SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ पीठिका - [भा. १६१ ] जिनकल्पिकादयस्तत्र ये निरपेक्षास्ते सर्वशः सर्वात्मना कृतकरणास्तुशद्वस्य समुच्चयार्थत्वादधिगताः स्थिराश्च, इतर सापेक्षा द्विविधास्तद्यथा कयाकयावा इति पदैकदेशे पदसमुदायोपचारात् कृतकरणा अकृतकरणाश्च वाशद्वः समुच्चये कृतकरणा अपि द्विधा स्थिरा अस्थिर अस्थिराश्च, अकृतकरणा अपि द्विधा स्थिरा अस्थिश्च एकैके द्विधा गीतार्था अगीतार्थाश्च सूत्रे गीतार्था इत्युपलक्षणं, ततोऽगीतार्था अपि विवृताः अथ किंस्वरुपाः कृतकरणा इति कृतकरणस्वरुपमाह छमाइएहिं कयकरणा ते उभयपरियाए । अहिगयकयकरणत्तं जोगयतगारिहा केई || भा. १६२ | ५७ वृ - कृतकरणा नाम ये प्राष्टमादिभिस्तपोविशेषैरुभयपर्याये श्रामण्ये पर्याये चेत्यर्थः परिकर्म्मितशरीरास्ते ज्ञातव्यास्तद्विलक्षणा इतरे सामर्थ्यादकृतकरणाः; अत्रैव मतांतरमाह । अहिगयेत्यादि केचिदाचार्या ये अधिगतास्ते नियमात्कृतकरणा इत्यधिगतानां कृतकरणत्वमिच्छंति, कस्मादितिचेदत आह जोगायतगारिहाइति, निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायोदर्शनमिति वृद्धवैयाकरणप्रवादात् हेतावत्र प्रथमा ततोयमर्थः यतस्तैर्महाकल्पश्रुतादीनामायतकाला योगा उद्व्यूढास्तत आयतक योगार्हा अभवन्निति नियमतो अधिगताः कृतकरणा इति, तदेवं कृताः पुरुषभेदमार्गणा सांप्रतममीषां प्रायश्चित्तदानविधिर्वक्तव्यस्तत्र ये निरपेक्षा जिनकल्पिकादयस्ते यत् प्रायश्चित्तमापन्नास्तदेव तेभ्यो दीयते न तद्विषया गुरुलाधवचिंता निरपेक्षत्वात् सापेक्षाणांत सापेक्षतयैव प्रायश्चित्तदानविधी तद्विषया गुरुलाधवचिंता कर्त्तव्या, तत्र यानि प्रायश्चित्तानि दातव्यानि तानि संक्षेपतो गाथाद्वयेनाह । निव्विइए पुरिमड्ढे, एक्कासण अंबिले चउत्थेय । [भा. १६३ ] पनगं दस पनरसा वीसा तह पन्नवीसाय || [ भा. १६४] मासो लहुओ गुरुगो, चउरोमासा हवंति लहुगुरुगा । छम्मासा लहुगुरुगा छेदो मूलं तह दुगंच || वृ- निर्विकृतिकं विकृतिप्रत्याख्यानं पुरिमड्डति दिवसपूर्वार्द्धप्रत्याख्यानं, एकाशनाचान्तचतुर्थाति प्रतितानि, पनगति, रात्रिंदिवानां पंचकं लहुगुरुयंति वक्ष्यमाणं पदमत्रापि व्याख्यानतो विशेषप्रतिपत्तिरिति विभक्तिपरिणामेन संबंध्यते, लघुरात्रिंदिवपंचकं गुरुरात्रिंदिवपंचकं च तत्र लघुरात्रिंदिवपंचकमाचाम्लेन एकद्व्यादिदिनैर्वा हीनं, परिपूर्वं गुरुरात्रिंदिवपंचकं एवं दसत्ति लघुरात्रिंदिवदशकं गुरुरात्रिदिवदशकं, पत्ररसत्ति लघुरात्रिदिवपंचदशकं गुरुरात्रिंदिवपंचदशकं, पनवीसत्ति लघुरात्रिंदिवपंचविंशतिकं गुरुरात्रिंदिवपंचविंशतिकं । मासो लहुओ गुरुओति लघुमासो गुरुमासाः । चत्वारो लघुमासाश्चत्वारो गुरुमासा, षण्मासा लघवः षण्मासा गुरवः, तथा छेदः कतिपयपर्यायस्य, मूलं सर्वपर्यायोच्छेदेन व्रतारोपणं, तहदुगंवत्ति अनवस्थाप्यं पारांचितंच; इह पारांचितप्रायश्चित्तवर्त्ती प्रायो जिनकल्पिकप्रतिरुपको वर्त्तते उक्तं च - पारंचिउएगागीइच्चादि, जिनकप्पियपडिरुवगो इति अनवस्थाप्यप्रायश्चित्तवर्त्यप्येवं गुणः । संघयणविरिय आगम सुत्तविही एजो समुत्तो निगाहजुत्तो तबस्सी, पवयणसारे गहिय अत्थी ।। तिलतुसतिभागमित्तोवि जस्स असुभो न विजए, भावो निज्जूहणारिहो सो, से से निजूहण नत्थिः । । एयगुणसंपन्नो पावइ अनवट्टणमुत्तमगुणी हो, एव गुण विप्पहीणां तारिसंगभीरे भवे मूलं ।। एतौ चैकांतती निरपेक्षी, सापेक्षाणां त्वयं प्रायश्चित्तदानविधिः कथयितुमुपक्रांतस्ततो मूलादारभ्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy