SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ व्यवहार -छंदसूत्रम्-१ येपुनस्तस्यप्रायश्चित्तस्थाायोग्या: पुरुषजाताः पुरुषप्रकाराः पुरुषभदाइत्यर्थः, तेइमे वक्ष्यमाणस्वरुपा भवंति ।तानेवदर्शयति ।। [भा.१५९) कयकरणा इयरे वा सावेक्खा खलु तहेव निवेक्खा । निरवेक्खा जिनमादी सावेक्खा आयरियमादी ।। वृ- कृतकरणा नाम षष्ठाष्ठमादिभिर्विविधतपोविधानः परिकर्मितशरीरः इतर अकृतकरणाः षष्ठाष्टमादिभिस्तपोविशेषैरपरिकर्मितशरीराः तत्रयेकृतकरणास्तेद्विविधास्तद्यथासापेक्षाः खलु तथैव निरपेक्षाः, सह अपेक्षागच्छस्येतिगम्यतेयेषांतेसापेक्षागच्छवासिनः, निर्गता अपेक्षा येभ्यस्तेनिरपेक्षाः तत्र ये निरपेक्षास्ते त्रिविधा जिनादयः तद्यथा । जिनकल्पिकाःशुद्धपरिहारविशुद्धिका यथालंदकल्पिकाश्च, एते नियमतः कृतकरणा एव अकृतकरणानामन्यतमस्यापि कल्पस्य प्रतिपत्त्ययोगात् सापेक्षा अपि त्रिविधा आचार्यादयस्तद्यथा - आचार्या उपाध्याया भिक्षवश्व एते प्रत्येकं द्विधा भूयो भवंतितद्यथा-आचार्याः कृतकरणाअकृतकरणाश्च उपाध्याया अपिकृतकरणा अकृतकरणाश्चभिक्षवोपिकृतकरणा अकृतकरणाश्चतत्र कृतकरणानां चिंत्यमानत्वादस्यां गाथायामेते कृतकरणा ग्राह्याः । [भा.१६० अकयकरणावि दुविहा, अणहिगया अहिगया यबोधव्वा । जंसेवेइ अहिगए अनहिगएअस्थिर इच्छा ।। वृ- इहाचार्या उपाध्यायाश्च कृतकरणा अकृतकरणा वा नियमात् गीतार्थाः स्थिराश्च, तत इहाकृतकरणा भिक्षवएव ग्राह्याः,तेअक्तकरणा भिक्षवो द्विविधास्तद्यथा अनधिगताच अधिगताश्च अनधिगता नाम अगीतार्थाः अधिगता गीतार्थाः, अपिशवःसंभावने स चैतत्संभावयति, ये भिक्षवोऽनधिगतास्ते द्विविधास्तद्यथा स्थिरा अस्थिराश्च स्थिरा नाम धृतिसंहननसंपन्नाः तद्विपरीता अस्थिराः, अधिगता अपि द्विधा स्थिरा अस्थिराश्च कृतकरणा अपि भिक्षवो द्विधा अधिगताः अनधिगताश्च अनधिगता अपि द्विधा स्थिरा अस्थिराश्च अधिगता अपि द्विविधाः स्थिरा अस्थिराश्च अत्रैवसंक्षेपतः प्रायश्चित्तदानविधिमाह जंसेवेइइत्यादियत्प्रायश्चित्तस्थान सेवतेप्रतिसेवतेअधिगतो गीतार्थ उपलक्षणमेतत् कृतकरणः स्थिरश्च तस्मै तदेव परिपूर्न दीयते, तदेव प्रायश्चित्तस्थान प्राप्ते अनधिगतेअस्थिरेच अस्थिरे, चशद्वादकृतकरणेचगुरोः प्रायश्चित्तदानविधौ इच्छा सूत्रोपदेशानुसारण स्वेच्छा तथाहि यदि श्रुतोपदेशानुसारतः कतकरणः स्थिरोधिगत इति वा कतकरणादिरपि समर्थ इति विज्ञातो भवति तदा यदेव प्रायश्चित्तमापनस्तदेव तस्मै दीयते, । अथासमर्थ इति परीक्षित इति गाथावत्प्रायश्चित्तं प्राप्तस्तस्याक्तिनमनंतरं दीयते, तत्राप्यसमर्थतायां ततोप्यनंतरं तत्राप्यसामर्थ्य ततोप्यनंतरमेवं यथापूर्वं क्रमेण तावन्नयं यावन्निविकृतिकं तत्राप्यसमर्थतायां पौरुषीप्रत्याख्यानं, तत्राप्यशक्ती नमस्कारसहितंगाढग्लानत्वादिना तस्याप्यसंभवेएवमेवलोचनामात्रेणशुध्यापादनमिति, संप्रतिपुरुषभेदमार्गणायामेव प्रकारांतरमाह - [भा.१६१] अहवासा विक्खियरे निवेक्खा सव्वहा उकय करणा | इयरे कयाऽकयावा, थिराऽथिरा होति गीयत्था ।। वृ- अथवेति प्रकारांतरद्योतनार्थः, तच्च प्रकारांतरमिदं पूर्व कृतकग्णा कृतकरणभेदावादी कृत्वा पुरुपभेदमार्गमाकृता, अत्रतुसापेक्षनिरपेक्षभेदो तथाचाह - साविक्खियरत्ति द्विविधाः प्रायश्चित्तार्हाः पुरुषास्तद्यथा ।सांपेक्षा इतरेच, सापेक्षा गच्छवासिनस्तेचत्रिधाआचार्या उपाध्याया भिक्षवः, निरपेक्षा www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy