________________
७४
व्यवहार- छेदसूत्रम् - २ ४/११० वृ- सीवन तूर्णनस्वध्यायध्यानपात्रलेपादिदानकार्यैर्गाथायां सप्तमी तृतीयार्थे यो व्याक्षेपस्तस्मिन् व्याक्षेपेऽनुपस्थापयति प्रायश्चित्तं भवति गुरुको मासो, ग्लान्येन त्वनुपस्थापयति मासलघु । । सम्प्रति यैः कारणैः स्मरतोऽस्मरतश्चानुस्थापयतः प्रायश्चित्तं न भवति । तान्यभिधित्सुराह-धम्मका इडिमतो वादे अच्चुक्कडे व गेलन्ने ! बिइयं चरमपए दो पुरिमेसु तं नत्थि ।।
[भा. २०५३]
- ऋद्धिमतो राज्ञो युवराजस्यामात्यादेर्वा प्रतिदिवसमागच्छतो धर्मकथा कथ्यते परप्रवादी वा कश्चनाप्युपस्थितः । स वादे निग्रहीतव्यः इति तन्निग्रहणाय विशेषतः शास्त्राभ्यासे तेन सह वादे वा दीयमाने यदि वा आचार्यस्यान्यस्य वा साधोर्यो वा उपस्थाप्यस्तस्य वा अत्युत्कटे ग्लानत्वे जाते व्याकुलीभूतः स्मरन्नस्मरन् वा यद्यपि नोपस्थापयतितथापिन तस्य प्रायश्चित्तं कारणतो व्याकुलीभवनात् । एतच्च प्रायश्चित्ताभावलक्षणं । द्वितीयपदमपवादपदं चरमपदयोर्द्वयोर्व्याक्षेपग्लानत्वलक्षणचोरवगन्तव्यम् । यथाहि-धर्मकथावादाभ्यां व्याक्षेपउक्तो ग्लानत्वपदेन च ग्लानत्वमिति पूर्वयोस्तु द्वयोः पदयोस्तत् अपवादपदं नास्ति एतच्चतुर्विधं प्रायश्चित्तमस्मरन् निमित्तमुक्तं स्मरणतस्तु चतृ रात्रपञ्चरात्र्याद्यतिक्रमे यत् प्रायश्चित्तं तत् पूर्वसूत्रे इवात्रापि निरवशेषं द्रष्टव्यम् ।।
मू. (१११) आयरिय उवज्झाए सरमाणे वा असरमाणे वा परं दसरायकप्पातो कप्पागं भिक्खुंनो उबट्ठावेति, कंप्पाए अत्थि याइं से केइ माननिज्जे कप्पाए, नत्थि याई से केइ छेदेवा परिहारे वा; नत्थि याइं से केइ माणणिज्जे कप्पाए, संवच्छरं तरस तम्पतियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेइवत्त वा उद्दिसत्तए वा ।।
"
वृ- आचार्य उपाध्यायो वा स्मरन् अस्मरन् वा यदा स्मरति तदा न साधकं नक्षत्रादिकं यदा तुसाधकं नक्षत्रादिकं तदा बहु व्याक्षेपतो न स्मरति तत उक्तं स्मरन्वा अस्मरन्वा परं दशरात्रकल्पात् दशरात्रात्कालात्कल्पाकंभिक्षुनोपस्थापयति । तत्र यदि तस्मिन् कल्पाके सति अस्ति से तस्य कल्पाकस्य कश्चिन्माननीयः पित्रादिर्भावीकल्पाकस्ततो नोपस्थापयति तर्हि नास्ति से तस्यानुपस्थापयतः कश्चित् छेदः परिहारो वा, अथ नास्ति से तस्य कल्पाकस्य कश्चिन्माननीयः पित्रादिर्भावीकल्पाकस्तर्हि - तस्यानुपस्थापयतः छेदः परिहारो वा, प्रथमादेशत इति वाक्यशेषो द्वितीयादेशेन पुनच्छेदेन परिहारतपसा वा अदम्यमानस्य तत्प्रत्ययमनुस्थापनाप्रत्ययं तस्य संवत्सरं यावन्न कल्पते आचार्यत्वमुपदेष्टु मनुज्ञातुं संवत्सरं यावत् गणो हियते इति भावः । एष सूत्रसंक्षेपार्थः । व्यासार्थं तु भाष्यकृदभिधित्सुः प्रथमतो दशरात्रनिबन्धनमाह
[भा. २०५४ ]
सरमाणे पंच दिना असरणमाणेवि तत्तिया चेव । कालोत्ति व सम ओत्ति व अद्धा कप्पोति एगई ।।
वृ- स्मरत्यपिचउराय पंचण्यातो इत्यनेन पञ्चदिनान्युक्तानि अस्मरत्यपि तावन्ति चैव पञ्च दिनानि चैवोक्तानि । इदं च स्मरणास्मरणमिश्रकसूत्रमतो दशरात्रात्कल्पादित्युक्तमत्रैव कल्पशब्दस्तद् व्याख्यानमाह । काल इति वा समय इतिवा अद्धा इति वा कल्प इति वा एकार्थं, ततो दशरात्रकल्पादिति दशरात्रकालादिति द्रष्टव्यम् ।। सम्प्रति स्मरणास्मरणं भावयति
[ भा. २०५५ ]
Jain Education International
जाहे सुमरइ ताहे, असाहगं रिक्खलग्ग दिनमादी | बहुविक्खेवंमि यगणे, सरियंपि पुनो वि विस्सरति ।।
For Private & Personal Use Only
www.jainelibrary.org