________________
पीठिका - [भा. ९९]
३९
तथाहि ईर्यासमितावुपयुक्तोप्युच्चालिते पादे सहसा समापतितं कुलिंगिनमपि व्यापादयेत् मृषापि कदाचित्सहसा भाषतेऽग्रहमपिकदाचिद्राभसिकतया अननुज्ञातमपिपरिभोगयति अत्युल्बणमबलारूपमक्लोक्य कदाचनिपि सहसारागमुपैति इत्यादि, तथा भयात्प्रपलायमानो भू जल ज्वलन वनस्पतिद्वित्रिचतुः पंचेद्रियानपि व्यापादयेन् मृषापि भयाद् भाषते, परिग्रहमपि धर्मोपकरणबाह्यस्य करोति, आतुरतायामपि सम्यगीर्यापशाशोधने संभवति प्राणातिपातः, अत्यातुरतायां कदाचिन् मृषाभाषणमपि अदत्तादानमपि च एवमापत्स्वपि भावनीयं यथा महाव्रतानां प्राणातिपातनिवृत्त्यादीनां सहसाकारः स्फुटबुद्धयाकारणतो वा अतिचारे चशब्दादतिक्रमव्यतिक्रमयोश्च तथाऽतिक्रमादीनां महावृतविषयाणामन्यतमस्याशंकायां वा किमित्याह छण्हठाणाणबज्झतोइति इह केषांचित् अनवस्थितपारांचितेप्रायश्चिते द्वे अपि कं प्रायश्चित्तमिति प्रतिपत्तिः तन्मतेन नवधा प्रायश्चित्तं, तत्रचाद्ये द्वे प्रायश्चिते मुकत्वा शेषाणि सप्त प्रायश्चित्तानि तेषां च सप्तानां प्रायश्चित्तानां यदाद्यं प्रायश्चित्तं तत् उपरितनानां षण्णां बाह्ये नाभ्यंतरमिति, पण्णां स्थानानां बाह्यतः इति वचसा तदेव प्रतिपत्तव्यं, यश्च तदुभयं तच्चेवं भावनीयं, शंकितादिषु यथोक्तस्वरुपेषु सत्सु प्रथमं गुरुणां पुरत आलोचनं, तदनंतरं गुरुसमादेशेन मिथ्यादुःकृतदानमिति तत्र यदुक्तं संकिए इति तत् विवृण्वन्नाह -
( भा. १०० |
हित्थोव न हित्थोमे, सत्तो भणियं व नभणियं मोसं ।
[ भा. १०१ ]
उम्हनुणमणुन्ना, तइए फासे चउत्थम्मि ॥ इंदिरागद्दीसाउ, पंचमे किं गतोमि न गतोत्ति । छट्टेलेवाडाइ, धोयम धोयं न वा वेत्ति ॥
वृ. सत्त्वः प्राणी हित्थोत्ति देशीपदमेतत् हिसितो मे मया न वा हिंसित इति, तथा भणितं यदि वा न भणितं तथा तृतीये अदत्तादान विरति लक्षणे अवग्रहो ऽनुज्ञा न कारिता, तथा चतुर्थे मैथुनविरति लक्षणे, जिनभवनादिषु स्नानादि दर्शन प्रयोजनतो गतः सन् फासे इति स्त्री स्पर्शरागं गतो न वा, तथा पंचमे परिग्रह विरमणलक्षणे इन्द्रियेषु विषयिणा विषयोषलक्षणादिन्द्रिय विषयेषु इष्टानिष्टेषु रागद्वेषौ गतीस्मि किंवा न गत इति, तथा पष्ठेरात्रिभोजन विरमणेलेपकृदादितक्राद्यवयवरूपं कथमपि यात्रादि गतं पर्युषितं भिक्षाटनार्थमुद्यतेन धौतमथवा न धौतं मयेति यद्यैवं ततः किमित्याह
[ भा. १०२ ]
इंदिय अव्यागडिया जे अत्था अनुवधारिया । तदुभयपायच्छित्तं पडिवज्जइ भावतो ॥
बृ. उक्तेन प्रकारेण य अर्थः प्राणातिपातादयः इन्द्रियैश्चक्षुरादिभिव्याकृता अप्रकटीभूताः प्रकटीकृता अपि ये अनुपधारिता न सम्यक् धारणा विषयी कृतास्तेषु प्रायत्तिं प्रतिपद्यते भावतः सम्यक् अपुनरावतनेन तदुभयमिति तच्च तद् उभयं च पूर्वं गुरुणां पुरत आलोचना तदनंतरं तदादेशतो मिध्यादुःकृतदानमित्येवं रूपं तदुभयं एतदेव सविस्तरमभिधित्सुराह
-
[ भा. १०३ | सद्दा सुया बहुविहा तत्थय केसु विगतोमि रागतिः ।
अमुगत्थ मेवितक्का, पडिवज्जइ तदुभयं तत्था ।।
वृ-शब्दामया बहुविधा बहुप्रकाराः श्रुताः श्रवणविषयीकृतास्तत्र तेषु बहुविधेषु शब्देषु श्रुतेषु मध्ये वितर्कति एवं मे वितर्क संदेही यथा केचिदपि अमुगत्थति अमुकेषु रागमुपलक्षणमेतत द्वेपं वा गतोस्मि तत्र तस्मिन् शंकाविषये तदुभयमुक्तलक्षणप्रायश्चित्तं भावतः प्रतिपद्यते, यदि हि निश्चितं भवति यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org