SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ पीटिका - [भा. १०७] ४१ यस्याचार्यस्य मतेऽनवस्थितपरांचितयोरेक्याविवक्षणात्नवधा नवप्रकाश विशोधिः प्रायश्चित्तं, तस्य आद्यप्रायश्चित्तद्वयस्योपरियवर्तते प्रायश्चित्तंतत्क्षणामुपरितनानांबाह्यमेव तुशब्दस्य॑वकारार्थत्वात, ततः छण्हं ठाणाण बझंतु इति तदुभयं प्रायश्चित्तं प्रतिपत्तव्यमिति उक्तं तदुभयाहँ प्रायश्चित्तमिदानीं विवेकाहमाह । - [भा.१०८] कइजोगिण उगहियं सज्जासंधारभत्तपानं वा । अफासुएसणिजं नाउं, विवेगोउपच्छित्तं ।। वृ- कृतयोगी नाम गीलार्थः, कश्चगीतार्थ उच्यते वस्त्रपात्रपिंडशय्यषणाध्ययनानि छेदसूत्राणिच सूत्रतोऽर्थतः तदुभयतोवायेनसम्यगधीतानिसगीतार्थः, तेन कृतयोगिना श्रुतोपदेशानुसारिपरिणामपरिणतेन शय्या उपाश्रयः उपाश्रयग्रहणात् तृणडगलकमल्लकादिपरिग्रहस्तपामपिप्रायस्तत्रैव संभवात् संस्तारकः प्रतीतः,संस्तारकग्रहणंसकलौधिकोपग्रहिकोपलक्षणंभक्तमशनं, पानसौवीरादिवाशब्दात खादिय स्वादिमंवा गृहीतं पश्चात् कथमपि अप्रासुकमनेषणीयं वा ज्ञातं, तत्र प्रायश्चित्तं तस्य गृहीतस्य शय्यादेविवेकः परित्यागः उक्तंच -तंसेजाइयं विहिणा सुरवइठेणे विगिंचमाणो परिसुद्धी इति ।। भा.१०९) पउरणपाणगामे किंसाहुन वेति सावए पुच्छा नस्थि । वसहित्ति पकया ठिएसु अतिसेसियविवेगो ।। वृ-केचित्साधवः प्रचुरान्नपाने ग्रामे गतास्तत्रवसतिर्दुःप्रापा नीचिता लभ्यतेइति नस्थिताः ततः सावएपुच्छा इतिषष्ठिसप्तम्पोरर्थं प्रत्यभेदात्श्रावकस्य तथाभिनवदीक्षितस्यपाधै पृच्छा अभवत्यथा किमिति साधवो नात्र तिष्ठति सप्राह नास्त्यत्र वसतिरिति कृत्वा ततः साधुषु गतेषु श्रावकैः पर्यालोच्य वसतिः प्रकृता प्रकृष्टा कृता तस्यांच कृतायांकालांतरणतेवान्यवासाधवः समागतास्तत्रस्थिता स्थितेषु चकतिपयदिनातिक्रमे अतिशेषितंज्ञातं च सतिततः प्रायश्चित्तं विवेकः किमुक्तं भवति, ज्ञाते सति तां वसतिं परित्यजंतस्ते शुद्धा इति उपलक्षणमेतत्, तेन एतदपि द्रष्टव्यं ।। अशटभावेन गिरि राहु मेघ महिकारज:समावृते सवितरि उगतबुद्धया अनस्तमितबुध्ध्या वा गृहीतमशनादिकं पश्चात् ज्ञातमनुद्रते अस्तमिते वा सूर्ये गृहीतं तथा प्रथम पौरुष्यां गृहीत्वा चतुर्थामपि पौरुपी यावत् धृतमशनादि शठभावनाऽशटभावेन वा अर्द्धयोजनातिक्रमेण नीतमानीतं वाशनादितत्र विवेक एव प्रायश्चित्तमिति शठाशठयोश्चेदं लक्षणं इंद्रियविकथामायाक्रीडादि कुर्वन शठः ग्लानसागारिकस्थंडिलभवादिकारणतोऽशठ इति उक्तं विवेकार्ह प्रायश्चित्तं संप्रतिव्युत्सर्हिमाह -- [भा.११०) गमनागमनविवार सुत्ते वा सुमिणे दंसणे रातो । नावा नईसंतारेपायच्छित्तंवि उस्सयो ।। वृ- गमनमुपाश्रयात् गुरुमूलाद्वा बहिर्गमनं भूयः स्वीपाश्रये गुरुपादमूले वा बहिःप्रदेशात प्रत्यावन्त्रनमागमनं च गमनंचगमनागमनं समाहारो द्वंद्वः गमनपूर्वमागमनंगमनागमनं गमनं आगमनं च गमनागमने स्यादावसंख्येय इत्येकशेषः तयोस्तत्र यदा भक्ताद्यर्थमन्यस्मिन् ग्रामे गतः सन् विश्रमणनिमित्तमासितुकामोऽथवा यावन्नाद्यापि वेला च भवति तावत् प्रतीक्षितुकामा यदिवा प्रथमालिकां कर्तुकामो यदा शुन्यगृहादिषु प्रविशति तदैवमादिषु प्रयोजनेषु गमनमात्रंपि ऐपिथिको प्रतिक्रमणपुरस्सरं कायोत्सर्गः प्रायश्चित्तं, तदनंतर कार्यसमाप्ती भूयःस्वोपाश्रवप्रवेशे आगमनमात्रेकायोत्सर्गः, शेषेषुप्रयोजनेष्वपांतराल विश्रामणासंभव गमनागमनयोरिति वियारे इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy