________________
२६
व्यवहार-छेदसूत्रम्-२- ४/१०४ उज्ज्याल्यमानेष्वधीयमानेषु वा, अथवा प्रकीर्णकश्रुते अधीयमाने बहुश्रुतेऽपि बहुश्रुतविषयेऽपि मण्डलीभवति । तत्राप्याभाव्यमावलिकायामिव;अथकथमावलिकायामिवमण्डल्यामपिद्रष्टव्यमिति चेत् ।उच्यते,-एकएकस्यपाइँ पूर्वाधीतंनष्टमावश्यकमुज्वालयति,आवश्यकवाचनाचार्यः पुनस्तस्य समीपेदशवैकालिकम्, दशवैकालिकवाचनाचार्यस्याभवति इत्यादिसर्व तथैव, तथा एकएकस्य पार्थे आवश्यकं नष्टमुज्वालयति, एषोऽप्यावश्यकवाचनाचार्योऽन्यस्य समीपे दशवैकालिकं, दशवैकालिकवाचनाचार्योप्यपरस्य दृष्टिवादमुज्वालयति, दृष्टिवादवाचनाचार्यस्याभवति, न शेषाणामाभवनस्योत्तरोत्तरसंक्रान्त्याऽन्तिमेऽवस्थानादेतच्चावलिकायामपिद्रष्टव्यम् । तथा यस्यपाचे धर्मकथाशास्त्राणि वो (चो) ज्वालयत्यधीते वा तस्य पाठकस्याभवति न पाठ्यमानस्य, तथा बहुश्रुततरोऽपियद्यन्यस्य समीपेप्रकीर्णकश्रुतमधीतेतदातस्य प्रकीर्णकश्रुतवाचनाचार्यस्याभवतिन बहुश्रुततरस्य, किंबहुना, यो यस्य समीपे पठत्युज्वालयति वा तस्य सत्कमाभाव्यमितरो वाचनाचार्यो हरतीति । अथावलिकाया मण्डल्याश्चकः प्रतिविशेष इत्यत आह[भा.१८२८] च्छिन्नाच्छिन्नविसेसो, आवलियाएउ अंतएठाति ।
मंडलीएसट्टाणं,सचित्तादीसुसंकमति ।। वृ-आवलिकामण्डल्योः परस्परं च्छिन्नाच्छिन्नरुयो विशेषः, आवलिका च्छिन्नाविविक्ता एकान्ते भवति । मण्डलिका त्वच्छिन्ना, “आवलिय तत्थ च्छिन्ना मंडलिया होइ अच्छिन्ना उ" इति वचनात् । एतदेव सुव्यक्तमाह-आवलिकायामुपाध्यायको(ध्यायो)ऽन्तर्मध्ये विविक्तेप्रदेशे तिष्ठति,मण्डल्यां पुनः स्वस्थानमाभवनंच पाठवितरि संक्रामतिसचितादिषु तत्क्षेत्रगतसचित्तादिविषियम् ।।
अधुनाघोटककण्डूयितमधिकृत्याह[भा.१८२९] दोहंतुसंजयाणं, घोडगकंडूइयं करताणं |
जोजाहे जंपुच्छइसोताहे पडिच्छतो तस्स !! वृ-द्वयोः संयतयो|टककण्डूयितमवि घोटकं कण्डूयितं परस्परं प्रच्छनमित्यर्थः तत् कुवतां यो यदा यं पृच्छति स तदा तस्य प्रतीच्छकः इतरः प्रतीच्छ्यः यावच्च यः प्रतीच्छ्यस्तावत्तस्याभवति, न शेषकालमिति । उपसंहारमाह[भा.१८३०] एतोअसमत्ते कप्पेभणितो विहि उजो एस |
एतोसमत्तकप्पेबुच्छामि विहिंसमासेण ।। वृ- एवं तावदसमाप्ते कल्पे यो विधिर्भवति, स एष भणितः । अत ऊर्ध्वं समासेन समाप्तकल्पे विधिं वक्ष्यामि ।। प्रतिज्ञातमेव निर्वाहयति[भा.१८३१] गणिआयरियाणंतोखेत्तंमिठियाणदोसुगामेसु ।
वासासुहोतिखेतं निस्संचारेणबाहिरतो ।। वृ. गणोऽस्यास्तीति गणी गणावच्छेदक आचार्यः प्रतीतस्तवोमियोः पृथक पृथक् स्थितयोर्वर्षास्वाभवति क्षेत्रं ग्रामद्वयलक्षणम्, अन्तः-क्षेत्र स्थितयोः क्षेत्रमध्यव्यवस्थितयोः न पुनः परस्परं गमनागमनतः, कुतःइत्याह बहिनिःसंचारेण स्वस्वग्रामावहिः पानीयहरिताद्याकुलतया संचाराभावतः ।।
[भा.१८३२] वासासु समत्ताणं, उगहोएगदुगपिंडियाणं पि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org