________________
५८
प्रायश्चित्तदानविधिरच्यते तथा चाह [ भा. १६५ ]
पढमस्स होइ मूलं बिइए मूलं छेदीच छगुरुगा । जयगाए होइ सुद्धो, अजयणा गुरुगा तिविहभेदो
व्यवहार - छंदसूत्रम्-१
वृ- प्रथमस्याचार्यस्य कृतकरणस्य सापेक्षस्व महत्यपिअपराधे सापेक्षत्वात् प्रायश्चित्तं मूलमुपलक्षणमेतत् तेन तस्यैवाकृतकरणस्यासमर्थात् । छेद इत्यपि द्रष्टव्यं द्वितीये उपाध्याये कृतकरणे । तथारूपायां धृतिबलसमर्थतायां मूलमितरधाच्छेदः । अकृतकरणे गुरुषण्मासिकं, इहाचार्य उपाध्यायां वायदियतनया कारणे देशकालानुरूपं प्रायश्चित्तस्थानं अवर्त्तिष्ट, तदा शुद्धो न प्रायश्चितविषयः यतनचा कारणप्रवृत्तेः अयतनया तु प्रायश्चित्तस्थाने प्रवृत्तौ मूलं छेदो वाचार्यस्य, उपाध्यायस्य तु गुरुकादारभ्योक्तप्रकारेण त्रिविधा प्रायश्चित्तस्य भेदः षड्गुरुछेदो मूलं च, एवंमुक्तानुसारतो भिक्षुष्वपि प्रायश्चित्तदानविधिरनुसरणीयः एतदेव व्याचक्षाण आह -
[भा. १६६ ]
सव्वेसिं अविसिट्टी आवत्तीतेन पढमया मूलं । सावेक्खे गुरुमूलं कयाकए होइ पुन छेओउ ।। सावेक्खात्तिच काउं, गुरुस्स कयजोगिणो भवे छेदो । अककरणंमि छगुरु इइ अड्डोकतीए नेयं । ।
[ भा. १६७ ]
वृ- इति प्रायश्चित्तदानविधिरुक्तप्रकारेण कथयितुमभीष्टो, यदा सर्वेषामाचार्यादीनामापत्तिः प्रायश्चित्तस्यापादनं, अविशिष्टा सापेक्षाणां च महत्यपराधे मूलं नानवस्थाप्यं, पारांचितं वा ततः प्रथमतया सर्वेषां मूलमापन्नमविशिष्टमधिकृत्य गुरुलाधव चिंतया प्रायश्चित्तदानविधिरुच्यते, तत्र सापेक्षे गुरी आचार्ये गाथायां विभक्तिलोपः प्राकृतत्वात्कृते कृतकरण प्रायश्चित्तं मूलं, सापेक्षे इति वचनात्, महत्यप्यपराधे गुरौ सापेक्षत्वात् मूलमेव प्रायश्चित्तं नत्वनवस्थाप्यं, परांचितं वेति ज्ञापितं एतदेव चोपजीव्य प्रागप्येवमस्माभिर्व्याख्यातं; अकृते अकृतकरणे गुराविति संबंधादाचार्ये भवति प्रायश्चित्तं छेदः, सावेक्खीत्ति च काउमित्यादि, अत्र गुरुशब्देनीपाध्यायः प्रोच्यते आचार्यस्योक्तत्वात् गुरोरुपाध्यायस्य कृतयोगिनः कृतकरणस्य मूलं प्रायश्चित्तमापन्नस्यापि सापेक्ष्य इति कृत्वा प्रायश्चित्तं छेदो भवति, तस्यापि कृतकरणस्य मनाक् निरपेक्षतायां मूलमपि प्रायश्चित्तं बिइए मूलं च छंदो छग्गुरुगा इतिवचनाद् अकृतकरणे तु तस्मिन्नेवोपाध्याये मूलमापन्नेपि प्रायश्चित्तं षड्गुरुकाः । गुरवः षण्मासाः । अकृतकरणतया छेदप्रायश्चित्तस्याप्यनर्हत्वात् इति एवममुना प्रकारेण अड्डोक्कंतीए इति एकैकस्मिन्नाचार्यादौ स्थाने कृतकरणभेदतो द्वे द्वे प्रायश्चित्ते तयोश्च द्वयारेकमाद्यं प्रायश्चित्तमुपक्रामति न तुत्तरस्थानेऽनुवर्त्तते द्वितीयं चोत्तरस्थानेऽनुवर्त्तते एकं च द्वयोरर्द्धमित्यत्राद्धपक्रांत्या ज्ञेयं प्रायश्चित्तदानमिदमिति संक्षिप्तमुक्तमिति, विनेयजनानुग्रहाय यंत्रककल्पनया विशेषतो भाव्यते, तत्र यंत्रक विधानमिदं तिर्यक् द्वादशगृहकानि क्रियते, अधोमुखं च विंशतिगृहाणि एवं च द्वादशगृहात्मिका विंशतिगृहपंक्तयो जाताः ।
तत्र विंशतितमायां पंक्तौ दक्षिणती ये अंतिये ये द्वे द्वे गृहके ते मुक्त्वा तस्या अधस्तात् दशगृहात्मिका एकविंशतितमा पंक्तिः स्थाप्या, तस्यामप्येकविंशतितमायां पंक्ती येद्धे अंतिम गृहके ते मुक्त्वा अधस्तात् अष्टगृहात्मका द्वाविंशतितमा पंक्तिः स्थापनीया, तस्यामपिथे द्वे अंतिम गृहके ते मुक्त्वा तस्या अधस्तात् पगृहात्मिका त्रयोविंशतितमा पंक्तिर्न्यसनीया, तस्यामपि ये द्वे अंतिम गृहके ते विमुच्य तस्था
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org