________________
पीठिका - [भा. १५४] तदनैकांतिकमिति दर्शयति - भा. १५५|
नाणत्तं दिस्सए अत्थे, अभिन्ने वंजणम्मिवि । वंजणस्स यभेदंमि कोइअत्थो न भिजए ||
वृ- व्यज्यते प्रकटीक्रियते अर्थोऽनेन प्रदीपेनेव घट इति व्यंजनं शब्दस्तस्मिन् अपिशब्दो भिन्नक्रमः स चैवं योजनीयोऽभिन्नपि एकरुपेपि एकअर्थे अर्धविषये नानात्वं दृश्यते यथा सैंधव इत्युक्ते तत्तत्प्रस्तावादिना अश्वलवणवस्त्राद्यर्थनानात्वं, तथा व्यंजनस्य शब्दस्य भेदेपि च शब्दांऽपिशब्दार्थो भिन्नक्रमश्चेत्यत्र संबध्यते कश्चिदर्थो न भिद्यते, यथा खं, व्योम, आकाशमिति कसमादेवं शब्दाभेदेपि अर्थनानात्वमिति चेत् ? उच्यते, शब्दार्थयोर्भेदाबेदविषये चतुर्भीगिकायाभावात्तधाहि अर्थस्थाप्यभेदः शब्दस्थाप्यभेद इति प्रथमो भंगः अर्थस्याभेदः शब्दस्य भेद इति द्वितीयः, अर्थस्याभेदः शब्दस्याभेदः इति तृतीयः अर्थस्य भेदः शब्दस्य भेदः इतिचतुर्थः एतेष्वेव चतुर्थभंगकेषु क्रमेणीदाहरणान्युपदर्शयति[भा. १५६ ] पढमो इंदोत्ति बिइयओ होइइंदसकोत्ति ।
५५
तइओ गो भूप पसू रस्सिणोत्ति चरमी धडपडोत्ति ।।
वृ- प्रथमो भंगोऽभिदः शब्दोऽभेदः इत्येवंरूपो यथा इंद्र इंद्र इति । तथाह्येकेनापि इंद्र इत्युक्तं द्वितीयेनापि इंद्र इति अत्र च द्वितीयेनापि इंद्र इति । अत्र च द्वयोरपि शब्दयोः स्वरुपाभेदेऽर्थाभेदश्च । द्वितीयो भेदः शब्दस्य भेद इति रुपो यथा इंद्रशक्र इति अत्र हि शब्दस्य नानात्वमर्थस्त्वभिन्न एव द्वयोरप्येकार्थकत्वात् तृतीयोऽर्थस्य भेदः शब्दस्याभेद इत्येवंलक्षणो यता भूप पशु रश्मिषु पुरुषभेदेन कालभेदेन वा प्रयुज्यमाना गोशब्दाः । अत्र हि गौरिति सर्वत्राप्यभिन्न इति, चरमी यथा घट पट इति अत्र हि द्वयोरपि शब्दयोः रुपभेदोप्यस्ति अर्यभेदोपि तत उपपद्यते शब्दाभेदेपि अर्थनानात्वमभिदेपि शब्दनानात्वं तेन यदुच्यते अभिधानाभेदतो नास्ति विशेष इति । तदनेकांतिकमुपदर्शितं भूपपशुरश्मिवाचिनां । गोशब्दानामभिधानाभेदेप्यर्थविशेषदर्शनातू सचार्थविशेषोत्रीऽप्यस्ति, यथोक्तं प्राकू अभिधानाभेदत इति यदुक्तं तत्प्रत्यक्षविरुद्धं व्यंजनभेदस्य साक्षादुपलभ्यमानत्वात्, तथाह्येकत्र कल्प इति - अपरत्र व्यवहार इति ।। अथार्थगत्याभिधानाऽभेद उच्यते न स्वरुपतस्तदप्यसत् अर्थविशेषस्याप्युभयत्र भावात्तथा चाह -
[भा. १५७]
वंजणेन य नाणत्तं अत्थतो अविकप्पियं । दिस्सए कप्पनामस्स ववहाररस तहेव य ।।
बृ- कल्पनाम्नोध्ययनस्य तथैव व्यवहारस्य व्यवहाराध्ययनस्य श्यते व्यंजनेन व्यंजनभेदन नानात्वं, प्रत्यक्षतः व पृथग्विभिन्नानां व्यंजनानामुपलभ्यमानत्वात् । तथाऽर्थतोऽर्थमाश्रित्यास्ति नानात्वं अविकल्पितं निश्चितं प्रायश्चित्तभेदानां प्रतिसेवनांसयोजनादीनां प्रायश्चित्तार्हपुरुषजातानां चकल्पाध्ययनानुक्तानामिह व्यवहाराभिधानात् तदरिहपरिसाय इत्येतत् द्वारव्याचिख्यासुरिहहं भणिया पुरिसजाया इत्यवयवं व्याख्यानयन्नाह
भा. १५८]
वट्टंतस्स अकप्पे पच्छितं तस्स वणिया भेदा । जे पुन पुरीसज्जाया तस्सरिहा ते इमे होति ।।
Jain Education International
बृ- इह कल्पे वर्तमानस्य सूत्रोक्तविधिनायतनया प्रवृत्तेः प्रायश्चित्तविषयतैव नोपजायते, इत्यकल्पगृहणमकल्पे दर्पादौ वर्त्तमानस्य यत्प्रायश्चित्तं तस्ययेभेदाः प्रतिसेवनासयोजनादयस्ते वर्णिता
For Private & Personal Use Only
www.jainelibrary.org