________________
४४
व्यवहार- छेदसूत्रम् - २४/१०५
[भा. १९१६]
वृ- एवं शुद्धे निर्गमे व्रजिकादिषु गोकुलादिष्वप्रतिबध्यमानः प्रतिबन्धमकुर्वन गच्छेत। तत्र यद्यपान्तराले संविग्नमनोज्ञाः सन्ति । ततस्तैः सह मिलित्वा गन्तव्यं, तैरपि च निर्गमनशुद्धत्वात ज्ञानाद्युपसम्पन्निमितं च चलितत्वादवश्यं संघाटो दातव्यः ।। अथ यदा एकं द्वौ वा दिवसौ संघाटो न भवति व्याकुलत्वात, तदा कि कर्तव्यमत आह
[भा. १९१७ ]
एव दो व दिवसे, संघाइत्थं एसो पडिच्छिज्जा । असती एगा (गी) उजयणा उवही न उवहम्मे ।।
वृ- एक द्वौ दिवसौ स सङ्घटार्थं प्रतीक्षेत । असत्यभावे संघाटस्य एकाकी व्रजेत, तत्र च यतना कर्तव्या। साच प्राक्कल्पाध्ययनेऽभिहिता । ततो उपधिर्नोपहन्यते, यतनया प्रवृत्तत्वात ।। उपसंहारमाह[ भा. १९१८ ] एसो पढमी भंगो एवं सेसा कमेण जोएज्जा ।
आसनुञ्जयठाणं गच्छेदारा य तत्थ इमे । ।
वृ- एषोऽनन्तरोदितः प्रथमो भङ्ग । एवमुपदर्शितेन प्रकारेण शेषा अपि भङ्गका क्रमेण योक्तव्यास्तद्यथा-निर्गमनशुद्धः प्राग्वत, गमनाशुद्धो व्रजिकादिषु प्रतिबनधकारणात । निगर्मनाशुद्धो दोषाकीर्णतया निर्गमनात, गमनशुद्धो व्रजिकादिष्वप्रतवन्धांत निर्गमनाशुद्धो गमनाशुद्धश्व प्राग्वत । अथ प्रथमभङ्गवर्ती प्रशस्यः, कारणतो द्वितीयभङ्गवर्त्यपि । एवं च गच्छता तेन ये आसन्ना उद्यता उद्यतविहारिणस्तेषां स्थानं गच्छेत, तत्रच गतस्य परीक्षादिनिमित्तमिमानि द्वाराणि भवन्ति । । तान्येवाह[ भा. १९१९] 'पारिच्छहानि असती आगमनं निग्ामो असंविग्गे ।
एवं सुद्धे निगमे । वइयाइअप्पडिबज्झतो । संविग्गमनोन्नाहिं तेहिं विदायव्वो संघाडो ।।
निवेयणजयणमि सरां दीहखद्धं पडिच्छंति ।।
वृ- परीक्षा 'हानीति' हानिवृद्धिविषया कर्तव्या, यत्रज्ञानादीनां हानिस्तत्र न वस्तव्यमन्यत्रवस्तव्यमिति भावः । ‘असतित्ति' यस्य समीपं गच्छोपसम्पन्नस्तस्मिन सापेक्षे निरपेक्षेवा कालगतत्वेनासति, योऽन्यः स्थापितस्तस्य सकाशे स्थाव्यम । तस्मिन्नपि सीदति यावत्कुलादिस्थविराणामागमनं तावत्प्रतीक्षणीयं, तैरपि प्रतिचोदने कृते सीदति निर्गमो विधेयः, गच्छता च संविग्नाभावे बहिर्वस्तव्यमसंविग्ने निवेदना कर्तव्या बहिर्वसत्यभावे तेष्वसंविग्नेषु नवरं यतना विधेया। तथाऽसंविग्रेषु वासं वसनं निसृष्टमनुज्ञातमेकरात्रमुत्कर्षतस्त्रीणि दिनानि वर्षादिकारणतः पुनर्यतनया दीहखद्धमपि प्रचुरमपि दीर्घकालं प्रतीक्ष्यते । एष द्वारगाथासंक्षेपार्थः । ।
साम्प्रतमेनामेव विवपीषुः प्रथमतः पारच्छहानिति द्वारमाह[भा. १९२०]
Jain Education International
पासत्थादिविरहितो, काहियमाईहि वा वि दोसेहिं । संविग्गमपरितंतो साहम्मियवच्छलो जाउ ।
वृ- अपान्तराले पार्श्वस्थादिविरहितः पार्श्वस्थादिसंसर्गिविप्रमुक्तः काथिकादिभिर्वा भावप्रधानोऽयं निर्देशः । काथिकत्वादिभिर्वा दोषैर्विप्रमुक्तस्तथा संविग्नोऽपरित्रान्तोऽपरिश्रान्तः सामाचार्यामिति गम्यते । तथा यः साधर्मिकवत्सलः प्रवचनंलिङ्गसाधर्मिकवात्सल्यपरायणः सः ।
[ भा. १९२१]
अभुञ्जए सुठाणं, परिच्छिउं हीयमानए मोत्तुं । केसु पदेसुं हानी, वुड्डी वा तं निसामेहि । ।
For Private & Personal Use Only
www.jainelibrary.org