________________
उद्देशकः-४, मूल - १०५, [भा. १९६४] आदिशब्दात्श्रावकग्रहादिपरिग्रहः ।। एतदेवभावयति[भा.१९६५] अहणुव्वासि यसकवाड निविले निच्चले वसतिसुन्नो ।
तस्सा सइसन्निधरेइत्थीरहिते वसेज्जा वा ।। वृ- अधुना साम्प्रतमुद्रासितमधुनोद्वासितं सकपाटं कपाटसहितमन्यथा स्तेनादिप्रवेशसंभवात् निर्बिलं बिलरहितमन्यथा सदिसंभवात् । निश्चलं न जराजीर्णतया पतितुं प्रवृत्तं अमीषां च चतुर्णा पदानां षोडशभङ्गः । तत्र प्रथमो भङ्गः शुद्धः शेषा अशुद्धास्तत आह-इत्थंभूते शून्ये शून्यगृहे वसति तस्य शून्यगृहस्यासत्यभावे संज्ञिगृहे श्रावकगृहे सोऽपि श्रावको द्विधा संभवति सस्त्रीकःस्त्रीरहितो वा ।तत्रस्त्रीरहिते वसेत् । [भा.१९६६] सहिए वाअंतो बहि अंतोवीसुघरकुडीएवा ।
तस्सासतिनिइयादिसु वसेज्जउइमाए जयणाए ।। वृ• स्त्रीरहितस्य श्रावकगृहस्याभावे सहिते वा स्त्रीसहिते वा श्रावकगृहे तस्य गृहस्वान्तर्बहिर्वा विविक्ते प्रदेशेवसेत् । अन्यथा प्रायश्चित्तं चतुर्गरु । तस्याप्यभावेतस्य श्रावकगृहस्य बहिः पुरतः पृष्टतः पार्श्वतो वायदिवान्तर्गृहस्य कुटी समस्तितस्यांवसेत् । तस्यापिकुटीरकस्यासत्यभावेनैत्यिकादिष्वपि
आदिशब्दात् पार्श्वस्थादिपरिग्रहोऽनया वक्ष्यमाणया यतनया वसेत् ।। एतावता मूलद्वारगाथोपन्यस्तं निवेदद्वारमगमत् । यतनाद्वारमापतितमिदानीं तामेव यतनामाह-- [भा.१९६७] निइयादि उवहिभत्ते, सेज्जासुद्धाय उत्तरे मूले ।
संजइरहिए काले अकाल सज्झाए अभिक्खंच ।। - य-ये नैत्यिकादय उपधौ भक्ते शय्यायां च उत्तरगुणैर्मूलगुणैर्वा शुद्धाः । किमुक्तं भवति ? ये उत्तरगुणैर्मूलगुणैर्वा शुद्धां शय्यां गवेषयन्ति शुद्धं भक्तं शुद्धमुपधिं तेषु वसेत्, तत्रापि संयतीरहिते तदभावे संयतीसहितेऽपि । ताश्च संयत्यो द्विधा कालचारिण्योऽकालचारिणश्च तत्र याः पाक्षिकादिष्वागच्छन्तिताःकालचारिण्यस्तद्व्यतिरेकेणागच्छन्त्योऽकालचारिण्यः स्वाध्यायनिमित्तमभीक्ष्णं चशब्दात् भक्तपानं दातुं गृहीतुं वा कन्दर्पार्थं वा तत्राकालचारिणीषु बहवो दोषाः कालचारिणीष्वल्पतरा इति संयतीरहिताभावे कालचारिणीभिः संयतीभिः सहिते वस्तव्यम् ।। एतदेव सप्रपञ्चमभिधातुकाम आह[भा.१९६८] सिजुवहि भत्तसुद्धे, संजइरहिएयभंगसोलसओ।
संजइअकालचारिणी सहिएबहुदोसला वसही ।। बृ- शय्याशुद्ध उपधिशुद्धो भक्तशुद्धः संयतीरहित इति चतुर्षु पदेषु सप्रतिपक्षेषु भङ्गाः षोडश । तद्यथा-शय्याशुद्धः उपधिशुद्धःभक्तशुद्धः संयतीरहितइतिप्रथमः !शय्याशुद्ध उपधिशुद्धोभक्तशुद्धः संयतीसहित इति द्वितीयः । इत्यादिप्रस्तारश्च कार्यः, एतेषु च षोडशसु भङ्गेषु मध्ये यत्र यत्र संयत्यस्तत्र तत्र कालचारिणीभिः सहिते वस्तव्यम् । नाकालधारिणीभिर्यत आहसंयतिभिरकालचारिणीभिः सहिते 'बहुदोषला' बहुदोषा वसतिरितिआह-पूर्वमुपधिभक्तशय्यां शुद्धा इत्युक्तमिदानीं भङ्गचिन्तायां प्रथमतः शय्योक्ता । तत्र किंकारणमत आह[भा.१९६९] सागारितेनाहिम वासदोसा, दुसोहिया तत्थ उहोइसेज्जा ।
___ वत्थन्न पाणाणिव तत्थ टिच्चा, गिण्हंति जोगानुवभुंजते वा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org