________________
व्यवहार-छेदसूत्रम् - २- ४/१०५
वृ- आशुकारेण शूलादिनोपरतः कालगत आशुकारोपरतस्तस्मिन सत्याचार्ये अस्थापितेऽन्यस्मिन गणधरे इयं वक्ष्यमाणा मर्यादा । तामेवाह- 'चिलिमिली' त्यादिआशुकारोपरत आचार्यो जवनिकान्तरितः प्रच्छन्नो कार्यों चाचार्याणामतीवाशुमं शरीरं वाचापि वक्तुं न शर्कुवंतीति, ततो यो गणधरपदार्हस्तं जवनिका बहिः स्थापयित्वा सूरयो भण्यन्तेको गणधरः स्थाप्यतामेवं चोक्ताजवनिकाभ्यन्तरस्था गीतार्था आचार्यहस्तं उपर्यन्मुखं कृत्वा स्थाप्यामानगणधराभिमुखं दर्शयन्ति, वदान्तिच गणधरत्वमेतस्यानुज्ञातं परं वाचा वक्तुं न शक्नुवन्ति, एषा हस्तानुज्ञाः तत एतस्योपरि वासा निक्षिप्यन्ते स्थापित एष गणधर इति, पश्चात कालगता आचार्या इति प्रकाश्यन्ते । 'परिभव सुत्तत्थहावयणा' इति तो येडभिनवस्थापितस्याचार्यास्य परिभवोत्पादनबुद्धया आचार्योचितं विनयं न कुंर्वन्ति, तेषां सूत्रमर्थं वा स हापयति न ददातीत्यर्थः । । ' संप्रति आय परो दुविहो होई निक्खेवो, लोइय लोगुत्तरितो' इति व्याख्यानार्थमाह[भा. १८९७] दंडेन उ अनुसट्टा, लोए लोगुत्तरे व अप्पाणं । उवनिक्खिवंति सो पुन, लोइय लोगुत्तरे दुबिहे ।।
वृ- लोके लोकोत्तरे च यथार्ह विनयमकुर्वंतो दण्डेनानुशिष्टा आत्मानमुपनिक्षिपन्ति । तत्र लौकिको दण्डः पूर्वमुक्तो मूलदेवेन भोजिकानां केषांचित कृतो, लोकोत्तरिकः सूत्रार्यापहरणं, इह नवे राज्ञीव नवे गणधरे स्थापिते निक्षेपरसो लोकस्य जायते । ततस्तरकलाद्युपवर्ण्यते । निक्षेपस्य फलं लोके परिपालन, लोकोत्तरे ज्ञानादीनामभिवृद्धिः, स चोपनिक्षेपो द्विधो- लौकिको लोकोत्तरिकञ्च । पुनरेकैको द्विधाआत्मोपनिक्षेपः परोपरनिक्षेपश्च । तत्र लौकिक आत्मनिक्षेपो ये प्रगल्भास्ते आत्मनैवात्मानं राज्ञ उपनिक्षिपन्ति तिष्ठन्तिच चरणोपपातकारकाः प्रपन्नशरणः, येपुनरप्रगल्भास्तेचे राज्ञो वल्लभास्तैरात्मानग्रुपनिक्षेपयन्ति, एष परोपनिक्षेपः ।। लोकोत्तरिक आत्मनिक्षेपो गच्छवर्तिनां साधुनाम । तथा हि-ये गच्छेएव वर्तन्ते साधवस्ते आत्मानमात्मनैवाभिनवाचार्यस्योपनिक्षिपन्तिः परनिक्षेपः फडुकगतानां, ते हि समागताः स्पर्द्धकपतिना निक्षिप्यन्ते यथा- एत अहं च युष्माकमिति । । इह 'अत्थि याई थ अन्ने केई उपसंपजणारिहे' इत्याद्युक्तं, तत्र यद्यपि स गीतार्थस्तरूणः समर्थश्चेन्द्रियनोइन्द्रियाणां निग्रहं कर्तुं तथापि तेनान्यो गणो निश्रयितव्यो निश्रयस्य च परप्रत्ययनिमित्तं तत्रोपनिक्षेपः कर्तव्यः अत्र लौकिको दृष्टान्तस्तमेवाह
४०
[भा. १८९८ ] जह कोई वणिको ऊ धूयं सेट्टिस्स हत्थे निक्खिविउँ । दिसिजत्ताए गतोत्ति कालगतो सोय सेट्टीओ । ।
वृएको वणिक तस्य गृहे मारिरुत्थिता संर्वगृहमुपच्छादितं । एका दुहिता तिष्ठति। परंस श्रेष्ठी निर्धन इति तां दुहितरं न परिणाययितुं समर्थस्ततो दिगयात्रां कर्तुमिच्छति। जानाति। चैतस्याः कन्यकायाः स्वभावं यथा समर्थात्मानमेषा संरक्षितुं, केवलमेका कन्यका महती गृहे तिष्ठन्ती दुष्टशीला लोकेन संभाव्येतेति मित्रश्रेष्ठिनो हस्ते तां निक्षिप्य मुक्त्वा वाणिज्येन दिगयात्रां गतः, तस्यापि च मित्रश्रेष्ठिनो गृहे मारिरभूत ततः सोऽपि सकुटुम्बो विनाशमुपागमत । तथा चाह स च श्रेष्ठी कालगतः । केवलमेका कन्यका स्थिता सा च मूलश्रेष्ठिदुहितुः सखी सा च ससखीकाप्यामात्नं संरक्षितुं क्षमा केवलं यज्ञाप्रत्ययनिमित्तं राज्ञः समीपमुपस्थिता । तथा चाह
[भा. १८९९ ]
सेस्सि तस्स धूवा वणियसुयं धेतु रन्नो समुवगया । अहयं एस सही मे पालेयव्या उतुब्भेहिं । ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org