्य तदा भवतीति । [ भा. २२३२ ] संथरे दोवि न नेती तेहि उववाइया उजइसीसा । लाभो नत्थि महंतिय अहव मत्ते पधाविज्जा ।। बृ- संस्तरे संस्तरणा द्वयेऽपि पूर्वस्थिता आगन्तुकाश्च न निर्गच्छन्ति, तैश्च पूर्वस्थितै यदि बहवः शिष्या उपपादिता उत्पादितास्तदा स आगन्तुको नास्ति मम लाभ हति विचिन्त्य प्रधावेत् गच्छेत् । अथ ते निक्षिप्तगणास्तस्य समीपे वाचयन्ति तेषां शिष्या वा तत आह- अथवा समाप्ते श्रुते प्रधावेत् ।। सम्प्रति निट्टयपहाविओ वा रुद्धो पच्छाय वाघातो इत्येतद्व्याख्यानयतिजइ वायगो समतो मंतिउ पडिच्छिएहिं रुंभेज । [भा. २२३३] असिवादिकारणे वा न नेते लाभो इमो होइ वृ- यदि समाप्ते श्रुते ततक्षेत्रात वाचको निर्गच्छन् प्रतीच्छिकैरुच्यते यथा मा निर्गच्छत यूयं, वयमद्यापि वाचयिष्याम इति यदि वा निर्गतो बहिरशिवादीनि कारणान्युपस्थितानि ततो व्याघात इति कृत्वा न निर्गच्छति, तदा तस्मिन् प्रतीच्छकैरवरोधनात् । पश्चाद्व्याधाताद्वा अनिर्गच्छति तस्यायमाभाव्यो लाभो भवति । तमेवाह Jain Education International [भा. २२३४ ] आयसमुत्थं लाभ, सीसपडिच्छएहिं सो लहइ रुद्धो । एवं च्छिन्नुववाए अच्छिन्ने सीसा गते दोन्हं । । वृ- स प्रातीच्छिकैर्गच्छन्नपरुद्धः सन् यत्स्वयं लभते, यच्च तस्य शिष्या यच्च तस्य प्रातीच्छिका बा लभन्ते, तत्सर्वमात्मसमुत्यं शिष्यप्रातीच्छकैर्वा समुत्पादितं लभते । एवमाभवनं च्छिन्ने समाप्ते उपपातहेतौ श्रुतस्कन्धादौ श्रुते दृष्टव्यं । अच्छिन्ने असमाप्ते श्रुतस्कन्धादौ यदि तस्य पठत आचार्यस्य शिष्या ग्रामन्तरगताः प्रत्यागताः तस्य च शिष्यो नियमात गीतार्थो यस्य गण आरोपितस्तदा द्वयोरपि लाभः साधारणो गीतार्थे शिष्ये निक्षिप्तगणतया पठतोऽप्याचार्यस्य पाठविता गच्छत् तेन प्रतिरुद्ध 1 For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy