SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ३, मूलं :७३, [भा. १४८५] ४२३ इत्यर्थः । एष संयमकुशलः, कथंभूतः सन्नित्याह-गुणनिधिः संयमानुगता ये गुणास्तेषां निधिरिख तैः । परिपूर्ण इति भावः गुणनिधिः 1, तथा त्रिविधेन प्रकारेण मनोवाकायलक्षणेन सुविशुद्धो मनसाप्यसंयमानभिलाषान् भावेन च परिणामेन विशुद्ध इह लोकाद्याशंसादिप्रमुक्तत्वात त्रिकरणभावविशुद्धः ।अस्यैव गाथाद्वयस्य व्याख्यानार्थमाह[भा.१४८६] गिण्हइपडिलेहेडं, पमजियंतहयनिसिरएयावि। उवउत्तो एसणाएसेन्जनिसज्जोवहाहारे ।। [भा.१४८७] एएसुंसव्वेसुंजोन पढ्सए उसोसत्तिमं । झुंजइपसत्थेमेव उमणभासाकायजोगंतु ।। [भा.१४८८] सोइंदियाइयाणं निग्गणंचेव तहकसायाणं । पाणातियाइयाणंसंवरणंआसवाणंच ।। [भा.१४८९] झाणे अपसत्थ एयपसत्थज्झाणेयजोगमल्लीणो । . संजमकुसलो एसो, विसुद्धो तिविहकरणेण || वृ-गाथाचतुष्टयमपि गतार्थम् । नवरं उवउत्तो एसणाए इत्यादि उपयुक्त एषणायां किं विषयायामित्याह-शय्यानिषद्योपध्याहारे शय्या उपाश्रयः निषद्या पीठफलकादिरुपा, स्थानादिरुपनिषद्या व्याख्यानं तु प्रागेवोक्तं । उपधिः पात्रनिर्योगादिराहारोऽशनादिरूपः । एषां समाहारो द्वन्द्वस्तस्मिन् तद्विषयायामित्यर्थः । ज्झाणे अपसत्थेत्यादिध्यानं द्विधा-अप्रशस्तंप्रशस्तंच, 1 अप्रशस्तमार्तं रौद्र च, प्रशस्तंधर्मं शुक्लं च । तत्र प्रशस्तेध्याने धर्मशुक्लेरुपेचशब्दो भिन्नक्रमः प्रशस्तंयोगमालीनः सुविशुद्धो तिविहकरणेणंति उपलक्षणमेतत् । भावेनापि सविशुद्धः शेष सुगम उक्तः संयमकुशलः । प्रवचनकुशलमाह[भा.१४९०] सुत्तत्थहेटकारण वागरणसमिद्धचित्तसुयधारी । पोराण दुद्धरधरसुयरयणनिहाणभिवपुणो ।। [भा.१४९१] धारियगुणियसमीहिय निजवणा विउलवायणसमिद्धो । पवयणकुसलनिही पवयणहियनिग्गहसमत्थो ।। वृ-सूत्रार्थात्मकत्वात्यदिवासूत्रयुक्तोऽर्थोऽस्मिन्नतिसूत्रार्थः, नित्वक्षराधानारुढार्थमितिभावः । हेतुरन्वयव्यतिरेकात्मककारणमुपपत्तिमात्रंहेतुकारणेव्याक्रियतेप्रतिपाद्यतेअनेनेतिहेतुकारणव्याकरणं, समृद्धअनेकातिशयात्मकत्वात्चित्रमाश्चर्यभूतंअनन्तगमपर्यायात्मकत्वात् । एवंरुपंश्रुतंधारयतीत्येवं शीलःसूत्रार्थहेतुकारणव्याकरणसमृद्धचित्रश्रुतधारी,तथापोराणमिव पोराणांयादृशमतीताद्धायामासीत् तादृशमिदानीमप्यतिबहुलत्वेनेतिभावः,दुर्द्धरं नयभङ्गाकुलतयाप्राकृतजनैर्धारयितुमशक्यंधरतेऽर्थान् प्रक्चनमिति पौराणदुर्द्धरः । तथा श्रुतरत्नस्य निदानमिव पूर्णः प्रतिपूर्णोऽर्थनिर्णयप्रदानादिना, तथा धारितंसम्यग्धारणाविषयीकृतंन विनष्टमितिभावः, ।गुणितंच बहुशः परावर्तितं तथा सम्यक्ईहितं पूर्वापरसम्बन्धेन पूर्वापराव्याहतत्वेनेत्यर्थः, मीमांसितंसमीहितंएतानिप्रवचन विशेषणानि इत्थंभूतेन प्रवचनेन तथा तस्यैव प्रवचनस्य निर्यापणा मीमांसिततयानिर्दोषत्वेन निश्चयतयानिर्दोषत्वेन निश्चयनं तया विपुलविशोधनार्थं बहूनामाचार्याणां सकाशे ग्रहणात् वाचना विपुलावाचना तया च समृद्धो धारितगुणितसमीहितनिर्यापणाविपुलवाचनासमृद्धः । तथा प्रवचनपरिज्ञानुगतानां गुणानां निधिरिख Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy