________________
५०
व्यवहार -छदसूत्रम्-१___ अनंतवनस्पत्तिकायिक संघट्टयति मासगुरु परितापयति चतुर्लधु, अपद्रावयति चतुर्गुरु, द्वित्रि दिवसादि निरंतरसंघट्टनादिषूत्तरोत्तरेकैकस्थानवृद्धितः सप्तमिर्दिवसेर्मूलं, द्वींद्रियं संघट्टयति चतुर्लघु परितापयति चतुर्गुरुअपद्रावयतिषट्लघु, अत्रद्वयादिदिवसनिरंतर संघट्टनादिषुषड्भिर्दिवसर्मूलं, त्रीद्रियं संघट्टयतिचतुर्गुरुपरितापयतिषट्लघुअपद्रावयतिषट्गुरुअत्रपंचभिदिवसमूलं चतुरिंद्रियं संघट्टयति षट्लघु, परितापयतः षट्गुरु अपद्रावयतोमासिकछेदः अत्रचतुभिर्दिवसैर्मूलंपंचेंद्रियंसंघट्टयतः पट्गुरु परितापयतःच्छेदापद्रावयतोमूलमत्रद्वयोर्दिवसयोरनवस्थाप्यंत्रिषु दिवसेषुपारांचितमिति, तदेवमुक्तं सप्रभेदं प्रतिसेवनाप्रायश्चित्तमधुना संयोजनाप्रायश्चित्तं वक्तव्यं; अस्मिंश्च व्याख्याते यतः प्ररुपणापृथक्त्वमित्येतदपिद्वारंव्याख्यातंद्रष्टव्यंतत्रचोदकः संयोजनादीनांभेदानांप्ररुपणा पृथक्त्वमाक्षिपन्नाह - [भा.१३६] पडिसेवणं विनाखलुसंजोगारोवणा न विजंति !
मायाचियपडिसेवा अइप्पसंगोयं इति एक्कं ।। वृ- इहप्रायश्चित्तंसर्वमुत्पद्यतेप्रतिसेवनातो, नखलुमूलगुणप्रतिसेवनामुत्तरगुणप्रतिसेवनांवाविना क्वापि प्रायश्चित्तंः संभवः पडिसेवियंमि दिजइ पच्छित्तं इहरहाउपडिसेहो इति वचनात् ततः संयोजनाप्रायश्चित्तमारोपणाप्रायश्चित्तंच प्रतिसेवनामंतरणनभवतीति तयोः प्रतिसेवनायामेवांतर्भाव: प्रतिकुंचनाप्रायश्चित्तमपि न प्रतिसेवनातः पृथगुपपन्नं, यतः प्रतिकुंचना नाम माया तथा चोक्तं पलिउंचणंति य मायत्तियनियडित्तियएगट्ठाए इति माया च प्रतिसेवना तत एकमेव प्रतिसेवनाप्रायश्चित्तमुपपत्तिमत्, न शेषाणि त्रीणि संयोजनादीनि पृथक् प्रायश्चित्तानि अन्यथैवमतिप्रसंगआपद्यते. तथाहि संयोजनादीनि त्रीणि प्रायश्चितानि प्रतिसेवनारुपाणि भवंत्यपि प्रतिसंवना भवंति ततः प्रतिसेवनापि न प्रतिसेवना स्यात् विशेषाभावात् अनिष्टं चैतत् तस्मादेकमेव प्रायश्चित्तं प्रतिसेवना, नशेषाणीति एव चोदकेनाक्षिप्ते प्ररुपणापृथक्त्वेसूरिहत्तरमाह - [भा.१३७] एगाहिगाणवि नाणत्तंकेत्तियाव दिजंति ।
आलोवणाविहीविय इयनाणत्तंचउण्डंपि ।। वृ- एकाधिकारिकानि नाम एकस्मिन् शय्यातरपिंडादावधिकृतदोषेऽनालोचिते एव यानि शेषदांषसमुत्थितानि प्रायश्चित्तानि तान्येकाधिकारिकाणि, एकाधिकारे भवानि एकाधिकारिकाणि अध्यात्मादित्वादिकणितिव्युत्पत्तेः तेषामप्येकाधिकारिणां नानात्वं नपुनरैकाधिकारितयाएकत्वमिति प्रज्ञापनाय तदर्थं संयोजनाप्रायश्चित्तं पृथगुच्यते नानात्वमेव गाथाद्वयेनदर्शयति ।। [भा.१३८) सेज्जायरितिपिंडे याउदउल्लेखलुतहा अभिहडेय ।
आहाकम्मेय तहासत्तउसागारिए मासा ।। वृ-केनापिसाधुना प्रथमतः शय्यायरपिंड उपभुक्ततस्मिन्ननालोचितएव तदनंतरमुदकार्दमासेवितं, ततोभ्याहतं तदनंतरमाधाकर्मिकंएतानि चत्वार्यप्येकाधिकारिकाणि अधिकृत एव शय्यातरपिंडदोषे अनालोचिते शेषदोषप्रायश्चित्तानां संभवात् एतेषांचैकाधिकारिकाणामपि नानात्वं नतुशय्यातरपिंडे एव शेषाण्यंतर्भवंति, ततःसर्वाण्यपिपृथगालोचनीयानिन केवल एवैकःशय्यातरपिंडइतिपरिज्ञानाय संयोजनादीतेतत्रशय्यातरपिंडेमासलघु उदकार्टेपिमासल्लघु स्वग्रामाहतेपिमासलघु आधाकर्मिक
चत्वारो गुरुमासाः गुरुगा आहय इति वचनात् एवं शय्यातरपिंडे अधिकृते संयोजनाप्रायश्चित्तं Jain Education International
For Private & Personal Use Only
www.jainelibrary.org