________________
७२
व्यवहार- छेदसूत्रम् - २ - ४ /१०९ बत्कर्तव्या । तथाप्यनिच्छायामुपेक्षा वस्तुस्वभावं ज्ञात्वा प्रतीक्षापणं धेरे 'खुदत्ति' द्वौ स्थविरावेकश्च क्षुल्लकः सूत्रादिभिः प्राप्तोऽत्रोपस्थापना 'वोच्चत्थे' इत्यादि स्थविरक्षुल्लकस्य च विपर्ययस्ततो भवति मार्गणा कर्तव्या । सा चैवम् द्वौ क्षुल्लकौ प्राप्तावेकश्च स्थविरः प्राप्त एको न प्राप्तस्तत्र यो न प्राप्तः स आचार्येण वृषभैर्वा प्रज्ञाप्यते । प्रज्ञापितः सन् यद्यनुजानाति तदा तत् क्षुल्लक उपस्थाप्यते तथाप्यनिच्छायां राजदृष्टान्तेन तथैव प्रज्ञापना । अयं चात्रविशेषः । सोऽप्राप्तस्थविरो भण्यते - एष तव पुत्रः परममेधावी सूत्रादिभिः प्राप्त इत्युपस्थाप्यतां, यदि पुनस्त्वं न मुत्कलयसि तदेतौ द्वावपि पितापुत्रौ रत्नाधिको भविष्यतस्तसमाद्विसर्जय एनमात्मीयं पुत्रमेषोऽपि तावद्भवतु रत्नाधिक इति । अतोऽपि परमनिच्छायामुपेक्षावस्तुस्वभावं ज्ञात्वा वा तत् क्षुल्लकस्य प्रतीक्षापणमिति । स्न्नो य अमच्चाई इत्यादि पश्चार्धं राजा अमात्यश्च समकं प्रवजितौ समकमेव सूत्रादिभिः प्राप्तौ ततो युगपत्तौ द्वावप्युपस्थाप्येते । अथ राजा सूत्रादिभिः प्राप्तो नामात्यो राज्ञ उपस्थापना । अधामात्यः सूत्रादिभिः प्राप्तो न राजा ततो यावदुपस्थापनादिनमागच्छति तावदादरेण राजा शिक्ष्यते, ततो यदि प्राप्तो युगपदुपस्थापना । अथ तत्रापि राजा न प्राप्तस्तदा तेनानुज्ञाते अमात्य उपस्थाप्यते । अथ नेच्छति तदा पूर्ववत् दण्डिकदृष्टान्तेन राज्ञः प्रज्ञापना, तथापि चेन्नेच्छति ततः पञ्च दिवसान्यावदमात्यस्य प्रतीक्षापणं तथापि चेन्न प्राप्तो भूयः प्रज्ञापना। तत्राप्यनिच्छायां पुनः पञ्चदशाहमपि तथाप्यनिच्छायामुपेक्षा वस्तुस्वभावं वा ज्ञात्वामात्यस्य प्रतीक्षापणं । यदि वा वक्ष्यमाणोऽत्र विशेषो यथा वामात्यस्य राज्ञा सहोक्तमेवमादिग्रहणसूचि तयोः श्रेष्ठिसार्थवाहयोरपि वक्तव्यमिति, 'संजइमज्ज्ञे महादेवीति' द्वयोर्मातादुहित्रोर्द्वयोर्माता दुहितृयुगलयोमहादेव्यमायत्योश्च सर्वमेव निरवशेषं वक्तव्यम् । सम्प्रति यदुक्तं 'वोच्चत्थमग्गणा होइ' इति तद् व्याख्यानार्थमाह
[भा. २०४६ ] दो पत्त पियापुत्ता एगस्स पुत्तपत्त न उथेरा । गहितोय सयं राइनितो होउ एस विय ।।
वृ द्वौ पितापुत्रा प्राप्तावेकस्य तु पितापुत्रयुगलस्य पुत्रः प्राप्तो न तु स्थविरः । स आचार्येण वृषभेण वा प्रज्ञापनां ग्राहितः स्वयं वितस्त्यनुजानाति । तदा तत् क्षुल्लक उपस्थाप्यते । अथ नेच्छति तदा पूर्ववद्राजद्रष्टान्तेन प्रज्ञापना । अन्यच्चैतौ पितापुत्रौ रत्नाधिकौ भविष्यत एषोऽपि च तव पुत्रो यदि रात्निको रत्नाधिको भवति । भवतु नाम तव लाभ एष इति तथाप्यनिच्छायां पूर्ववदुपेक्षादि । राया रायाणो वा दोनिवि समपत्त दोसु पासेसु । ईसरसेहि अमच्चे निगमघडाकुल दुए खुडे ।।
[ भा. २०४७ ]
वृ- एको राजा द्वितीयो राजराजानस्तौ समकंप्रव्रजितौ । अत्रापियथा पितापुत्रयोर्वा प्रागुक्तं तथापि निरवशेषं वक्तव्यं केवलमवमेऽमात्यादिके सूत्रादिभिः प्राप्ते उपस्थाप्यमाने यदि राजादिरप्रीतिं करोति दारुणस्वभावतया ब्रूते वा किमपि परुषं तदा सोऽप्राप्तोऽपीतैरैरमात्यादिभिः सममुपस्थाप्यते । अथवा 'रायत्ति' अत्रएको राजा तत्र सोऽमात्यादीनां सर्वेषां रत्नाधिकः कर्तव्यः 'रायाणोत्ति' यत्र पुनर्द्विप्रभृतयो राजानः समकं प्रव्रजिताः समकं च सूत्रादिभिः प्राप्तास्ते समरत्नाधिकाः कर्तव्या इत्युपस्थाप्यमाना द्वयोः पार्श्वयोः स्थाप्यन्ते ।। अत्रैवार्थे विशेषमाह
[ भा. २०४८ ]
Jain Education International
समगं तु अनेगेसुं पत्तेसुं अनभिजोगमावलिया । एगतो दुहतो ठविया समराइनिया जहासन्नं । ।
For Private & Personal Use Only
www.jainelibrary.org