________________
व्यवहार-छेदसूत्रम् -२- ४/१०५ ऋतबद्धः कालो दर्शितो यं पुरतः कृत्वा प्रभुं कृत्वा इत्यर्थः । स नियमादाचार्य उपाध्यायो वाद्रष्टव्यो विहरतिसआचकदचित् वीसुंभेजा' शरीराद्विष्वग्भवेत्कालगतोभवेत् । अस्थिया इत्थ'इत्यादि, अस्ति चात्र समुदायोऽन्यः कश्चित् आचार्यादुपाध्यायाद्वा व्यतिरिक्तो गणी प्रवर्तकः स्थविरो वृषभो वा उपसम्पदनास्तित उपसम्पत्तव्यः । अथान्यो नास्ति कश्चिदत्रोपसम्पदनार्हस्तर्हि स आत्मनः कल्पनासामाप्तइतिसेतस्यकल्पते । एकरात्रिक्याप्रतिमयायत्रवसतितत्रैकरात्राभिग्रहेण जन्नं जन्नं' इत्यादि, यस्यां यस्यां दिशि अन्ये साधर्मिका विहरन्ति, तां तां दिशमुपलातुं, न पुनः ‘स' तस्य कल्पते तत्रापान्तराले विहारप्रत्ययंवस्तुं, कल्पते 'स' तस्य कारणप्रत्ययंसंघातादिकारणनिमित्तं वस्तुं, तस्मिंश्च कारणे निष्ठते यदि परो वदेत् क्सआर्य! ऐककात्रंद्विरात्रंवाएवं से' तस्य कल्पते एकरात्रं वा द्विरात्रं या वाशब्दात् त्रिरात्रं वा वस्तुं, न 'स' तस्य कल्पते एकरात्रादिरात्राद्वा परं वस्तुं, यः (य) तत्र एकरात्रात् द्विरात्राद्वा परं वसति तत्र 'स' तस्य स्वकृतादन्तरात् च्छेदः परिहारो वेति । अधुना नियुक्तिविस्तरः । अत्रोपसम्पदनाह इत्युक्तम् । सा चोपसम्पद्विविधा -लौकिकी लोकोत्तरिकी वा । तथा चाह[भा.१८८९] लोगे यउत्तरंमीय, उवसंपय लोगिगी उरायाई ।
राया वि होईदुविहो, सावेक्खो चेव निरवेक्खो ।। वृ- उपसम्पद्विधा-लोके, उत्तरेच लोकोत्तरे । तत्र लौकिकी राजादौ । आदिशब्दात युवराजादिपरिग्रहः । तथाच यदाराजामृतोभवति, तदा युवराजमुपसम्पद्यन्ते,तंराजानंस्थापयन्तीत्यर्थः युवराजोऽन्यः स्थाप्यते ।सचराजाभवति द्विविधः सापेक्षो निरपेक्षश्च सहापेक्षयासापेक्षः, तद्विपरीतो निरपेक्षः । तथा च प्रजाराज्याद्यपेक्षः सन् जीवनेव युवराजंस्थापयति निरपेक्षस्तु नैव ।।
अथ किंजीवन्नेव युवराज स्थापयति । तत आह- . [भा.१८९०] जुवराजमि उठविए, पयाउबंधंति आयतितत्थ ।
नेवय कालगयंमी, खुब्भंति पडिवेसिय नरिंदा ।। वृ-युवराजे राज्ञा साक्षाद्विद्यमानेन स्थापिते प्रजास्तत्र आयतिमागामिकालविषयां महतीमास्थां महतीमास्थांबध्नन्ति, नैवचसहसाकालगतेराज्ञिप्रतिवेशिकनरेन्द्राःसीमातटवर्तिनः प्रत्यन्तराजानः क्षुभ्यन्ति । राज्यविलोडनायसंचलन्ति ।। उक्तः सापेक्षःसंप्रति निरपेक्षमाह[भा.१८९१] - पच्छन्नरायतेने आय परोदुविह होइनिखेको ।
. लोइय लोगुत्तरितो, लोगुत्तर थप्पियरेवोच्छं ।। वृ-निरपेक्षो नाम यः प्रजानां राज्यस्य चायर्ति नापेक्षेते, तस्मिन् कालगतेस राजा मृतः प्रच्छन्नो प्रियते । यथा अतीव राजा शरीरबाधितो वर्तते सच तावध्रियते यावदन्यो निवेश्यते, सच कदाचित स्तेनोऽपि । यथा निक्षेपणं निक्षेपः स द्विविधो द्विप्रकारस्तद्यथा-आत्मनः परतश्च । पुनरेकैको द्विधालौकिको लोकोत्तरिकश्च । तत्र लोकोत्तरिकः स्थाप्यः पश्चाद्वक्ष्ये इत्यर्थः इतरं लौकिकं प्रथमगाथापादोपक्षिप्तं वक्ष्ये ।। प्रतिज्ञातमेव निर्वाहयति[भा.१८९२] निरवेक्खे कालगते, भिन्नरहस्सा तिगिच्छमच्चोय ।
अहि वास आसहिंडन, वज्झोति यमूलदेवोउ ।। वृ-एकोराजा निरपेक्षस्तस्यराज्ये मूलदेवश्चौरिकां करोतिसकदाचिदारक्षकैः प्राप्तो राज्ञः पार्थे नीतो राज्ञा यस्तेन इति कृत्वावध्य आज्ञप्तः । ततो राजा तत्क्षणमेव निजमावासस्थानमुपगतः क्षणमात्रेणच
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org