SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ६८ व्यवहार - छदसूत्रम् - २- ४ /१०९ अयोगात् । अथ नास्ति से तस्य कश्चित् माननीयः कल्पाको भावी । ततः से तस्याचार्यस्योपाध्यायस्य वा स्वकृतादन्तारात् च्छेदः परिहारो वा इयमत्र भावना अत्रादेशद्वयमेके प्राहुश्चतूरात्रान्परं यदि अन्यानि चत्वारि दिनानि नोपस्थापयति तत आचार्योपाध्यायस्य च प्रत्येकं प्रत्येकं प्रायश्चित्तं चतुर्गुरुकं चतुर्गुरुकम्, अथ ततोप्यन्यानि चत्वारि दिनानि लंघयति, ततः षट्लघुकं ततोऽप्यन्यानि चत्वारि दिनानी ततः षट्गुरुकं ततोऽप्यन्यानि यदि चत्वारि दिनानि ततश्चतुर्गुरुकच्छेदः ततः परमन्यानि चत्वारि दिनानी यदि तर्हि षट् लघुकः षट् लघुकच्छेदः ततोऽपि चेदन्यानि चत्वारि ततः षड् गुरुकः षड् गुरुकच्छेदः । ततः परमेकैकदिवसात्क्रिमे मूलानवस्थाप्य पाराञ्चितानि द्वितीयादेशवादिनः प्राहुः पञ्चरात्रात् परं यदि नोपस्थापयति ततश्चतुर्गुरुकं प्रायश्चित्तं, ततोऽपि परं यदि पञ्चदिनानि लङ्गयति ततः षड् लघुकं, ततः परमपि पञ्चरात्रादिक्रमे षड्गुरुकं, ततोऽपिपरं यदि पञ्च दिनानि वाहयति ततश्चतुर्गुरुकञ्श्चतुर्गुरुच्छेदस्ततः परमन्यानि चेद्दिनानि पञ्च ततः षड् लघुकः षड्लघुकच्छेदः । ततोऽपि पञ्चरात्रातिवाहनेन षट्गुरुक षट्गुरुकच्छेदः । ततः परमेकैकदिवसातिवाहने मूलानवस्थाप्य पाराञ्चितानि । एष सूत्रसंक्षेपार्थः । अधुना भाष्यनियुक्तिविस्तरः । तत्र भाष्यकारः प्राह[भा. २०२९] संभरण उववावण तिनि उ पणगा हवंति उक्कोसा । माननिजे पितादी तु, तेसु सती च्छेद परिहारो ।। वृ- संस्मरणमुपस्थापनाविषये यथा एष उपस्थापयितव्यो वर्तते इति । तत्र माननीये पित्रादौ सति कल्पाकस्यातिवाहने त्रयः पञ्चका भवन्त्युत्कर्षतः । किमुक्तं भवति, विवक्षिते भिक्षौ कल्पाके जाते सति यदि तस्य माननीयः पित्रादिरुपस्थाप्योऽस्ति परमद्यापि कल्पाको नोपजायते तर्हि स जधन्यतः पञ्चरात्रंप्रतीक्षाप्यते, मध्यमतोदशरात्रमुत्कर्षः पञ्चदशरात्रं, तथापि चेन्माननीयः कल्पाको नोपजायते, तर्हि स कल्पाको भिक्षुरुपस्थापनीयो नो चेदुत्थापयति तर्हि च्छेदः परिहारो वा प्रायश्चित्तं । अथ तस्य माननीयाः पित्रादयो न सन्ति, ततस्तेषामसत्यभावे यदि तं चतूरात्रमध्ये पञ्चरात्रमध्ये वा नोपस्थापयति तथापि तस्य प्रायश्चित्तं च्छेदः परिहारो वा च्छेदपरिहारग्रहणं सूचामात्रं तेनादेशद्वयेन प्रागुक्तः प्रायश्चित्तविधि द्रष्यव्यः ।। [भा. २०३०] चिउता उठवणा, पुव्विं पव्यायणादिवत्तव्या । अडयालपुच्छसुद्धे, भन्नति दुखं खु सामन्नं ।। वृ- तिष्ठतु तावदुपस्थापना, पूर्व प्रव्राजनादिवक्तव्यता वक्तव्या । तत्र यथा पञ्चकल्पे निशीथे वाष्टचत्वारिंशत्पृच्छा शुद्धोऽभिहितस्तथा अष्टचत्वारिंशत् पृच्छा शुद्धे कृते तत्संमुखमिदंभण्यते । दुक्खं खुश्रामण्यं परिपालयितुम् । तथाहि [भा. २०३१] गोयर अचित्तभोयण, सज्झायमह्णाण भूमिसेजाती । अब्भुवगमि दिक्खा, दव्वादीसुं पसत्थेसुं ।। " बृ यावज्जीवं गोचरचर्यया भिक्षामटित्वा अचित्तस्यैषणादिशुद्धस्य भोजनं कर्तव्यं तदपि बालवृद्धशैक्षिकादिसंविभागेन, तथा चतुः कालं स्वाध्यायो विधातव्यः यावज्जीवं देशतः सर्वतश्चास्रानं । ऋतुबद्धे काले भूमौ शय्या आदिशद्वाद्वर्षारात्रे फलकादिषु शयनं, दिवसे न स्वप्तव्यं, रात्रौ तृतीये यामे निद्रामोभः । एवमुक्ते यद्यभ्युपगच्छति तत एतस्मिन्नभ्युपगते तस्य दीक्षाप्रवेशस्तेषु द्रव्यादिषु प्रशस्ते द्रव्ये शाल्यादिसंचयादौ प्रशस्ते क्षेत्रे गंभीरसानुनादादौ प्रशस्ते भावे प्रवर्धमानपरिणामादौ दातव्या । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy