________________
५४
व्यवहार - छेदसूत्रम् - २ ४/१०५ वृ- शय्यां विना मण्डल्यामुपविष्टायां सागरिकाः समं पतन्ति उपधिग्रहणाय स्तेना वा निपतन्ति हिमप्रपाते वर्षप्रपाते वा संयमात्मविराधनादोषाः । तथा तत्र तेषु शय्योपधिभक्तेषु मध्ये शय्या दुःखोधिता भवति । आहारोपधयः शुद्धाः सुखेन लभ्यन्ते । महता कष्टेन पुनः शुद्धा वसतिरिति भावः तथा तत्र शय्यायां स्थित्वा योग्यानि कल्पनीयानि वस्त्रान्नपानानि गृह्णन्त्युपभुञ्जते । एतैः कारणैर्भङ्गचिन्तायां प्रथमतः शय्या कृता ॥ तथा
[भा. १९७० ]
आहारोवहि सेना, उत्तरमूले असुद्धसुद्धेय । अप्पतरदोसपुव्विं असतीए महतदोसे वि ॥
वृ- आहारोपधिशय्याभिः उत्तरगणविषये वा मूलगुणविषये अशुद्धः शुद्ध इति भङ्गचिन्तायां ये षोडशभङ्गाः प्रागुक्तास्तेषु मध्ये पूर्वमल्पतरदोषे वस्तव्यम् । तस्यासति अभावे महादोषेऽपि ॥ अथ कस्मिन् भङ्गे अल्पतरा दोषा इति, अत आह[ भा. १९७१]
पढमासति विइयंमिति, तहियं पुन गइ कालचारीसु । एमेव सेसएस वि, उक्कमकरणंपि पूएमी ॥
वृ- सर्वेषां भङ्गानां मध्ये प्रथमभङ्गे सर्वाल्पतरा ये दोपा इति तत्र वस्तव्यम्, प्रथमस्यासति 'अभावे द्वितीयेऽपि तत्र पुनस्तिष्ठति कालचारिणीषु संयतीषु, एवं शेषेष्वपि भङ्गेषु वसति । किमुक्तं भवति ? येष्वप्यन्येषु भङ्गेषु संयतिसहितपदं तेष्वपि कालचारिणीभिः सहितेषु वस्तव्यं, नाकालचारिणीभिरिति । तथा (उत्) क्रमकरणमपि अकालचारिणीभिः सहितत्वमपि पूजयाम उपादेयतया प्रशंसामः, सर्वेषां भङ्गानां मध्ये कथमिति चेदुच्यते, यस्मिन् भङ्गे शय्याभक्तोपधयः समुदिया भङ्गत एकद्धिका वा शुद्धास्तत्र यद्यकालचारिण्यो भक्तंपानं वा दत्वा गृहीत्वा तत्क्षणमेव व्रजन्तिन पुनरागच्छन्ति । स्वाध्यायं वा कृत्वा सकाले गच्छन्ति तत्र स्थातव्यं प्रायो दोषाभावादिति ॥ एतदेव स्पष्टतरमाह
[ भा. १९७२ ]
सेज्जं सोहे उवहि, भत्तं सोहेइ संजती रहिते ।
पढमो, बितिउ संजइ सहिउ ता पुन कालचारीतो ॥
वृ- शय्यां शोधयति, उपधिं शोधयति, भक्तं शोधयति संयतीरहितः चेति प्रथमो भङ्गः, . द्वितीयः संयतीसहितस्ताः पुनः संयत्यः कालचारिण्यो यदि स्युस्तदा वस्तव्यं, एवं शेषेष्वपि संयतीसहितेषु भङ्गेषु भावनीयम् | यथाकालचारिण्यः कथं स्युरित्यत आह
[भा. १९७३ ]
आयाण कंदप्पे वियाल उरालियं वसंतीणं ।
निययादीच्छद्दसहा संजोएमो तहाच्छंदो ||
वृ-भक्तपानादीनामादाने, उपलक्षणमेतत् दाने च, तथा कन्दर्पेकन्दर्पनिमित्तं, कन्दर्पग्रहणमुपलक्षणं स्वाध्यायनिमित्तं च, उरालिकं अतिशयेन स्फारप्रभूवेलामिति यावत्, वसन्तीनामकालचारिणीत्वं द्रष्टव्यम् । एवं नैत्यिकादीनां यः षड्दशधा षोडशप्रकारः संयोगः तत्र वस्तव्यम् किं सर्वत्र, नेत्याहमुक्त्वा यथाच्छन्दानि । किमुक्तं भवति ? तेषु सत्सु यथाच्छन्देषु न वस्तव्यं, तदभावे तत्रापि वसेत् ॥ सम्प्रत्येतेषु नैत्यिकादिषु संवासमधिकृत्य यतनामाह
[भा. १९७४ ] ठिय, निसिय तुयट्टे वा गहियागहिए य जग्ग सुवर्णवा । पासत्थादीनेवं, नियए मोत्तुं अपरिभुत्तो ।।
वृ-पार्श्वस्थानामुपाश्रयेषु गहियत्ति गृहीतोपकरणः स्थित ऊर्ध्वस्थितो वसेत्, यद्येवं स्थातुंन शक्नोति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org