________________
४२६
व्यवहार - छेदसूत्रम्-१-३/७३ तस्मै ददाति ततो गृह्णातिवा । तथा अन्नमन्नं संवासे इति सांभोगिकैः परस्परमेकत्र वसनं एतानि कुर्वाणः संग्रहकलः । पुनः कथंभूत इत्याह- संग्राहानुगता ये गुणां तेषां निधिरिव गुणनिधिस्तथा अनुकरणं नाम यत्सीवनलेपादि कुर्वन्तं दृष्ट्रा ब्रूते - इच्छाकारेण तवेदमहं करिष्यामि कुरुते च, कारापणं वा न यत्स्वयं करणे अकुशलानन्यानपीच्छाकारेण कारापयति तस्मिन् निसर्गः स्वभावो यस्य सोऽनुकरणकारापण निसर्गः इत्थंभूतस्तस्य स्वभावो यदि अनभ्यर्थित एवं करोति कारयति चेतिभावः ।
सम्प्रति कतिपयपदव्याख्यानार्थमाह
[भा. १५०४ ]
वयणे तु अभिग्गहियस्य केणती तस्स उत्तरं कुणति ।
जा जयाह किण्हं ते उ गुरम्मी वयणं देइ ।। वृ- वचने वचनविषये अभिग्गहिकस्य गृहीताभिग्रहप्रतिपत्तमौनव्रतस्येत्यर्थः । केनापि पश्चे कृते सति तस्योत्तरं यद्भणत्येष वचनसंग्रहकुशलः । पश्चार्धं सुगमम् । साहूणं अनुभास आयरिएणं तु भासिए संते । सारेयायरियाणं देसे काले गिलाणादी ।।
[ भा. १५०५ ]
वृ- अत्र साधूनामिति पदं पञ्चात् गाथायां सम्बध्यते । शेषं प्रागेव व्याख्यानार्थमाह[ भा. १५०६ ] दुक्खत्ते अनुकंपा अनुसासन भजमाणरक्खो वा । वाहुतकारी अनुसासण किञ्च्चमेयं ॥।
वृ- इयमपि व्याख्यानार्था । [ भा. १५०७ ]
पूयणमहागुरुणं अब्भंतरदोण्हमुल्लवेंताणं । तइयं कुणती वहिया वेई गुरूणं च तं इट्टो ||
वृ- पूजनं यथाक्रमं गुरुणामन्यतरकरणंयदभ्यंतरे द्वयीरुल्लपतोस्तृतीपमुपशुश्रूषंबहिः करोति । यदि वा तद्रच्छादिप्रयोजनं पृष्टः सन्नभ्यन्तरं गत्वा गुरुणां ब्रूते कथयति
[भा. १५०८ ]
संभुजण संभोगेण भुजाए जस्स कारणं भत्तं ।
तं घेत्तुमप्पणासे देइ एमेव उवहिं पि ।।
वृ- संभोजनं नाम यत्संभोगेन योजयति सांभोगिकैः सहकत्र भुङ्क्ते इति, तथा यद्यस्य कारकमुपकारकं भक्त तदात्मना गृहीत्वा तस्मै ददाति । एवमेवोपधिमपि उपधिरपियो यस्योपकारकस्तं स्वयमुत्पाद्य तस्मै ददाति । एतेन संभोगे भत्तौवहीति व्याख्यातं परस्परमेकत्र संवासः सुप्रतीतत्वान्न व्याख्यातः ।
[भा. १५०९] अनुकरणं सिव्वणलेवणादी अनुभासणा उदुम्मे हो । एरिसो तस्स निसणा, जं भणियं एरिस सहावो ||
वृ- अनुकरणं नाम सीवनलेपनादि स्वयं किञ्चित्कुर्वन्तं दृष्ट्रा इच्छाकारेणानुज्ञाप्य करोति । तथा दुर्भेधसि स्वयं सीवनलेपनादिकर्तुमनुजानाति स्वयं तावत् करोत्येव । किन्त्वन्यानपि भाषते । यथा कुरुतैतस्य महानुभागस्येत्येतत्करणंईदृशस्तस्यानुकरणे कारापणेच निसर्गः निसर्गः स्वभावः जंभणियंति किमुक्त भवतीत्यर्थः । ईदृशः स्वभावः उक्तः संग्रहकुशलः । उपग्रहकुशलमाहवालासहुउढेसुं संततवकिलंत वेयणातंके । सेज्जनिसेज्जावहिपाणमसणभेसज्जु वग्गहिए ।।
[ भा. १५१० ]
[भा. १५११]
दान दवावण कारावणे या तहा कयमनुनाए । उवहितमणुवहित विही जाणाति उवग्गहं एयं । ।
वृ- बालासहवृद्धेषु तथा प्रभूतमार्गगमनतः पवनो (ठतो) वा श्रान्तेषु तपः क्लान्तेषु तथा वेदनायां
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International