________________
१२
व्यवहार-छेदसूत्रम्-२- ४/१०२ वृ-यत्रमहती विचारभूमिः पुरीषोत्सर्गभूमिः, यत्रचमहती विहारभूमिभिक्षानिमित्तंपरिभ्रमणभूमिः, यत्र च वृत्तिर्भिक्षावृत्तिः सुलभा, वसतिश्च यत्र सुलभा, तत् जधन्यं वर्षायोग्य क्षेत्रं उत्कृष्टं त्रयोदशगुणोपेतम् ।। तानेवाह[भा.१७६५] चिक्खल्ल पाणथंडिल वसही गोरस जनाउलो वेजो।
ओसह निचयाहिवती पासंडा भिक्ख सज्झाए ।। वृ-यत्रचिक्खल्लःकर्दमोभूयान्नभवति,प्राणाश्चद्वीन्द्रियादयोभूयांसोनसंभूर्च्छन्ति, यत्रचभूयांसि स्थण्डिलानि, वसतयश्चद्वित्र्यादयो यत्रप्राप्यन्ते, गोरसंच प्रभूतं, प्रत्येकभूयोजनसमाकुलः कुलवर्गः, वैद्यश्चयत्रविद्यते,औषधानिचसुप्रतीतानि, निचयाश्चधान्यानामतिप्रभूताः,अधिपतिःप्रजानामतीव सुरक्षीवर्तते, पाषण्डाश्चस्तोका विद्यन्ते, भिक्षाचसुलभा, स्वाध्यायश्चनियाघातः । एतदुत्कृष्टं वर्षासु योग्यं क्षेत्रम् ।।साम्प्रतमेतद्गुणाभावे वर्षासुवसतांप्रायश्चित्तमाह- .. [भा.१७६६] पाणा थंडिल वसही अहिवति पासंड भिवखसज्झाए ।
लहुया, सेसेलहुओ, केसिंची सव्वहिं लहुगा ।। वृ-यदियत्रप्राणा अतिबहवो, यदिवान विद्यन्तेस्थप्डिलानि, वसतयोवा द्वित्र्यादिकान विद्यन्ते, अधिपतिर्वा नास्ति, पाषण्डा वा बहवः, भिक्षाचन सुप्रापा, स्वाध्यायो वान निर्वहति, तत्र वर्षाकालं करोतितदैतेषुदोषेषुप्रत्येकंप्रायश्चित्तंचत्वारोलघुकाः ।शेषेचिक्खल्लादिकेदोषेप्रत्येकंलघुको मासः । केषांचिदाचार्याणांमतेनपुनः सर्वत्र सर्वेष्वपिदोषेषु प्रत्येकं चत्वारो लघुकाः ।। [भा.१७६७] नोसरण कुच्छणागार कंटका सिग्ण आयभेदोय ।
संजमतो पाणादी आगाह निमजणादीवा ।। वृ- निस्सरणं नाम फेल्हसणं । कुत्सना अमुल्यन्तराणां कोतः गाराः कर्करकाः । कण्टकाश्च स्थूलशूलादयः । सिग्गत्ति देशीपदमेतत् परिश्रम इत्यर्थः । एष आत्मभेद एते आत्मविराधनायै दोषा इत्यर्थः ।संयमतःसंयमे पुनरयंदोषः प्राणाद्वीन्द्रियादयआदिशब्दात्पृथिवीकायादिपरिग्रहः,तेविद्यन्ते, तथायदिसुखेनात्रगच्छामीतिविचिन्त्यसोदकेकर्दमेगच्छाततथाकचिदगाधेनिमज्जति, आदिशब्दात् पादजङ्घादिक्षोभिताः सकर्दमजलविघुष उत्थापवति, ताभिश्च प्राणादिविधातः, सन्मुखागच्छत्पुरुषादिखरण्टनंनिजशरीरोपकरणखरण्टनंचेतिपरिग्रहः । [भा.१७६८] धुवणे विहोंति दोसाउप्पीलणादी य बाउसत्तंच ।
सेहादीनमवन्ना अधोवनेचीरनासो वा ।। वृ-कर्दमाकुलेमार्गेगमनतःकर्दम उपकरणेलगति, तथा चोपकरणस्य धोवनेऽपि,आस्तामधोवने इत्यपि शब्दार्थः, दोषाः । के ते इत्याह-उत्पीडनादय उत्पीडनं प्राणादीनां प्लावनमादिशब्दात् शरीरायासस्वाध्यायविधातादिपरिग्रहः ।अपिच वस्त्राणिशरीरंच प्रक्षालयतो बाकुशिकत्वमुपजायते, शरीरोपकरणबकुशीकारणात्, अय न प्रक्षालयति, तबधोवने शैक्षकादीनामवज्ञासंभवश्चीवरनाशश्च कर्दमेन शटनात् । वाशब्दः सप्नुच्चवे।। सम्प्रतिप्राणसंभवे दोषानाह[भा.१७६९] मुइंगविच्छुगादिसुदोदोसासंजमेयसेसेसु ।'
नियमादोस दुगुंछिय अयंडिल निसगधरणेय ।। वृ- मुइंगा ना पिपीलिका वृश्चिकादिषु शेषेषुच प्राणेषु बाहुल्येन संभवत्सु द्धो दोषो तद्यथा संयमे,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org