________________
उद्देशक :- ४, मूल - १०५, [भा. १९५५]
परिचितकुलपरिग्गहस्तान् दोषान् इह व्रजिकादयः प्रतिबन्धदोषहेतुत्वात् । दोषा इत्युक्तास्तथाSसंविग्नांश्चापि स परिहरन् गच्छेत् । अथ के खल्वसंविग्नाः सूरिराह - नित्यादयो नित्यवास्यादयस्ते ज्ञातव्याः । तेषामपि हरणे प्रवेशादौ प्रायश्चितविधिमाह
[ भा. १९५६ ]
बिइयादीए अच्छंद वज्जिए पविसदाण गहणेय । .
लहुगा भुजंण गुरूगा संघडि मासो जंचन्नं । ।
५१
वृ- दूरमार्गे गच्छता अपान्तराले संविग्नसुमनोज्ञानां वसतौ वस्तव्यम् । तदभावे नैत्यिकादीनां संविने च अमनोज्ञानां निवेद्यान्यस्यां वसतौ स्थावव्यम्। यदि पुननैत्यिको नित्यवासी आदिशब्दात्पार्श्वस्थादिपरिग्रहस्तस्मिन् नैत्यादिके यथाच्छन्दवर्जिते प्रविशति यदि वा तेभ्यः किमपि भक्तादिकं ददाति, अथवा तेभ्यो गह्णाति तदा प्रवेशेन ग्रहणे दाने च प्रत्येक चत्वारो लघुका । भुंजणे गुरूगा इति । अथ तैः सह भुङ्क्ते तदा भोजने चत्वारो गूरूकाः । अथ नैत्यकादिसंघाटं याचित्वा तेन सह हिण्डते। ततः संघाटे हिण्डने लघुको मासः, जं चण्णमिति यच्च तेन संघाटकेन हिण्डमानोऽकल्पिकग्रहणतः तदास्वादनेन लाम्पद्र्यतः सेविष्यते । तदपि च प्रायश्चित्तं प्राप्नोति तदेवं यथाच्छंदवर्तिते नैत्यकादौ प्रवेशादिषु प्रायश्चित्तमुक्तम् || अधुना यथाच्छन्दे तदाह
[भा. १९५७]
एए चैव य गुरुगा पच्छिता होति उ अहाच्छंदे । अमणुन्नेसुं मासो संभुजणे होति चउगुरुगा ॥
वृ- अथामनोज्ञेषु संविग्रेषु प्रविशति, तदा प्रवेशे दाने ग्रहणे च प्रत्येकं लघुको मासः । अथ तैः सह भुङ्क्तेतदा चत्वारो गुरुकाः संघाटके लघुको मासः । यत एवमसंविग्नेषु प्रायश्चित्तानि तस्मादेतान् परिहरेत् । अथमार्गे संविग्ना न सन्ति ततः कारणवशतोऽसंविनेष्वपि गन्तव्यम् । (गतं) पतितमिदानीमसंविग्नद्वारं तेषु च गत्वा यत्कर्तव्यं तदाह- एतान्येव प्रायश्चित्तानि यथाच्छन्दे गुरुकानि भवन्ति तद्यथाप्रवेशेदाने ग्रहणे भोजने च चत्वारो गुरुकाः । संघाटे गुरुको मासः ।
[भा. १९५८ ]
संविग्गेगंतरिया, पडिच्छ संघाडए असति एगो ।
साहम्मिएसुजयणा तिन्नि दिनपडिच्छ सज्झाए; । ।
,
वृ- संविनेन संविग्नगुणेनैकेनान्तरिता व्यवहिताः संविग्नैकान्तरिता असंविग्नास्तेषु कारणवशतो गन्तव्यम् । तत्र च भिक्षां निवसनं च कुर्वता यथा प्रथमोद्देशके परिहारिकस्य यतनोक्तातस्यापि द्रष्टव्या तैरपि असं विग्रैर्यदि स एकाकी तत एकाकिनः सतस्तस्य संघाटको दातव्यः । अथ योऽसौ द्वितीयको योग्यो दातव्यः सोऽन्यत्र प्रेषणेन गतो वर्तते ततस्ते ब्रूयुरार्य! एकरात्रं द्विरानं त्रिरात्रं वा प्रतीक्षणीयम् । तत एतेन कारणेनोत्कर्षतः त्रिरात्रमपि प्रतीक्षते, असति संघाटके एक एकाकी व्रजेत् । तस्य च तथा व्रजतोऽपान्तराले यदि साधर्मिका भवन्ति । ततस्तन्मध्ये गत्वा वस्तव्यं कारणं च निवेदनीयं, निवेदिते कारणे तैः संघाटको दातव्यस्तदभावे ततो व्रजनीयमथप्रतिपृच्छानिमित्तमेकं द्वि त्रीणिवा दिनानि यावत् यावत् प्रतीक्षापयेत्तत आह, स्वाध्याये स्वाध्यायनिमित्तं प्रतिपृच्छानिमित्तमित्यर्थः उत्कर्षतस्त्रीणि दिनानि प्रतीक्षेत एषा साधर्मिकेषु यतना । तदेवमसंविग्नद्वारमुक्तमिदानीं निवेदनाद्वारमाहबहिगाम घरे सन्नी, सो वा सागारियं उवहिं अंतो ।
[भा. १९५९]
Jain Education International
ठाण निसेज्ज तुयट्टण गहियागहिएण जागरणा ।।
वृ- संविग्नसमनोज्ञानामभावे ग्रामस्य बहिर्नैत्यिकादीनां निवेद्य तिष्ठति, ग्रामस्य बहिः प्रत्यपायसंभवे
For Private & Personal Use Only
www.jainelibrary.org