________________
व्यवहार - छंदसूत्रम्-१
अमुकेषु शब्देषु रागद्वेषं वा गत इति तत्र तपोर्हं प्रायश्चित्तं अर्थवं निश्चयो न गतो रागद्वेषं वा तत्र स शुद्ध एव न प्रायश्चित्तविषयः, ततीवितर्के यथोक्तलक्षणे तदुभयमेव प्रायश्चित्तमिति । एवमेव सेसएव विसए आसेविऊणजे पच्छाः ।
[ भा. १०४ ]
४०
काऊणएगपक्वे न तरइ तहियं तदुभयं तु ।।
वृ एवमेव उक्तेनैव प्रकारेण यान् रुपादीन् विषयान् आसेव्योपभुज्य उपलक्षणमेतत् प्राणातिपातादीनप्यासेव्य पञ्चात् एकतरस्मिन् पक्षे अपराधलक्षणे निर्दोषता लक्षणे वा कर्तुं न शक्नोति, यथा रूपादिषु विषयेषु रागद्वेषं वा गतः प्राणातिपातादयो वा कृता इति यदि वा न गतो रागद्वेषौ, नापि कृताः प्राणातिपातादय इति तत्र तदुभयं च तदुभवमेव तु शब्दस्यैवकार्थत्वात् यथोक्तलक्षणं प्रायश्चित्तं शंकास्पदत्वात् तदेवं शंकिते इति व्याख्यातं, संप्रति सहसाकारे इत्यादि व्याचिरख्यासुराह - [ भा. १०५ ] उपयोगवती सहसा, भएण वा पेल्लिए कुलिंगादि । अच्चाउरावतीसुय अनेसियादिगहणभोगा ||
बू-उपयोगवतोपि ईर्ष्यासमितौ सम्यगुपयुक्तस्थापि उच्चालिते पादेकथमपि सहसायोगतः समापतितः सन् कुलिंगी व्यापद्यते भयेन वा चौरसिंहादीनां भृशं प्रपलायमाने भवग्रहणमुपलक्षणं तेन एतदपि द्रष्टव्यं परेण वा पेल्लिए इति परेण प्रेरितो वा तद्व्यापारमासाद्य कुलिंगी उपलक्षणमेतत् पृथिव्यादिजीवनिकायो वा व्यापत्तिमाप्नुयात् तथा अत्यातुरे क्षुधापिपासया वा अत्यंतपीडिते तथा आपत्सु द्रव्यापदादिषु यदि अनेषितादिग्रहणे भोगौ भवतः अनेषितमनेषणीयमादिशब्दादकल्पनीयस्य परिग्रहः, न केवलमनेषितादिग्रहणभोगौ किंतुगमनागमनादौ पृथिव्यादिजंतुविराधनापि भवति तथापितत्र प्रायश्चित्तं यथोक्तलक्षणं तदुभयमिति वर्त्तते सहसाकारादिविषयत्वात् संप्रति महव्वयाइयारे य इत्येतद्व्याख्यानयन्नाह -
[भा. १०६ ]
सहसाकारे अइक्कमवइकमे चैव तह अइयारे । होइ व सद्दग्गहणापच्छित्तं तदुभयं तिसुवि ।। अतियारुवया वा, एगयरे तत्थहोइ आसंका । नवा जस्स विसाही तस्सुवरिं छण्हं बज्झं तु ।।
[भा. १०७ ]
वृ- सहसाकारतः सहसाकारतोतिक्रमे व्यतिक्रमे अतिचारे च प्राग् व्यावर्णितस्वरूपे महाव्रतविषये इति सामर्थ्यात् गम्यते महव्वयाइयारे व इति पदस्य व्याख्यायमानात्वात् एतेषु त्रिष्वपि दोषेषु तदुभयमुक्तस्वरूपं प्रायश्चित्तमिति योगः, अथ मूलगाथायां महाव्रतातीचारे चेत्येवोक्तं ततः कथमत्र विवृतं अतिक्रमेव्यतिक्रमं वेति ? अत आह, चशब्दग्रहणात् किमुक्तं भवति ? चशब्दग्रहणतः मूलगाथायामतिक्रमव्यतिक्रमयोरपि समुच्चयः कृत इत्यदोषः, अथवा अतिचारस्य पर्वतग्रहणादतिक्रमव्यतिक्रमयोरपि उपयोग स्फुटबुद्धयाकरणे तदुभयं प्रायश्चित्तमिति योगः, वाशब्दो भिन्नक्रमत्वादेगयरे इत्यत्र योजनीयः ततोऽयमर्थ एकतरस्मिन् वा तत्र अतिक्रमे व्यतिक्रमं व्यतिक्रमे अतिचारे वा यदि भवत्याशंका यथा मयातिक्रमः कृती न वा व्यतिक्रमो कृतो न वा अतिचारः कृतो नवेति तत्रापि तदुभयं प्रायश्चित्तं इह सहसाकाराशंके संकिए सहसागारे पदद्वयेनापि गते, केवलं महाव्रतानामतिक्रममादिष्वित्याशंकायां सहसाकारे चैतदेव प्रायश्चित्तं नान्यत् परिकल्पनीयमिति भाष्यकृता सहसाकाराशंके अपि योजित, छण्ह ठाणाण बज्झं तु इति व्याख्यानयन्नाह नवहेत्यादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org