________________
२८
व्यवहार - छंदसूत्रम् - २ ४/१०४ - धर्मे श्रोतुमिच्छामि युष्माकं पार्श्वे । जे इति पादपूरणे । श्रुते धर्मे रुचिते प्रतिभासिते सत्ति प्रव्रजिष्यामि । एवमुक्ते कथना धर्मस्य भवति, कः कथयतीति चेदत आह-यो लब्धितः कथनलब्धेरहीनः स प्रथमं साधयति कथयति । अथान्येऽपि द्वित्रिप्रभृतयो लब्धितः समानास्तर्हि यो रत्नाधिकस्तेन कथयितव्यम् ।। [भा. १८३८]
पुनोवि कहमिच्छंते, तत्तुल्लं भासते परो । एवं तु कहिए जस्स, उवट्टायति तस्स सो ।।
वृ- अहं पुनरपि धर्मकथां श्रोतुमिच्छामि ततः पुनरपि कथां धर्मकथां श्रोतुमिच्छामीति ब्रवीति, ततः पुनरपि कथां श्रोतुमिच्छति परोऽन्यो भाषते तत्तुल्यं तावन्मात्रमेवममपरवेलायामन्य । उक्तं च 'जारिसं पढमेण कहियं, तारिस सेसेहिं वि कहियव्वमिति', एवं प्रदीपकथनसदृशतया सर्वैः कथिते यस्योपतिष्ठति तस्य स आभवति । अथान्ये विशेषेण विशेषतरेण कथयन्ति तर्हि ते तं न लभन्ते किन्तु यो रत्नाधिकस्तेपां तस्य स भवति ।। [भा. १८३९]
अनुवसंते च सव्वेसिं सलद्धि कहणा पुन । रायनियादि उवसंतो तस्स सो मा य नासउ ।।
. वृ- अथ यादृशं प्रथमेन कथितंतादृशेऽन्यैरपि कथितेस नोपशाम्यति, नप्रव्रज्याभिमुखीभूतो भवति, ततस्तस्मिन्ननुपशान्ते पुनः कथना धर्मस्य सर्वेषां रत्नाधिकप्रभृतीनां स्वलब्ध्या यथास्वशक्तितुलनया, एवं च कथने यस्य समीपे स उपशान्तस्तस्याभवति, कस्मादेवं कथनेति चेदत आह-मा सोऽनुपशान्तः सन् नश्यतु संसारं परिभ्रमत्विति कृत्वा ।। अथ सर्वे आचार्या एकत्र मिलितास्तिष्ठिन्ति, स च शैक्षक एवं कंचन पृच्छति कोऽत्राचार्यः ? तत एवं कथनीयम्, सर्वे बहुश्रुताः सर्वे चाचार्याः सर्वे प्रधाना इति एवमुक्ते, यदि शैक्षिको व्रते -यं जानीय यूयमाचार्य तं ममदर्शयत, तत्राह
[भा. १८४० ]
जाह आयरियं तं देह ममंति एव भणियंमि ।
जह बहुया ते सीसा दलंति सव्वेसिमेक्केक्कं ।।
वृ-यं जानीथ यूयमाचार्यं तं मम देहति दर्शयतेत्येवं भणिते यदि ते शिष्याः शिष्यत्वेनोपस्थिता बहवो भवन्ति, ततः सर्वेषामेकैकं शिष्यं ते एकत्र मिलिताः परस्परसम्मत्या ददति प्रयच्छन्ति ।। अथ एक एव शिष्यस्त विधिमाह[भा. १८४१ ]
रायनिया थेरासति कुलगणसंघे दुगादिनो भेदो ।
एमेव वत्थपाए, तालायरसेवगा भणिया ||
वृ- यद्येक एव शिष्यस्तदा यस्तेषां सर्वेषामपि रात्निको रत्नाधिकस्तस्य तं समर्पयन्ति, अथ सर्वे समरत्नाधिकास्ततो यस्तेषां वृद्धतरस्तस्य, अथ सर्वे वृद्धास्तर्हि यस्य शिष्या न सन्ति तस्य । अथ सर्वेषामपि शिष्या न विद्यन्ते तत इयं सामाचारी । सर्वेषां शिष्याणामसत्यभावे कुलत्ति यदि ते सर्वे समानकुलास्ततः कुलस्थविरस्य तं ददति, अथान्यकुलसत्का अपि तत्र वर्तन्ते, तत आह-गणत्ति गणस्थविरस्य समर्पयन्ति, अधान्यगणसत्का अप तत्र विद्यन्ते, तत आह-संघे इतिसङ्घस्थविराय ददति, अथवा स एकः शिष्यः साधारणस्तावत् क्रियते यावदन्ये उपतिष्ठन्ते, उपस्थितेषु च तेषु यदा सर्वेषां परिपूर्णा भवन्ति तदा विभज्यन्ते । एवं द्विकादयोऽपि भेदा वाच्याः । द्विप्रभृतीनामपि शिष्याणामुपस्थितानामेवं विभाषा कर्तव्या । एवमेव अनेनैव च प्रकारेणवस्त्रपात्रादिलाभेऽपि द्रष्टव्यम् ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International