________________
उद्देशकः-४,मूल- १०४, [भा. १८४१] तच्चवस्त्रपात्रादिकंतालाचरावादधुः सेवका वावणिजोवाएतेषाप्रायोवर्षासुंदानसंभवात् । एनामेव गाथांव्याचिख्यासुः प्रथमतोरायनिया थेरासतिइतिव्याख्यानयति[भा.१८४२] रायनियस्सउएणंदलंतितुलेसुथेरगतरस्स।
तुल्लेसु जस्सअसती, तहावि तुल्ले इमामेरा ।। वृ- एकं शिष्यमुपस्थितं रालिकस्य रत्नाधिकस्य ददति । अथ सर्वे समरत्नाधिकास्ततस्तुल्येषु रत्नाधिकेषु यः स्थविरतरस्तस्य । अथ सर्वे स्थविरतरास्तर्हि तुल्येषु स्थविरतरेषु यस्य शिष्याणामभावस्तस्य । अथशिष्याभावेनापिसर्वे तुल्यास्तत इयं मर्यादा ।। तामेवाह[भा.१८४३] साकुलगाकुलथैरे, गणधेरै गणिव्यए यरासंधे ।
रायनियर्थरे असतिकुलादिथेराण वितहेव ।। वृ-यदितेसर्वेसकुलकाः समानकुलकाःततः कुलस्थविरस्य ददति, अथान्यकुलकाअपि विद्यन्ते तदा 'सङ्के' सङ्घस्थविरस्थ । अथैषां मध्ये तत्कालमेकस्याप्यभावस्तत आह-'रायनिए' इत्यादि रत्नाधिकस्थविस्याभावे कुलादिस्थविराणामपिच तथैव अभावे सति ।। [भा.१८४४] साहारणं व काउं, दोहि विसारैतिजाव अन्नोउ ।
उप्पजइ सिहो एमेवयवत्थपत्तेसु ।। वृ- साधारणं वा तं शिष्यं कृत्वा द्वावपि तं तावत्सारवतो यावदन्यशिष्यस्तयोरुत्पद्यते, ततो विभजनमिति, अत्र द्विग्रहणं त्रिप्रभृतीनामुपलक्षणम्, तेन बहूनामध्ययं न्यायो दृष्टव्यः, एक्मेव वस्त्रपात्रेष्वपिसाधारणतयासम्पन्नेषु विधिर्द्रष्टव्यः ।। अत्र पर आह[भा.१८४५] चोएइवत्थपाया, कप्पंतेवासवासिवेत्तुंजे ।
जह कारणमि सेहो, तह तालचरादिसुवत्था ।। वृ-चोदयति शिष्यः वर्षावासे वस्त्रपात्रणि गृहीतुंकल्पन्ते काका पाठ इति प्रश्नावगमः सूरिराहयथा कारणे पूर्वोपस्थित इत्येवं लक्षणे अव्यवच्छित्तिकारको भविष्यतीत्येवंरुपे वा अपवादतः शैक्षः कल्पते, तथापवादतस्तालाचरदिषुवस्त्राणि उपलक्षणमेतत्पात्राणिचकल्पन्ते ।। [भा.१८४६J साहारणो अभिहितो, इदानिपच्छाकडस्सअवयारो ।
सोउगणावच्छेइयपिंडगसुत्तमिभन्निहिती ।। वृ- यदुक्तंप्राक्साधारणं शक्ष्यं वक्ष्ये द्विविधंच पश्चात्कृतमिति तत्रसाधारण: शैक्षोऽभिहितः, इदानीं पश्चात्कृतस्यावतारः प्रस्तावः, स तु गणावच्छेदकपिण्डकसूत्रे गणावच्छेदकबहुत्वसूत्रे भणिष्यते।।तदेवमाचार्योपाध्यायगतान्यप्येकत्वबहुत्वसूत्राणि विभावयिषुराह[भा.१८४७] एमेवगणावच्छेयएगत्त-पुहुत दुविहकालम्मि।
जंइत्थंनाणत्तं, तमहं वुच्छंसमासेनं ।। वृ- एवमेवाचार्योपाध्यायसूत्रगतेन प्रकारेण द्विविधे काले ऋतुबद्धे काले वर्षाकाले च गणावच्छेदकैकत्वपृथकत्वसूत्राणि भावयतिव्यानि, किमुक्तं भवति । यथा आचार्योपाध्यायानामेकत्वपृथक्त्वसूत्राणि द्विविधकालगतानि व्याख्यातानि या वाभवत्यनाभवति च सामाचारी तथा गणावच्छेदकस्यापि एकत्वपृथकत्वसूत्राणि द्विविधकालगतानि भावयितव्यानि । सैव च सामाचारी आभवत्यनाभवतीति, नवरमत्र यन्नानात्वं तदहं समासेन वक्ष्ये ।। तत्र ऋतुबद्ध तावद् भण्वते यदि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org