SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ उद्देशक :- ४, मूल - १०९, [भा. २०३२] [ भा. २०३२ ] ६९ लग्गादिं च तुरंते अनुकूले दिजिए उ अहजायं । सयमेव तु थिरहत्थो गुरु जहन्नेन तिन्नट्ठा ।। वृ- इहोत्सर्गतो लोचे कृते यताजाते च रजोहरणादिके समर्पिते पश्चात्त्रिः कृत्व सामायिकमुच्चार्यते, इत्येष विधिर्यदि पुनर्लग्नादिकंत्वरमाणं स्यात्ततोऽनुकूले लग्ग्रादौ चादिशब्दात् मुहर्तादिपरिग्रहः त्वरमाणेः शीघ्रं समापतति यथाज्ञातं सनिषद्यं रजोहरणमुखवस्त्रिकाग्रपूररूपं दीयते । उक्तं च । अहाजायं नाम सनिसेचं रस्यहरणं मुहपोत्तिया बालपज्जेय इति, ततो यदि गुरुः स्थिरहस्तो न कम्पते अट्ठगृह्णानस्य हस्तः तर्हि स स्वयमेव जधन्येन तिस्त्रोऽअव्यवच्छित्वा गृह्णाति समर्थः सर्व वा लोचं करोतिअन्नो वा थिरहत्थोसामाइयतिगुणमठगहणंच । तिगुणं पादक्खिणं नित्थारण गुरुगुणविवड्ढी ।। [भा. २०३३] वृ- आचार्यस्य स्थिरहस्तत्वाभावे अन्यो वा स्थिरहस्तः प्रव्राजयति समस्तं लोचं करोतीति भावः । तदनन्तरं गुरुः शोभने लग्नादौ प्राप्ते त्रिगुणं त्रीन् वारान् सामायिकमुच्चारयति । इयमत्र भावना - प्रथमतः प्रव्राजनीयमात्मनो वामपार्श्वे स्थापयित्वा चैत्यानि तेन सह वन्दन्ते ततः चतुर्विशतिस्तवं चिन्तयित्वा नमस्कारेण पारयित्वा चतुर्विंशतिस्तवमाकृष्य त्रिकृत्वः सामायिकमुच्चारयति तदनन्तरमर्थग्रहणं स कारयितव्यः । सामायिकार्थस्तस्य व्याख्यायते इतिभावः । ततः सूत्रतोऽर्थतश्व गृहीतं सामायिकमिति तदनुज्ञानिमित्तं विधिना त्रिगुणं प्रादक्षिण्यं कार्यते । तत्र तृतीयस्यां प्रदक्षिणायामनुज्ञा क्रियते, यथा निस्तारको भव, गुरुगुणैर्विवृद्धिर्भवतु, वर्धस्वेत्यर्थः । एवं प्रव्राजनायां कृतायां यत्कर्तव्यं तदाहफासुय आहारो से अनहिंडंतो य गाहए सिक्खं । [ भा. २०३४] तोहे उ उवठावण छज्जीवनियं तुपत्तस्स ।। वृ- प्रव्रज्याप्रदानान्तरं से तस्य प्रासुक आहारोदीयते । स च भिक्षां न हिण्डाप्यते किं त्वहिण्डमान एव शिक्षां ग्रहणशिक्षामासेवनाशिक्षां च ग्राह्यते । ततः षड् जीवनिकां प्राप्तस्याधिगृहीतषट्जीवनिकाध्ययनस्य उपस्थापना क्रियते । विपक्षे प्रायश्चित्तविधिमाह [भा. २०३५] अप्पते अकहेते अनहिगय अपरिच्छ अतिक्कमे पासे ! एक्केको चउगुरुगा, चोयग सुत्तं तुकारणियं ।। वृ- अप्राप्ते षड्जीवनिकां पर्यायं वा जधन्यतः षण्मासानुत्कर्षतो द्वादशसंवत्सराणि तथा अकथयित्वा जीवाजीवादीन् तथा अनधिगते जीवाजीवादी तथा अपरीक्षायां परीक्षाया अभावे तथा से तस्य उपस्थापयितोऽतिक्रमे एकैकस्य व्रतस्य वास्त्रयमनुच्चारणे एतेषु सर्वेषु प्रत्येकमेकैकस्मिन् प्रायश्चित्तं चत्वारो गुरुकाः । अथ सूत्रे पर्यायादिकं नोपात्तमिति तत्कथने कथं न सूत्रविरोधस्तत्राह-हे चोदक सुत्रमिदं कारणिकं पुरुषविशेषपात्रापेक्षमतः पर्यायाद्यनभिधानेऽपि न दोषः एनामेव गाथां वै तथा भाष्यकृद्विवृणोति । [भा. २०३६ ] अपत्ते सुएणं परियागमुवठावेंते चउ गुरुगा । आणादिणो य दोसा विराधना छण्हकायाणं ।। वृ- श्रुतेन षड्जीवनिकापर्यन्तेनाप्राप्ते पर्यायं वा जघन्यादि भेदभिन्नमप्राप्ते उपस्थाप्यमाने उपस्थापयितुः प्रायश्चित्तं चत्वारो गुरुकाः, तपसा कालेन च गुरुवो, न केवलमेतत् । किन्त्वाज्ञाअनवस्थामिथ्यात्वविराधनादोषास्तथा स उपस्थापितो भिक्षादौ किल कल्पिको भवति । ततरतस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy