________________
उद्देशक : 5:- ४, मूल - १०५ [ भा. १९२१ ]
४५
वृ- अभ्युद्यतानामुद्यतविहारिणां स्थानं परीक्ष्य, गाथायां सप्तमी षष्ठ्यर्थे, हीयमानकान् मुक्त्वा तिष्ठेत् । अथ केषु पदेषु हानिर्वृद्धिर्वा सूरिराह तदेतत्कथ्यमानं निशामय ।। तदेवाहतवनियमसंजमाणं जहियं हानी न कप्पते तत्थ । तिगवुड्डी तिगसोही पंचविसुद्धी सुसिक्खा य ।।
[ भा. १९२२ ]
बृ-यत्रतपो नियमसंयमानां हानिस्तत्र न कल्पते वस्तुं यत्रपुनस्त्रिकवृद्धिर्ज्ञानदर्शनचारित्रवृद्धिर्यत्र च त्रिकस्याहारोपधिशय्यारूपस्य शोधिर्यत्र च पञ्चानां पार्श्वस्थादिस्थानानां विशुद्धिस्तेष्वप्रवर्तनं यत्र च सुशिक्षाग्रहणे आसेवने च तत्र वस्तव्यम् । । साम्प्रतमेनामेव गाथां विवृणोति
[ भा. १९२३ ]
बारसविहे तवे ऊ इंदियनोइंदिए य नियमे उ । संजमसत्तरसविहे हानी जहियं तहिं न वसे ।।
यत्र द्वादशविघे तपसि इन्द्रियविषये च नियमे, संयमे सप्तदशविधे हानिस्तत्र न वसेत् ।। [ भा. १९२४ ] तवनियमसंजमाणं एएसिं चेव तिण्ह तिगवृड्डी ।
नाणादीन व तिण्हंतिगसुद्धी उग्गमादीणं । ।
बृ- एतेषामेव त्रयाणां तपो नियम-संयमानां वृद्धिस्त्रिकवृद्धिः, अथवा ज्ञानादीनां त्रयाणां वृद्धिस्त्रिकवृद्धिः । त्रयाणामुद्गमादीनामुपलक्षणमेदाहारादीनां वा त्रयाणां शुद्धिस्त्रिकशुद्धिः । । पासत्थे उसने कुसील संसत्त तह अहाच्छंदे । एएहिं जो विरहितो पंचविसुद्धो हवई सो उ । ।
[भा. १९२५ ]
बृ पार्श्वस्थो अवसन्नः कुशीलः संसक्तो यथाच्छन्द एते पञ्चापिप्राक् सप्रपञ्चप्ररूपिता एतैः स्थानैयों विरहितः स पञ्चविशुद्धो भवति । पञ्चविशुद्धावेव प्रकारान्तरमाह
[भा. १९२६]
पंचय महव्वयाइं अहवा वी नाण- दंसण-चरितं ।
तव विनओ विय पंच उ पंचविहुचसंपया वावि ।।
वृ- काशब्दः प्रकारान्तरोपप्रदर्शने पञ्चमहाव्रतानि । अथवा ज्ञानं दर्शनं चारित्रं तपो विनय इति पञ्च, यदि वा पञ्चविघा ज्ञानदर्शनचारित्रतपोवैयावृत्त्यभेदतः पञ्चप्रकार उपसम्पत् पञ्च तैः पञ्चभिर्विशुद्धः पञ्चविशुद्धः सुशिक्षमाह[भा. १९२७]
वृ- शोभना शिक्षा सुशिक्षा । सा द्विविधा, तद्यथा आसेवने ग्रहणे च । आसेवने प्रत्युपेक्षणादेः सामाचार्या ग्रहणमागमस्य एतस्यां द्विविधायामपि यत्र न हानिस्तत्र निवासः कल्पते कर्तुम् ।। एएस ठाणेसुं सीयंते चोदन्ति आयरिया ।
[भा. १९२८ ]
सोमनसिक्खसुसिक्खा सा पुन आसेवने य गहणे य । दुविहाए विनहानी जत्थ य तहिथं निवासो उ । ।
हावेति उदासीना, न तं पसंसंति आयरिया । ।
बृ- एतेषु स्थानेषु तपःप्रभृतिषु स्वयमाचार्या हीयमाना न दृश्यन्ते, शिष्यास्तु केचिसीदन्ति तान् सीदतो यत्राचार्याश्चोदयन्ति तं गच्छं निवासयोग्यतया आचार्याः प्रशंसन्ति । यत्र पुनराचार्या उदासीना मध्यस्थाः सामाचार हापयति उपेक्षन्ते न तं प्रशंसन्त्याचार्याः नासौ गच्छ उपसम्पदनीय इत्यर्थः । किंः
कारणमत आह
[भा. १९२९]
Jain Education International
आयरिय उवज्झाया नाणुन्नाया जिनेहिं सिप्पट्टा !
For Private & Personal Use Only
www.jainelibrary.org