________________
४३४
व्यवहार - छेदसूत्रम्-१-३/७४
उवहाणंपिय तेसिं अनुलोमुवसग्ग तुल्लं तु ॥
वृ- साधुर्विषीदन् तान् तथाभूतान् दृष्ट्वा स्थिरो भवति । आर्यिका अपि तेषु स्वचेतसि स्थिरा उपजायन्ते । गिलणत्ति ग्लानत्वे साधूनामौषधं सुलभंभवति । वैद्योऽपि तेषां प्रभावतोऽनुकूलां क्रियां करोति । यथा एतेराजादिपुत्राः, तेषांचामी शिष्या इति । तथा भिक्षा उपकरणमपि साधूनामतिसुलभं । ववहारोइत्थिया एते स्त्रिया अपहृतायास्तेषां भयतो व्यवहारो लभते । इयमत्र, भावना काचित् रुपवती कुमारश्रमणी के नापि राज्ञा गृहीता स्यात् ततस्तेषां गतानां भयेन सा मुच्यते इति वादे च तगौरवात्साधवोऽपिरभूता भवन्ति । अकिंचनकरेयत्ति योपि कश्चित्साधूनां प्रत्यनीकः सोऽपि तेषां राजादिकुमारप्रव्रजितानां भयतो न किंचित् करोति । अथवा अकिंचनानां साधूनां यदि कथमपि केनाप्यर्थजाने प्रयोजनमुपजायते तर्हितत्सर्वं लोकः प्रायोऽप्रार्थित एव करोति । तदेवमेते अनन्तरोदिता गुणास्तञ्जातानां राजादिजातीनां यतोऽतस्ते निरुद्धपर्यायाः प्रत्यागताः प्रव्राजिताः तद्दिवस एवाचार्यादिपदेषु स्थाप्यन्ते । अयं च गुणः कुटुम्बपरिवृद्धिर्गच्छपरिवृद्धिस्तथाहि यदि नामैते तथाभूतं राज्यादिकमपहाय धर्मं सनाचरन्ति । किं वयमपि तुच्छेषु भोगोपभोगेषु सजामः (इति) निष्क्रामन्ति ततो भवति गच्छस्य महती वृद्धिः । एतेषामवधावनमुत्प्रव्राजनं तदप्यनुलोमोपसर्गतुल्यं । किमुक्तं भवति ? यथा कस्यापि साधोः कश्चिदनुलोमान् उपसर्गान् प्रकृतवान् स चैवं चिन्तयति-यदि परमनेनोपायेनाहं मुच्ये, नान्यथा । तत एवं विचिन्त्याशठभावः परिसेवते स च तथाकृतपरिसेवनोऽप्यशठभाव इत्यखण्डचारित्र इति व्यवह्रियते । एवमेतेऽप्यखण्डचारित्रा एव तत्वतो मन्तव्याः ।
एतदेव नेशतो व्याख्यानयन्नाह-
[भा. १५५२] साहूणं अज्जाय विसीयमाणाण होति थिरकरणं । जइ एरिसावि धम्मं करेति अम्हं किमंग पुन ।।
वृ- साधूनामार्यिकाणां च विषीदतां स्थिरकरणं भवति । तथाहि केचित्साधवो भोगेषु विषीदन्तस्तान् दृष्ट्रा एवं चिन्तयन्ति यदि तावदीदृशा अपि विपुलराज्यादिका अमी देवकुमारिका प्रख्याभिरपि निजमहेलाभिरुपसर्यमाणा धर्मं कुर्वन्ते न पुनर्निजं ब्रह्मचर्य भ्रंशितवन्तो अत्र एव ते तद्दिवस एवाचार्यपदेषुस्थापिताः किमङ्गपुनरस्माभिः सुतरां धर्मे समाचरणीयं विभवादिपरिभ्रष्टत्वादिति । आर्यिका अपि चिन्तयति-यदि तावदीदृशाः खल्वस्माकं बान्धवाः सम्पन्नाः कथममंदपुन्नएतेषया । सुखमपि निरीक्ष्यन्ते न सीदन्ति । खल्वेतादृशधीरपुरुषगृहीता आर्यिकाः केवलमपरिभूताः सदा वर्तन्ते । [भा. १५५३ ] किं च भयं गोरव्वं बहुमाणं चेव तत्थ कुव्वंति । गेलणोसहिमाई सुलभ उवकरण भत्तादी ।
कुमारादिष्वाचार्यादिपदेषु स्थापितेषु लोको भयं गौरवं बहुमानं च कुर्वते ।
वृ- किं च तत्र तेषु राजा ग्लानत्वे च भवत्यौषधादिकं सुलभमुपकरणं भक्तादिच ।
[ भा. १५५४ ]
संजतिमादीगहणे ववहारे होइ दुप्पधंसोउ । तग्गोरख्या वादे हवंति अपराजिया एव ।।
वृ- संयत्यादीनामादिशद्वात् तथाविधक्षुल्लकादिपरिग्रहः ग्रहणे अपहारे भवत्यसौ राजकुमारादिदुः प्रधृष्यः तथा तद्गौरवात् वादे भवन्ति साधवोऽपराजिता एव ।
[ भा. १५५५ ] पडिनीय अकिंचकरा होति अवतव्यो अट्ट जाएय । तज्जायदिक्खिणं होई विवड्डीविय गणस्स ।।
वृ- प्रत्यनीकाः अकिञ्चित्करा भवन्ति । अर्थजातेच समुत्पन्ने कश्चिदपि वक्तव्यो न भवति । किन्तु सर्वेण प्रार्थित एव यथौचित्यं करोति तथा तेन तज्जातेन राजादिजातेन तद्दिवस एवाचार्यादि पदस्थापितेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org