________________
४३८
पणहानीए जयंती अत्तठाए वि एमेव ।।
- द्विविधस्य प्रति परिवारकस्य सिद्धपुत्रीदेश्चेत्यर्थः असत्यभावे तेषां पार्श्वस्थपश्चात्कृतादीनामाहारादिकं स सर्वात्मना करोति । तत्रापि स प्रथमतः तदलाभे पञ्चकपरिहान्या यतमानोऽशुद्धमानमपि पञ्चकपरिहानियतना नाम स शुद्धालाभे पञ्चकप्रायश्चित्तस्थान- प्रतिसेवनादुत्पादयति । तदसंभवे दशकप्रायश्चित्तस्थानप्रतिसेवनात एवं तावत् यावच्चतुर्गुरुकमसंप्राप्तः । तथापि से तस्योत्पादयति । एवमेवात्मार्थं पञ्चकपरिहान्या यतते । किमुक्तं भवति ? उगमादिदीप-त्रयशुद्धमलभमानः पञ्चकादियतनया त्रिभिरपि दोषैरशुद्धं गृह्णाति । स तथा कुर्वन्नपि ज्ञाननिमित्तं प्रवृत्तत्वात् कृतयतनाविषयपुरुषकारत्वात् रागद्वेषविराहितत्वाच्च शुद्ध इति ।
मू. (७६) निग्गंथरसणं नवडहरतरुणस्स आयरियउवज्झाए विसंभेजा नो से कप्पइ अनायरिय उवज्झाइयाए होत्तए कप्पइ से पुव्वं आयविं उद्दिसावेत्ता तओ पच्छा उवज्झायं से किमाहु भंते ? दुसंगहिए समणे निग्गंथ तं जहा आयरिएणं वज्झाएणय ।।
वृ- अथास्य सूत्रस्य कः संबंध आह
[भा. १५७१ ]
व्यवहार- छेदसूत्रम् - १-३/७५
आयरियाणं सीसो परियाओ वावि अहिकती एस ।
सीसाण के रिसाव ठाविजइ सो उ आयरिओ ।।
- पूर्वसूत्रे आचार्यस्थापनीय उक्तः आचार्याणां च शिष्यो भवतीति तद्वक्तव्यतार्थमिदं सूत्रमथवा पूर्वसूत्रेषु पर्यायोऽधिकृतोऽस्मिन्नपि च सूत्रे एष एव पर्यायस्तथा च नवडहरतरुणग्रहणं यदि वानन्तरसूत्रे य आचार्यः स्थापनीय उक्तः । स कीदृशानां शिष्याणां स्थाप्यते इतीदमनेन सूत्रेणोच्यते ! अनेन सम्बन्धेनायातस्यास्य व्याख्या निर्ग्रन्थस्य नमितिवाक्यालङ्कारे नवडहरतरुणस्य नवस्यडहरस्य तरुणस्य वा आचार्यसहित उपाध्याय आचार्यउपाध्याय आचार्योपाध्यायश्चेत्यर्थः । विष्कंभी यावत्भ्रियते ततः से तस्य नवडहरतरुणस्या नाचार्योपाध्यायस्य सत्तो भवितुं वर्तितुं न कल्पते किन्तु पूर्वमाचार्यमुद्देशाप्य स्थापयित्वा ततः पश्चादुपाध्यायमुद्देशाप्यैवमाचार्योपाध्यायस्य सतो भवितुं कल्पते । से किमाहु भंते इति से शब्दोऽथशब्दार्थः । अथ भदन्त किं कस्मात्कारणात् भगवन्त एवमाहुः - सूरिराहद्वाभ्यामाचार्योपाध्यायाभ्यां संगृहीतो द्विसंगृहीतः श्रमणो निर्ग्रन्थः सदा भवति । तद्यथाआचार्येणोपाध्यायेन च एष सूत्रसंक्षेपार्थः । व्यासार्थं तु भाष्यकृद्विवक्षुः नवादिशब्दार्थानामर्थमाह - ते वरिसी होइ नवी आसोलसगं तु डहरगं बेंति । तरुणी चत्ता सत्तरूणमज्झिमो थेरती सीसी ।।
[ भा. १५७२ ]
वृ- प्रव्रज्यापर्यायेण यस्य त्रीणिवर्षाणि नाधिकमित्येष त्रिवर्षो भवितनवः । जन्मपर्यायेण चत्वारि वर्षाणि आरभ्य यावदाषोडशकं वर्षमत्राडमर्यादायां यथा आ पाटलिपुत्रावृष्टो देवः किमुक्तं भवति ? पाटलीपुत्रं मर्यादीकृत्यारतो वृष्टो देवः इत्यत्र ततोऽयमर्थः यावत् परिपूर्णानि पञ्चदशवर्षाणि षोडशाद्वर्षादर्वाक् या तडुहरकं ब्रुवन्ते समयविदः । ततो जन्मपर्यायेण षोडशवर्षाण्यारभ्य यावच्चत्वारिंशद्वर्षाणि तावत्तरुणः । ततः परं यावत्सप्ततिरेकेन वर्षेणोना तावन्मध्यमः । ततः परं सप्ततेरारभ्य स्थविरः शेषः ।
[भा. १५७३] अनवस्सविडहरग तरुणगस्य नियमेन संगहं बिंति । एमेव तरुणमज्झे थेरम्मिय संगहोनवए ।।
वृ- यः प्रव्रज्यापर्यायेण त्रिवर्षोत्तीर्णः सोऽनवक उच्यते । तस्यानवकस्यापि आस्तां नवकस्येत्यपि शब्दार्थः । डहरकः सन् तरुणको डहरकतरुणकस्तस्य द्वादशवर्षाण्यः रतो यावत् पञ्चदशवर्षाणि तावदित्यर्थः । नियमेन संग्रहमभिस्थापितो आचार्योपाध्यायानां संग्रहणं ब्रुवते अभिनवस्थापिता
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org