________________
उद्देशक :-४, मूलं - १०२, [भा. १७५९]
११ वृ-महान् पुरुषः शून्यमुपाश्रयं दृष्ट्रातत्रत्वगवर्तनं करोति, यदिवा उपकरणंनयतिदहतिवा, तदा त्वगवर्तने नयने दहने वा, प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः;अथानाचारं करोति, तत्रापि चत्वारो गुरुकाः । । अधुना उपकरणेति व्याख्यानार्थनीतं वर्षेणार्दीक्रियते तदा चत्वारो लधुकाः । अथ तस्मिन्नुपाश्रयेशून्ये सतिग्लानादिकान्, आदिशब्दात्प्राधूर्णकादिपरिग्रहः, गृहस्थाःस्थापयन्तितदापि चत्वारो लघुकाः । अयोपधिं सहन नयति तदा सोऽरक्षितोः सन् उपहन्यते तस्करैर्वापह्रियते, तदपहारे चजधन्यमध्यमोत्कृष्टापहारनिमित्तंप्रायश्चित्तं,हतेचतस्मिन्नुपकरणेयद्अनेषणादिकंयत्रोपकरणविषये तौसेवातेतन्निमित्तमपि प्रायश्चित्तं तौ प्राप्नुतः । । सम्प्रति 'गेलन्ने सल्लमरणेय' इति द्वारद्वयमाह[भा.१७६०] गेलनमरणसल्ला बितिउद्देसंति वनिया पुज्विं ।
तेचेव निरवसेसा नवरंइहइंतुबितियपयं ।। वृ-प्लान्यं मरणसल्लत्ति सशल्यमरणमेते द्वे अपिपूर्व द्वितीयोद्देशके प्रथमसूत्रेयेदोषतया सविस्तर वर्णिततेएव निखशेपेअत्रापिवक्तव्ये, नवरंतत्रद्वितीयपदमपवादपदंनोक्तमिहतु, इकातरः पादपूरणे, तदुच्यते ।। तदेवाह[भा.१७६१] असिवादिकारणेहिं अहवा फिडिया उखेत्तसंकमणे ।
तत्तियमेत्तावभवे दोण्हवासासुजयणइमा ।। वृ-अशिवादिभिः कारणैावपिवर्षासुविहरतः । अथवा एकस्मात्क्षेत्रादन्यस्मिन्क्षेत्रेसङ्क्रमणे कथमपि मार्गतः स्फिटितौ परिभ्रष्टावकत्र वर्षासु विहरत उपलक्षणमेतत् तेनैतदपि द्रष्टव्यम् - अशिवादिकारणतो गणस्फोटं कृत्वेकाकिनो जाताः सङ्केतवशाच्च कचिद्वर्षासु द्वौ मिलितविति । तत्तियमेत्तावभवेइति अथवाशेषाःप्रतिभनामृता वाअवशिष्टौतावन्मात्रावेव द्वावेवभवतस्तिष्ठतः । एवं द्वौ वर्षासुभवतः । ततस्तयोश्च द्वयोर्वर्षासुइयं वक्ष्यमाणा यतना । ।तामेवाह[भा.१७६२] एगोरक्खतिवसहिं भिक्खवियारादि बितियतोयाति ।
संथरमाणेअसंथरे निद्दोस्सुवरिठवित्तुवहिं ।। वृ- एको वसतिरक्षति । द्वितीयो भिक्षाविचारादौ भिक्षायां विचारे बहिर्भूमावादिशब्दादन्यमिस्मन् वा प्रयोजने याति । एवं यतना तदा भवति तदा तौ संस्तरतः । असंथरेत्ति अथैकाकिनो भिक्षाया अलाभादन्यतो वा कुतश्चित्कारणान्न संस्तरतस्तदासंस्तरेद्वावपिसह हिण्डाते तत्रेयं यतना, यदि वसतौ निर्दीस्य(ष्यं) निर्भयं तदा उपधिमुपरि वसतेः स्थापयतो बध्नीतो यथान कोऽपिपश्यतीति । एवंभूतां चयतनांकुर्वन्तौ तावप्रायश्चित्तविषयौ । अथनकुरुतस्तदा यद् आपद्यतेप्रायश्चित्तंतत्प्राप्नुतइति ।। [भा.१७६३] सुत्तेणेवुद्धारो कारणियंतंतुहोतिसुत्तंति ।
कप्पोत्ति अनुन्नातो वासाणं केरिसे खेत्ते ।। वृ-यतएवंदोषास्ततो द्वयोर्विहारोवर्षासुसाक्षात्पंचमेन सूत्रेणप्रतिषिद्धस्त्रयाणांतुविहारस्योद्धारोऽनुज्ञातःसूत्रेणैव षष्ठेन कृतः सौऽप्युत्सर्गतो न कल्पते ततस्तत्सूत्रं कारणिकमशिवादिकारणनिष्पन्नं भवति वेदितव्यम् ।। अथ कीदृशे क्षेत्रे वर्षासु, गाथायां षष्ठी सप्तम्यर्थे प्राकृतत्वात्, त्रयाणां विहारः कल्प इति कल्पतेइत्यनेनं पादेनानुज्ञातः । सूरिराह[भा.१७६४]. महती वियारभूमी विहारभूमी यसुलभवित्तीय ।
सुलभा वसहीय जहिं जहन्नयं वासखेतंतु ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org