________________
५५
उद्देशक :-४, मूल - १०५, [भा. १९७४] ततो गृहीतोपकरणः एव निषद्योपगतो जाग्रत्तिष्ठेत्, तथाप्यशक्नुवन् गृहीतोपकरणः त्वग्वृतो जाग्रदवतिछेत्, अथत्रिष्वप्येतेषुयदिकथमपिप्रचलाया आशङ्का, तदामापात्रादिभङ्गस्यादित्युपकरणं पार्थेनिक्षिप्यागृहीतोपकरणो यथासमाधिस्थितो निषन्नस्त्वग्वृतो वाजाग्रत्तिष्ठेत् । अथ जागरणं कर्तुं नशक्नोतितत आह-स्वपन् वा गृहीतोपकरणोऽगृहीतोपकरणो वायथासमाधिः कुर्यात् । एवं यतना पार्श्वस्थादीनां उपाश्रयेषु द्रष्टव्या । नैत्यिके नित्यवास्युपाश्रये नित्यवासीपरिभुक्तान् प्रदेशान् मुक्त्वा अपरिभुक्तेप्रदेशेउपकरणं निक्षिप्य यथासमाधिजाग्रत स्वपन् वावसेत् ।। - [भा.१९७५] एमेव अहाच्छंदे, पडिहणणाझाणअझयणकन्ना ।
ठाणठितो विनिसामे,सुण आहरणंच गहिएणं ।। वृ- एवमेव पार्श्वस्थादिगतेनैवप्रकारेण यथाच्छन्देऽपि यतना कर्तव्या । नवरं यदि वा शक्तिरस्ति तर्हि प्रतिहननं कर्तव्यं यदासस्वग्राहंमुञ्चति । अथन विद्यतेतादशीशक्तिस्तर्हिध्यानंतथाध्यायति, यथा तद्वचोन शृणोति । यदिवा अज्झयणति यथाच्छन्दप्रज्ञापनाप्रवणं अध्ययनं परावर्तवति, यथा सब्रूते-मामांनाशयेति कन्नत्ति तस्य यथा स्वच्छन्दंदेशनां कुर्वतः कर्णौनिजौ स्थगयतियेनदेशनांन शृणोति दूरतरं वा तिष्ठति अथ दूरतरस्थानस्थितोऽपितद्देशनां निशमयतिनच निद्रां समागच्छति, ततः सयथाच्छन्दो वक्तव्योयथाशृणुकिमपि आहरणंततो यत्तस्यापूर्वतदाहरणंकथनीयम् । गहिएणत्ति गृहितेनात्मीयोपकरणेन ।। एतदेव युक्त्या द्रढयति[भा.१९७६] जह कारणेनिगमणं दिलं एमेवसेसगाचउरो ।
ओमे असंथरतेआयारे वइयामादीहि ।। वृ-यथा कारणे कारणवशतो निगमनं निर्गतं दृष्टं, एवमेव तथाकारणवशतः शेषाणि अपि चत्वारि द्वाराण्यसंविग्ने निवेदना यतना इत्येवमादीनि यथा च आचारे आचारप्रकल्पेऽवमे दुर्भिक्षे व्रजिकादिभिरपि । आदिशब्दात्स्वज्ञात्यमनोज्ञासंविग्नपरिग्रहोव्रजेदित्युक्तमतः सोपपत्तिकेयं यतनेति सम्यक् श्रद्धेया ।गतं यतनाद्वारम्, अधुना निसृष्टद्वारमाह[भा.१९७७] समणुनेसु विवासो, एगनिसिं किमुतअन्नमोसन्ने ।
असढो पुन जयणाए अच्छेज्ज चिरंपिउइमेहिं ।। वृ-समनोज्ञेष्वपिअपान्तरालेवाउत्सर्गतएकांनिशाएकांरात्रिंकल्पते ।किंपुनरन्येषुअसांभोगिकेषु अवसन्नेषु । उपलक्षणमेतत पार्श्वस्थादिषु वा, तत्र सुतरामेकरात्र्यधिकं न कल्पते । कारणवशतः पुनरुत्कर्षतस्त्रीणि दिनानिवसेत् । गतंनिसृष्टद्धारमिदानींदीहरवद्धं पडिच्छन्तीत्येतद्व्याख्यानार्थमाह'असढो' इत्यादि अशठः पुनः न केवलमुत्कर्षतस्त्रीणि दिनानि किन्तु चिरमपि प्रभूतकालमप्येभिः वक्ष्यमाणैः कारणैः यतनया तिष्ठेत् ।। तान्येव कारणान्याह[भा.१९७८] वासं,खंधार, नदी, तेना सावय वसेण सत्थस्स ।
एएहि कारणेहिं अजयणजयणा नायव्वा ।। वृ-वर्षपतति, स्कन्धावारः कटकंतद्वा चलति, नदीगिरिनदी पूर्णावर्तते, स्तेनाअपान्तरालेद्विविधाः शरीरापहारिणउपकरणापहारिणश्च,श्वापदाः सिंहादयः,सार्थस्यवावशेन गच्छतिसार्थश्चचिरमपितिष्ठन् वर्तते । एतैः कारणैः चिरमप्यपान्तराले तिष्ठति, तत्र अयतनायतनाच ज्ञातव्या; तत्र यदि यतना कृता तदान प्रायश्चित्तविषयः अथायतनामाचरितवान्तदा प्रायश्चित्तेलगति, उक्तःशुद्धस्याशुद्धगमनमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org