________________
३०
व्यवहार-छेदसूत्रम् -२-४११०४ गणावच्छेदक आत्मद्वितीयो वसतितदातस्यप्रायश्चित्तंमासलधु, इमेच दोषाः[भा.१८४८] जहहोतिपत्थणिज्जाकप्पट्ठी नीलकेसीसव्वस्स ।
तहचेवगणावच्छो किंकारण, जेन तरुणोउ ।। वृ- यथा कप्पट्ठीति बालिका, नीलकेशी कृष्णकेशी तरुणीत्यर्थः । सर्वस्य तरुणस्य महतो वा प्रार्थनीयाभवति,तथागणावच्छेदकोऽपि,किकारणम्, सूरािह-येन कारणेनसगणावच्छेदकस्तरुणस्तरुणतया तरुण्या महत्या वाप्रार्थनीयोजायते ।। [भा.१८४९] दोण्हं चउकन्नरहसं, हवेज च्छक्कंनमोनसंभवति ।
सिद्धं लोके तेनउ, परपच्चयकारणा तिन्नि ।। वृ-लोकेइदं सिद्धं प्रतीतंयद्वयोश्चतुःकर्ण रहस्यं भवति, षट्कर्णंमोइतिपादपूरणे, त्रयाणां रहस्यं न सम्भवति, तेन कारणेन परप्रत्ययकारणात् परेषां प्रत्ययोत्पादनार्थ त्रयो विहरन्ति । इतरथासमर्थःस आत्मनिग्रहकर्तुम्, त्रयोऽपिचोत्सर्गतोन कल्पन्ते,तत इदमपिसूत्रकारणिकमवगन्तव्यम् । कारगतश्च तेषां त्रयाणां तिष्ठताभियं यतना[भा,१८५०] जयणातत्थुउबद्ध समभिक्खाणुननिक्खमपवेसा ।
वासासु दोण्हि चिढ़े दो हिंडे असंथरे इयरे ।। वृ-तत्र ऋतुबद्ध काले इयं यतना, समकं भिक्षा, समकं शव्यातरस्य समीपे वसतेरनुज्ञा, समकं विचारार्थ निष्क्रमः, समकं वसतौ प्रवेशः । वर्षासुपुनरियं, द्वौ पश्चात्तिठतो द्वौ हिण्डेते एतच्चसंस्तरणे, इतरौ द्वौ गणावच्छेदकतदन्यलक्षणौ वसतेः प्रत्यासन्नेषु गृहेषु वसतिं प्रलोकमानी हिण्डेते यावता च न पूर्यते तावदितरानीतं गृह्णीतः । इदमपि वर्षाविषयं कारणिकम्, अकारणे चतुर्णा तिष्ठतां प्रायश्चित्तं चतुर्लघु ।सम्प्रति बहुत्वविषये गणावच्छेदकसूत्रेभावयति-. [भा.१८५१] एमेव बहुणंपी, जहेवभणिया उआयरियसुत्ते ।
जावयसुयोवसंफ्य,नवरिइमं तत्थनाणतं ।। वृ- एवमेव अनेनैव प्रकारेण । किमुक्तंभवति । यथा एकत्वे ऋतुबद्ध वर्षासु च पूर्वसूत्रमुक्तमेवं बहूनामपिऋतुबद्धे वर्षासुचवक्तव्यम् ।भावनापिच यथाबहुत्वविषये आचार्यसूत्रेभणितातथैवात्रापि भणनीया, सा च तावत्, यावत् श्रुतोपसम्पत् । तथाहि, तैरपि समाप्तकल्पीकरणार्थमन्योन्यनिश्रया, तया परस्परोपसम्पदा इत्यर्थः । सा च निश्रा द्विविधा-गीतार्थनिश्रा श्रुतनिश्रा च, तत्र च यद्गीतार्थस्य समीपेउपसम्पदनंसागीतार्थनिश्रा,तया परस्परोपसम्पन्नत्वेनसमाप्तकल्पीभूतयोईयोस्त्रयाणांवावर्गाणा समकमागतेन(मागमनेन) साधारणक्षेत्रम् । तथा श्रुतार्थ निश्रा श्रुतानिश्रा, सापि च यथा प्राक् आचार्यसूत्रेऽभिहिता, तथात्रापिभाषितव्या । नवरमिदंतत्र निश्रायांनानात्वम्, तदेवाह
साधारणठियाउ, सुत्तत्थाईपरोप्परं गिह्ने ।
वारंवारेणतहिंजह आसा कंडूयंतेउ ।। . वृ-ते सर्वे द्विवर्गास्त्रिवर्गा वा समाप्तकल्पाः समकमेकस्मिन् क्षेत्रे यदि स्थितास्ततः साधारणं तत् क्षेत्रम्, तस्मिन् साधारणे क्षेत्रे स्थिता, यदि यथा वारंवारेणाश्वाः परस्परं कण्डूयन्ति । एवं वारेण वारेण परस्परं सूत्रमर्थवा गृह्णन्ति । यथाहमद्य तव पार्श्वे गृह्णामि |कल्ये त्वं (प्रतिस्त्वं) मम पार्श्वे गृहीष्यसि । अथवा पौरुषीप्रमाणेन मुहूर्तेर्वा वारकं कुर्वन्ति तदा यो यदा यस्य पार्श्वे गृह्णाति तस्य तावन्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org