________________
उद्देशक :-४, मूल - १०९, [भा. २०४८]
७३ वृ- पूर्वं पितापुत्रादिसम्बन्धेनासम्बन्धेष्वनेकेषु राजसु समकं सूत्रादिभिः प्राप्तेष्वत एवैककालमुपस्थाप्यमानेषु, 'अनभिजोगत्ति' गुरुणा अन्येन वाभियोगो न कर्तव्यो यथा इतस्तिष्ठथ इतस्तिष्ठथेति । किन्त्वेकतः पार्श्वे द्विधातो वा द्वयोर्वा पार्श्वयोर्यथैव स्थिताः स्वस्वभावेन तेषामावलिका तथैव तिष्ठतु तत्रयोयथागुरोः प्रत्यासन्नः सतथाज्येष्ठोये तूभयोः समश्रेण्या स्थितास्ते समरत्नाधिकाः । इदानीं पूर्वगाथापश्चार्धव्याख्या-'ईसर इत्यादि' यथा द्विप्रभृतयो राजान उक्ता एवं द्विप्रभृतयः श्रेष्ठिनो द्विप्रभृतयोऽमात्या द्विप्रभृतयो निगमावणिजः ‘घडत्ति' गोष्टी द्विप्रभृतयो गोष्टयो यदि वा द्विप्रभुतयो गोष्ठिका 'कुलत्ति' यदि वा द्विप्रभृतयो महाकुला, द्विकग्रहणमुपलक्षणं तेन त्रिप्रभृतय इति द्रष्टव्यं । तथैव च व्याख्यातम् ‘खुदुत्ति' क्षुल्लकाः समकं प्रव्राजिता इत्यर्थः । समकं सूत्रादिभिः प्राप्ताः सम रत्नाधिकाः कर्तव्या । एतेषामेव मध्ये यः पूर्वं प्राप्तः स पूर्वमुपस्थाप्यते इति वृद्धसम्प्रदायः ।। [भा.२०४९] ईसिं अन्नो अंतो वामे पासम्मि होइ आवलिया ।
अभिसरणमि य वड्डीओसरणेसो व अनोवा ।। वृ- तेषामुपस्थाप्यमानानामावलिका गुरोर्वामपार्श्वे गजदन्तवत् ईषदवनतस्य अवनतीभूय स्थितास्तत्र यदि से गुरुसमीपमग्रतोऽभिसरन्ति तदा गच्छस्य वृद्धिर्ज्ञातव्या । यथान्येऽपि बहवः प्रव्रजिष्यन्तीति । अथ पश्चात् बहिरपसरन्ति तदा स उपस्थाप्यमानोऽन्यो वा उन्निःक्रमिष्यति अपद्रविष्यतिवेदितव्यंज्ञातव्यमेवेतिनिमित्तकथनम् ।।
मू. (११०) आयरिय उवज्झाए असरणमाणे परंचउराय पंचरायातो कप्पागं भिक्खुंनोउवट्ठावेई तंचेवभणियच्वं ।।
वृ-अस्य व्याख्या प्राग्वत् । नवरं तंचेवभणियव्यं' इति वचनादेवं परिपूर्णः पाठोद्रष्टव्यः ‘कप्पाए अत्थियाइंसेकेइमाननिज्जेकप्पागे, नथियाइंसे केइछेएवा परिहारेवा, नत्थियाइंसे केइमाननिज्जे कप्पाए, से संतरा छेदे वा परिहारे वा ।। अस्यापि व्याख्या प्राग्वत् । तत्र यैः कारणैर्न स्मरति तान्युपदर्शयन्नाह[भा.२०५०] दम्पेणपमाएणव वक्खेवेणय गिलानतो वावि ।
एएहिं असरमाणेचउव्विहं होइपच्छित्तं ।। वृ-दो निष्कारणोऽनादरस्तेन [१] प्रमादो विकथादीनां पञ्चानां प्रमादानामन्यतमस्तेन [२] व्याक्षेपेण सीवनादिना [३] ग्लान्यतः वा [४] एतैः कारणैरस्परति प्रायश्चित्तमस्मरणनिमित्तं चतुर्विधमस्मरणकारणस्य दपदिश्चतुःप्रकारत्वात्तदेवमभिधित्सुः प्रथमतो दर्पतः प्रमादेनचाह.. [भा.२०५१] वायामवणनादिसुदप्पेणअनुठवेंति चउगुरुगा।
विकहादिपमाएणवचउलहुगा होतिबोधव्वा ।। वृ- व्यायामवल्गनादिषु व्यापृततया यो निःकारणेऽनादर उपस्थापनायाः स दर्प उच्यते । तेन दर्पणानुपस्थापयतिप्रायश्चित्तंचत्वारोगुरुकाः, विकथादिना अन्यतमेनप्रमादेनानुपस्थापयति चत्वारो लघुका भवन्तिबोद्धव्याः । [भा.२०५२] सिव्वणतुत्रणसज्झायज्झाणलेवादिदानकज्जेसु ।
वेक्खेवे होइगुरुगो गेलनेनंतुमासलहु ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org