________________
उद्देशक :-४, मूल - १०५, [भा. १८९२] सहसा कालगतः, तस्मिन्निरपेक्षे कालगते द्वौ भिन्नरहस्यौ राजा मृत इति रहस्यं द्वौ जाणितस्तद्यथाचिकित्सकोवैद्योऽमात्यश्च,राजाचानपत्यस्ततोऽश्वस्याधिवासना कृतासर्वत्रत्रिकचतुष्कचत्वादिषु हिण्डाप्यते । कथं नाम राजलक्षणयुक्तंपुरुषं लभेमहि यं राजानं स्थापयाम इति । मूलदेवश्च यो बध्य आज्ञप्तः सतेनावकाशेन नीयमानो वर्तते ।। [भा.१८९३] आसस्स पट्टिदानं आनयनहत्थचालणंरनो ।
अभिसेगभोइय परिभव तणजक्ख निवायणंआणा ।। वृ-ततो अश्वेन तस्य मूलदेवस्य वध्यतया नीयमानस्य पृष्ट दत्तं, गाथायांस्त्रीत्वं प्राकृत्वात्प्राकृते हि लिगं व्यभिचारि । ततो मूलदेवो यत्र राजा प्रच्छन्नो जवनिकान्तरितो ऽवतिष्ठते तत्रानीतस्ततो वैद्यकुमारामात्याभ्यां जवनिकाभ्यन्तरस्थिताभ्यां राज्ञो हस्त उपरिमुखो नीत्वा चालितः । एतत् राज्ञो हस्तवालनं । ततो वैद्यकुमारामात्याभ्यामुक्तं-कृता राज्ञानुज्ञा यथा मूलदेवं राजानमभिषिञ्चत, न शक्नोति वाचा वक्तुमिति । ततोऽभिषिक्तो मुलदेवो राज्ये नवरमसदृश इति कृत्वा केचिद्भोजिकाः परभिवमुत्पादयन्ति । न पुनः कुर्वन्ति विनयं । ततश्चिन्तयतिमूलदवो, ममैते मूर्खतया परिभवं कुर्वते; परं किमिदानीमेते मूर्खतयैव कदाचित्स्वयमेवालमण्डलं जल्पिष्यन्ति तदानीं शासविष्यामि । ततोऽन्यदिवसे आत्मनः शिरसि तृणशूकजातंकृत्वा आस्थानमण्डलिकायामुपविष्टः । तेच भोजिका मूर्खतया शनैः परस्परमुल्लपन्ति-अद्यापि नन्वेष चौरत्वं न मुञ्चति, अन्यथा कथमेतादशस्य तृणशूकजातस्येशे भवनेसंभवो, नूनंतृणगृहादिषु चौरिकानिमित्तमतिगतस्ततः तृणशूकजातंशिरसि लग्नमिति । एतच्चाकर्ण्यमूलदेवोरोषमुपागमत्ब्रूतेयअस्तिकोपिनाममचिन्ताकारीयएतान्शास्तीति, ततएवमुक्तेतत्पुण्यप्रभावतोराज्यदेवताधिष्टितैर्निशितासिलताकैश्रित्रकर्मप्रतिहारैः केषांचित् शिरांसि लूनानि,शेषाः कृतप्राञ्चलयःआज्ञामभ्युपगमतवन्तः । तथा चाह भोइयपरिभवेगइत्यादि, भोजिकाः परिभवं कृतवन्तोऽन्यदामूलदेवस्तणात्तितृणानिशीर्षे कृतवान् । ततस्तत्कोपावेशं दृष्ट्राय:रतिपातनं विनाशनं कृतम्शेषैराज्ञा प्रतीच्छिता ।। एतदेव सविशेषमाह[भा.१८९४] जक्खतिवातियसेसासरणगया जेहिंतोसितो पुटवं(वि)।
तेकुव्वंतीरनो अत्ताणपरेय निक्लेवं ।। वृ- यक्षातिपातितशेषाः शरणगता मूलदेवस्य शरणं प्रतिपन्नाः यैश्च पूर्व मूलदेवस्तोषितस्ते राज्ञ आत्मनः परस्यचनिक्षेपमद्यप्रभृतियुष्मदीयावयमेतेवेतिसमर्पणंकुर्वन्ति ।। उक्तोऽनिरपेक्षोनिरपेक्षश्च लोकोत्तरिको वक्तव्यस्तत्र प्रथमंसापेक्षमाह[भा. १८९५] पुवं आयतिबंध, करेइ सावेक्खो गणहरे ठविए ।
. अटविए पुव्वुत्ता, दोसाउअनाहमादीया ।। वृ- यो नामाचार्यः सापेक्षः स पूर्वमेव गणधरे स्थापिते साधूनामायतिबन्धं करोति यथायं युष्माकमाचार्य इत्यतेदाज्ञया वर्तितव्यमिति अथन पूर्व गणधरंस्थापयतिततस्तस्मिन्नस्थापिते दोषाः पूर्वोक्ता अनाथादयो 'अनाहमोजाया' इत्यादिनाभिहिताः क्षिप्तादयो दोषाभवेयुः ।।
उक्तो लोकोत्तरिकः सापेक्षः, सम्प्रति निरपेक्षमाह[भा.१८९६] आसुक्कारोवरए अट्ठविते गणहरे इमामेरा ।
चिलिमिलि हत्थाणुनापरिभव सुत्तत्थहावणया ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org