________________
५४
व्यवहार - छेदसूत्रम् - १
सुभिक्खमिदुभिक्खे हटण तहा गिलाणेणं ।।
- द्रव्यविषया प्रतिकुंचना नाम सचित्ते उपलक्षणमेतत् मिश्र वा प्रतिसेविते अचित्तं मया प्रतिसेवितमित्यालोचयति, क्षेत्रप्रतिकुंचना जनपदे प्रतिसंव्य यदध्वनि प्रतिसेवितमित्यालोचयति, कालप्रतिकुंचना यत्सुभिक्षे काले सेवित्वा दुर्भिक्षे मया प्रतिसेवितमित्यावेदयति, भावप्रतिकुंचना यत् हृष्टेन सता ग्लानेन सता मया प्रतिसेवितमित्यालोचयति उक्ता प्रतिकुंचना अधुना अनंतरगाथोत्तरार्धं व्याख्यानयन् अज्झयणाण विसंसाँ इति द्वारं व्याख्यानयति तत्र चोयग इत्यवयवं व्याचिख्यासुराह - [ भा. १५१] कप्पंमिवि पच्छित्तं ववहारंमिवि तहेव पच्छित्तं ।
कप्पववहाराणं को नु विसेसोत्ति चोएइ ।।
वृ- ननु कल्पे प्रायश्चित्तमुक्तं, व्यवहारेपि तदेव प्रायश्चित्तमभिधीयते ततः कल्पव्यवहारयोः को नु विशेषो नैव कश्चनापीतिभावः न तुशब्दस्याक्षेपद्योतकत्वादिति चोदयति । प्रश्नयति शिष्यः । अपि चाभिधानतोपि कल्पव्यवहारयोर्विशेषानुपपत्तिः तथाचाह -
[ भा. १५२ ]
जो अवितहववहारी सी नियमा वट्टए उकप्पंमि । इय बिहु नथि विसेसो अज्झयणाणं दुवेण्हंपि ।।
वृ- यो नाम साधुरवितथव्यवहारी स नियमादवश्यंभावेन वर्त्तते एव तुकारार्थः कल्पे आचारे आचारवर्त्तिन एव यथोक्तावितथव्यवहारकारित्वात् । यश्च वर्त्तते कल्पे आचारे प नियमादवितथव्यवहारकारी तथाहि कल्पो व्यवहार आचार इत्यनर्थांतरमिति इयबिहु इत्यपि एवमपि अर्थगत्याभिधानाभेदतोपि आस्तां प्रागुक्तप्रकारेणाभिधेयाभेद इत्यपिशब्दार्थः हुर्निश्चितंद्वयोरपि कल्पव्यवहारयोरध्ययनयोनास्ति विशेषः एवं परेणाभिधेयाभेदतोऽभिधानाभेदतःञ्चैक्यं प्रतिपादिते सूरिभिधेयभेदं दर्शयन् कप्पारोवणेत्ति अवयवं व्याख्यानयति ।
[ भा. १५३ ]
कप्पंमि कप्पिया खलु मूलगुणे चेव चउत्तरगुणेयः यवहारे ववहरिय | पायच्छित्ता भवंतेय ।।
वृ- कल्पे कल्पाध्ययने कल्पितान्येव प्ररुपितान्येव खलु शब्दस्यैवकारार्थत्वात् नतु दानव्यवहार प्रवर्त्तितानि कानीत्यत आह मूलगुणा चैव उत्तरगुणा य इति विषयेण विषयिणां लक्षणात् मूलगुणापराधप्रायश्चित्तानि उत्तरगुणापराधप्रायश्चित्तानि । व्यवहारे व्यवहाराध्ययने पुनर्व्यवहृतानि दानव्यवहारविषयीकृतानि किमुक्तं भवति कल्पाध्ययने मूलगुणापराधे वा आभवंति प्रायश्चित्तान्युक्तानि अस्मिंस्तु व्यवहाराध्ययने तेषामाभवतां प्रायश्चित्तानां दानमुक्तमिति यानि च कल्पाध्ययनं आभवंति प्रायश्चित्तानि नोक्तानि तानि व्यवहारेभिधीयंते तेषां दानं च किंच - अविसेसियं च कप्पे इह तु विसेसियं इमं ।
भा. १५४ ]
चउहा डिसेवण संजोयण आरोवण कुंचियं चेव ।।
वृ- चः समुच्चये अन्यच्चेत्यर्थः । कल्पे कल्पाध्ययने प्रायश्चित्तमविशेषितं विशेषरहितमुक्तं । इहइन्तुत्ति इः पादपूरणे सानुस्वारता पूर्ववत्तुः पुनरर्थे इह व्यवहाराध्ययने पुनरिदं प्रायश्चितंचतुर्द्धा चतुर्भिः प्रकारैर्विशेषितं, तानेव प्रकारान्नाह । प्रतिसेवनं संयोजनमारोपणं कुंचनमिति प्रतिकुंचनं एतानि अनंतरमेव सप्रपंचं व्याख्यातानीति न भूयो व्याख्यायंते तदेवभिधेयाभेदता नास्ति विशेष इति यदुक्तं तदसिद्धमिति प्रतिपादितमभिधेयभेदस्य दर्शित्वात् । यत्पुनरुच्यतं अभिधानाभेदतो नास्ति विशेष इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org