________________
व्यवहार-छेदसूत्रम् -२- ४/१०५ ग्रामस्यान्तः शून्यगृहे तत्रापि निवेदना कर्तव्या, शून्यगृहस्याभावे संज्ञीश्रावकस्तस्य गृहे वस्तव्यम् ।। सवा संज्ञी श्रावकः सागारिको ऽगारीकोऽगारीसहितः स्यात्तर्हि तस्य गृहस्य बहिरन्तवर्या या कुटी तत्र वस्तव्यम् ।। तस्य अप्यभावे अमनोज्ञेषु संविज्ञेषु वस्तव्यं,अमनोज्ञासंविग्रेषु वस्तव्यं,तेषामप्यभावे नित्यकादिष्वसंविग्नेषु वसति, तत्रेयं यतना स्थानमूर्ध्वस्थानं निषद्या उपवेशनं त्वगवर्तनं दीर्घकायप्रसारणंतेषुगृहीतेनागहीतेनवा उपकरणेनजागरणकर्तव्यम् । एष द्वारगाथासंक्षेपार्थः व्यासार्थ त्वभिधित्सुः प्रथमतो बहिमिति व्याख्यानयति[भा.१९६०] वसही समणुन्नासइ, गामबहिं ठाइसो निवेदेउं ।
अनिवेदियंमिलहुओ,आणाइविराधनाचेव ।। वृ- समनोज्ञानां संविज्ञानां वसतेरसत्यभावे ग्रामाद्वहिस्तिष्ठति, न पुनर्नेत्यिकादिष्वसंविग्नेषु प्रवेष्टव्यं, प्रागुक्तप्रायश्चित्तभावात्, सचबहिस्तिष्ठति ।तेषांनैत्यिकादीनांवा संविग्नानांवा अमनोज्ञानां निवेद्य कथयित्वा, यदि पुनर्न निवेदयति ततोऽनिवेदिते प्रायश्चित्तं लघुको मासः, आज्ञादिविराधना,
आदिग्रहणात् आत्मविराधना संयमविराधना च परिगृह्यते । तथा हि-इयं भगवदाज्ञा तेषां निवेद्य बहिर्वस्तव्यमनिवेदनायामाज्ञालोपः आत्मविराधनां संयमविराधनांचाह[भा.१९६१] गेलनेनकाहिंती कोहेणंजंचपाविहिती तत्थ ।
तम्हानुनिवेएज्जा,जयणा एतेसिमाएउ ।। वृ-अनिवेदने सतिसकदाचित्ग्लानोजायतेग्लान्येसतिनास्माकंकिमपितेन निवेदितमितिक्रोधेन न किमपि ग्लानकृत्यं करिष्यति ।गृहस्थाश्चतं तथाभूतं ग्लानं दृष्ट्वा तेषां नैत्यिकादीनां निवेदयेयुर्यथा युष्मदीयो ग्लानोऽसंग्रहको वर्तते । ततस्ते ब्रूयुर्मन्येरन् वा एषोऽस्मदीयो न भवति । यदि भवेत्तदास्माकमुपाश्रये तिष्ठेन्, निवेदयेद्वा । एवं यत्र गलानत्वेन वा आरक्षकादिग्रहणं । तत्र यदनर्थ प्राप्स्यति संयमविराधनात्मकमात्मविराधनात्मकं वा तत्सर्वमनिवेदनानिमित्तं तस्मात्तेषामनया वक्ष्यमाणया यतनया निवेदयेत् । तामेव यतनामाह-- [भा.१९६२] तुभं अहेसि दारं उस्सूरोत्ति जुताए एवं तु ।
नयनज्जइ सत्थो वी, चलिहिई किंकेतियं वेलं ।। वृ- यदाहमागतस्तदा युष्माकमुपाश्रयद्वारमुषितमासीत् । तत एवं मया विकल्पितमुत्सूरं वर्तते इतियुतायां पृथग्भूतायां वसतावुषितः अपिच नज्ञायते सार्थोऽपि किं कियतीवेलां, सप्तम्यर्थे व्याप्ती द्वितीया, कस्यां वेलायां चलिष्यति, ततः पृथगुपाश्रये स्थितः । अथसवेलायामागतस्तत इदं वदेत्-- [भा.१९६३] साहुसगासे वसिउं अतिप्पियं मज्झ किंकरमित्ति ।
सत्यवसोहभंते,गोसे मे वहेज्जहउदंतं ।। वृ- साधुसकाशे साधुसमीपेच वस्तुंममातिप्रियं परंभदन्त सार्थवशोऽहं ततः किं करोमि तस्मात् गोसे प्रभातेमेउदन्तं वातावहत । [भा.१९६४] एवं नउदुरुस्से अह वाहिं होज्ज पञ्चवायाउ ।
ताहेसुन्नहघरादिसुवसति निवेदितुतहचेव ।। वृ- एवमनया यतनया निवेद्य न तु नैव ग्रामाबद्रं वसेत् किन्तु ग्रामस्य समीपे वसेदथ बहि: स्तेनादिकृताः प्रत्यवाया अनर्था भवेयुस्ततस्थथैव पूर्वोक्तप्रकारेणैव निवेद्य शून्यगृहादिषु वसति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org