________________
उद्देशक : ३, मूलं : ७५, [ भा. १५६५ ]
४३७
पाक्षिकाणामन्तिके केवलं तान् संयमयोगेष्वभ्युत्थाप्य एतावता संविग्नेति व्याख्यातं । अधुना असंविग्नेत्यादि व्याख्यायते असंविग्नात् सारुपिकान् संयतरुपधारिणः सिद्धपुत्र प्रच्छन्नान् सिद्धपुत्रान् पश्चात्कृतांश्चाश्रयेत् । कथं भूतानित्याह-प्रतिक्रान्ताभ्युत्थितान् असंयमव्यापारान् प्रतिक्रान्तान् संयमं प्रत्यभ्युत्थितान् तेषामप्यसति अभावे अन्यत्रयत्र तेन ज्ञायन्तेतत्र गत्वा तेषामन्तिकै अधीतेन अन्यत्र, तेषामगमने तत्रैव पठेत् । यत्र ते स्वव्यापारेण स्थिता वर्तन्ते । इयमत्र भावना पार्श्वस्थादीनां संविग्नपाक्षिकाणामभावे ये पूर्व संविग्ना गीतार्था असीरन् तेषां पश्चात्कृतानां पुनः प्रतिक्रान्ताभ्युत्थितानामन्तिकेगृह्णीयात् तेषामप्यभावे संयमयोगं प्रत्यम्युत्थितानां सिद्धपुत्राणामंतिके एषामप्यभावेऽन्यत्र तान् संयरुपकान् कृत्वा तेषामंतिके अन्यत्रागमने तत्रैव तान् तथारूपान् कृत्वा सागारिकाणामभावे तेषामन्तिकेऽधीते । एतदेवाह[भा. १५६६ ]
सगणे परगणे वा मनुन अन्नेसि वा वि असतीए । संविग्ग पक्खिएसुं सरुविसिद्धेसु पढमं तु ।।
वृ- स्वगणे गणधरपदानर्हगीतार्थानामन्तिके परगणे वा मनोज्ञे सांभोगिके तदभावे अन्येषां वा असांभोगिकानामन्तिके तेषामप्यसत्य भावे संविज्ञपाक्षिकेषु पार्श्वस्थादिषु प्रथममेव प्रतिक्रान्ताभ्युत्थितेषु तेषामप्यभावे सरुपिषु प्रतिक्रान्ताभ्युत्थितेषुपश्चात् कृतेषु तेषामप्यभावे प्रथममेव स्वरुपिषु सिद्धेषु सिद्धपुत्रेषु एतत्प्रतिक्रान्ताभ्युत्थितानधिकृत्योक्त, तद्भावेऽन्यत्र विधिमाह[भा. १५६७ ] मुंड व धरेमाणे सिहं च फेडत अनिच्छससिहेवि । लिंगेन मसागारिए वंदनगादीण हार्वेति ॥
वृ-ते पश्चात्कृतादयो यदिन प्रतिक्रान्ताभ्युत्थिताः किन्तु लिङ्गत्तो गृहस्था वर्तन्ते अन्यत्र गत्वा तान् मुण्डं वा धरमाणान् धार्यतः कारयति, यदि पुनः सशिखाकाः सन्ति, ततः शिखां स्फेटयति । अथ शिखास्फेटनं ते नेच्छन्ति ततः सशिखाकानपि स्थापयित्वा इत्वरं श्रमणलिङ्ग तेषां समर्पयन्ति व्याख्यानवेलायां च चौलपट्टकं मुखपोतिकां च ग्राहयन्ति । तेनापि तेषां तथाभूतानां पार्श्वे पठता यथा प्रतिरुपश्रुतविनयः प्रयोक्तव्यः । तेषुन वारणीयः । अथ ते अन्यत्र गमनं नेच्छन्ति तर्हि तत्रैवा सागारिके सागारिकसम्पातरहिते प्रदेशविशेषे लिङ्गेन रजोहरणमुखपोतिकादिना श्रमणरूपधारिणः कारयित्वा पठनीयम् । ते च तत्रापि तथा पठन्तो न वन्दनादीनि हापयन्ति ।।
[भा. १५६८ ] आहार उवहि सेज्जा एसणमादीसु होइ जइयव्वं । अनुमोयणकाराचण सिक्खत्ति पदंमि तो सुद्धो ।।
वृ-तेन तेषां समीपे पठता आहारोपधि शय्यानामेषणादिषु भवति यतितव्यं तदानुमोदनकारापणे च न च करणकारापणानुमोदनदोषैः स परिगृह्यते । यतः शिक्षा मयाऽस्य समीपे गृह्यते इति द्वितीये पदे वर्तते । ततः स शुद्ध इति । इयमत्र भावना यदि स पार्श्वस्थः पञ्चात्कृतादिः पाठयन्नात्मनः आहारोपध्यादिकमात्मनैवोत्पादयति ततः सुन्दरमथात्मना नोत्पादयति तत आह
[ भा. १५६९ ]
नोयइ से परिवारं अकरेमाणं भणति वा सद्धे ।
अव्वोच्छित्तिकरस्स हु सुयभत्तीए कुणह पुयं ।।
वृ- से तस्य परिवारं विनयमकुर्वन्तं नोदयति प्रज्ञापयति । यथा महदिदं ज्ञानपात्रमतः क्रियतामस्योत्कृष्टाहारसम्पादनेन विनय इति परिवारस्याभावे श्राद्धान्वा सिद्धपुत्रपुराणे तररूपान् भणति यथा अव्यवच्छित्तिकरस्यास्य श्रुतभक्त्या कुरुत पूजामिति एतेनानुमोदनकारापणे व्याख्याते । सम्प्रति स्वयमुत्पादनमाहारादीनां भावयति
[ भा. १५७० ]
दुविहा सती एतेसिं आहारादी करेति से सव्वं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org