SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ६५ उद्देशक :-४, मूल- १०८, [भा. २०१५]. जीवितावधिकत्वात् ततो भवजीवितमरणात्प्राक्तनसूत्राभिहितात्तदनन्तरमिदं संयमजीवितान्मरणं प्रतिपाद्यते भवतीति तदर्थमिदं सूत्रमनेनसम्बन्धेनायातस्यास्य वाख्या-आचार्य उपाध्यायो वा मोहेन रोगेण वा अवधावन् उपाध्यायादिकानां गीतार्थपंचमानां पुरुषाणामन्यतमं वदेत् यावत्करणादेवं परिपूर्णपाठो द्रष्टव्यः ।। अञ्जो ममंसि नं ओहावियंसि अयं समुक्कसियव्वो सेय समुक्कसणारिहे समुक्कसियव्वे सिया । से य नो समुक्कसिणारिहे नो समुक्कसियव्वे सिया, अस्थिथ इत्थ अन्नो केइ समुक्कसणारिहेसेसमुक्कसियव्ये, नत्थिया इत्थ अन्ने केइसमुक्कसणारिहेसे चेव समुक्कसियव्वे तेसिंचणं सेसमुक्किटुंसि परो वएज्जा दुस्समुक्किटुंते अजो निक्खिवाहि तस्स नं निक्खिवमाणस्स नस्थि केइच्छेदं परिहारे वा ।। अस्य व्याख्याप्रांग्वत् । अधुना नियुक्तिविस्तरः केन पुनः कारणेनासवावधावतीतिचेदत आह. [भा.२०१६] मोहेन वारोगेन व ववहाणां भेसयां पयत्तेणं । धम्मकहाए निमित्तेअनाहसाला गवसणाय ।। वृ- अवधावनं मोहेन वा कामोद्रेकरुपेण रोगेण वा । तत्र मोहविषया यतना प्राक् तृतीयोदेशकेऽभिहिता, यदि रोगेण ततो नावधातव्यम् । किन्तु प्रयत्नेन भेषजं दातव्यम् । तच्च धर्मकथानिमित्तेन चोत्पादनीयं तथाप्यलाभे अनाथशालातो गवेषणा भेषजस्य कर्तव्येति नियुक्तिगाथायाः संक्षेपार्थः । एनामेवसम्प्रतिभाष्यकृद्विवरीषरिदमाह[भा.२०१७] मोहेन पुब्वभणियं रोगेन करेंतिमाए जयणाए । आयरियकुलगणे वासंघेव कमेणपुव्युत्तं ।। वृ- यदि मोहेनावधावनं कर्तुमीहते तदा यत्पूर्व तृतीयोदेशके मोहचिकित्साविषयं भणितं, तत्कर्तव्यमधरोगेणतदानया वक्ष्यमाणयाप्रथमतःप्रासुकेन तदलाबेनाप्रासुकेनापीत्येवंरुपया यतनया पूर्वोक्तंभेषजं प्रयत्नेन सम्पादनीयमित्यादिरुपंकुर्वन्ति । केते कुर्वन्ति इति अत आचार्यः कुलंगण: सङ्गोवा कथमित्याह-क्रमेणपरिपाटया ।तामेवपरिपाटी कालनियमनपूर्विकामाह[भा.२०१८] छम्मासे आयरिओ, कुलंतुसंवच्छराणि तिन्निभवे । संवच्छरंगणोखलु, जावज्जीवंभवेसंघो ।। वृ- प्रथमत आचार्यः षण्मासान् यावत् चिकित्सां कारयति, तथाप्यप्रगुणीभूतं तं कुलस्य समर्पयति, ततः कुलं त्रीन् संवत्सरान् यावञ्चिकित्सकं भवति, तथाप्पप्रगुणीभवने गणस्य-तदनन्तरं संवत्सरंयावत्गणः खलु चिकित्सांकारयति, तथाप्यनिवर्तितरोंगेतंगणः सङ्घस्यसमर्पयति, ततः सङ्घो यावजीवं प्रासुकप्रत्यावतारेण तदभावे चाप्रासृकेनापि यावजीवं चिकित्सको भवति । एतच्चोक्तं भक्तविवेकंकर्तुमशक्नुवतः, य: पुनर्भक्तविवेकंकतुशक्नोति, तेन प्रथमतोऽष्टादशमासा चिकित्सा कारयितव्या, विरतिसहितस्यजीवितस्यपुनःसंसारेदुःप्रापकत्वात्तदनन्तरंचेत्प्रगुणीभवतिततःसुन्दरमथ नभवतितर्हि भक्तविवेकः कर्तव्यः । अत्रैवादेशान्तरमाह[भा.२०१९] अहवा बिंइयादेसा गुरुवसभेभिक्खुमादितेगच्छं । जत्थिय बारसवासा, तिच्छक्कसासा असुद्धेण ।। बृ- अथवा द्वितीय आदेशो गुरुवसभौ च ते भिक्ष्वादौ च यथाक्रमं चिकित्सां कारयन्तियावजीवं [225 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy