SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ २८ व्यवहार - छदसूत्रम्-१. परमकरुणापरितचेतसस्ततस्त एव युक्तमयुक्तं वा जानंति किमत्र शिष्यस्य चिंतयेति शिष्येण सर्वत्रानुलोमविनयमिच्छता ईदृशमपि गुरुवचनं तथेति प्रतिपत्तव्यमिति, संप्रति गुत्तिसुय समिईसुय इत्यादिगाथायां यदुक्तंपसत्थेय इतितत्र प्रशस्तग्रहणव्यवच्छेद्यं दर्शयति - [भा.९६] तत्थ उपसत्थगहण परिपिट्टणछेज्जमाइवारेइ, । उसनगिहत्थाण, यउट्ठाईय पुव्वुत्ता ।। वृ-जोगेतहा पसत्थेय इत्यत्र यत्प्रशस्तग्रहणं कृतं तत् अप्रशस्तयोगं परिपिट्टनछेदादिकं वारयति निराकरोति, न तदकरणे प्रतिक्रमणं प्रायश्चित्तं भवतीति भावः, तस्याप्रशस्तत्वेन तत् करणस्यैव प्रायश्चित्तविषयत्वात्, तथा अवसन्नानामुपलक्षणमेतत्पार्श्वस्थकुशीलानांच तथा गृहस्थानांपूर्वोक्ता उत्थानादयोऽभ्युत्थानजल्पासनप्रदानादयस्तानपिवारयति, तेषामपितान् प्रतिअप्रशस्तत्वात्, अत्रैव प्रायश्चित्तयोजनामाह ।। [भा.९७] जोजत्थ उकरणिजो, उहाणाइंउ अकरणेतस्स । होइ पडिक्कमियव्वं एमेवयवाएमानसिए ।। वृ-यो योग उत्थानादिरभ्युत्थानांजलिप्रदानादिको यत्र आचार्यादिविषये करणीय उक्तस्तस्य तत्राकरणे प्रतिक्रमितव्यं भवति, मिथ्यादुःकृतं प्रायश्चित्तं भवतीति भावः, तदेव तत् कायिकप्रतिरुपयोगविपये उक्तमेव अनेनैवप्रकारेणवाचिकेमानसिकेपियोगे प्रतिरुपेवक्तव्यं,यथा वाचिको मानसिकोपि यः प्रतियोगरुपयोगो यत्र करणीय उक्तस्तस्य तथा तत्राकरणे मिथ्यादुःकृतं प्रायश्चित्तमिति, चशब्दोऽनुक्तसमुच्चयार्थस्तेन इच्छामिथ्यादिप्रशस्तयोगाकरणेपिमिथ्यादुःकृतंद्रष्टव्यं, संप्रति यत्मूलगाथायामतिक्कमे अनाभोगे इत्युपन्यस्तं, तद्व्याख्यानयन्नाह ।। [भा.९८] अवराहे अतिक्कमणे वइक्कमेचेव तहअनाभोगे। भयमाणे उ अकिच्चं, पायच्छित्तं पडिक्कमणं ।। वृ- अपराधे उत्तरगुणप्रतिसेवनरुपे अतिक्रमणे तथा व्यतिक्रमे च तथाऽनाभांगतोऽकृत्यमपि मूलोत्तरगुण प्रतिसेवनालक्षणं भजमाने प्रतिक्रमणं मिथ्यादुष्कुतं प्रायश्चित्तं तदेवमुक्तं प्रतिक्रमणार्ह प्रायश्चित्तमिदानीं तदुभयारीमभिधातुकाम आह । [भा.९९] संकिए सहसागारेभयाउरे आवतीसुयः । महव्वयातिचारे य, छण्हं ठाणाणबझंतो ।। वृ-शंकितः प्राणातिपातोदौ यथा मया प्राणातिपातः कृतः किंवा न कृतस्तथा मृषा भणितं नवा, अवग्रहोऽनुज्ञापितो नवा, स्नानादिदर्शननिमित्तं जिनभवनादिगतस्य स्त्रीस्पर्शे रागगमनमभून्नवा, इष्टानिष्टेषु शब्दादिषु रागद्वेषौ गौ नवा तक्रादिलेपकृदवयवाः कथमपि पात्रगताः पर्युषिता भिक्षार्थमटितुकामेनधौताः किंवानधौताइत्यादितत्रपन्नांस्थानानांबाह्यंतदुभयलक्षणंप्रायश्चितमिति योगः, तथा उपयोगवतोपि सहसाकारे सहसा प्राणातिपादिकरणे तथा भये दुष्टम्लेच्छादिसमुत्थे यदिवा हस्त्यागमने मेघोदकनिपातस्पर्शने दीपादिस्पर्शनेन वा आकुलतया प्राणातिपातादिकरणे तथा आतुरः क्षुधापिपासयावा पीडितः भावप्रधानश्चायं निर्देशस्ततोयमर्थः आतुरतायां तथा आपत्चतुर्दा तद्यथा द्रव्यापत् क्षेत्रापत् कालापत्, भावापत्: तत्र द्रव्यापत् दुर्लभं प्रायोग्यं द्रव्यं, क्षेत्रापच्छिन्नमंडपादि कालापत् दुर्भिक्षादि, भावापत् गाढग्लानत्वादि एतासुस हिंसादोषमापद्यमानस्यापि अनात्मवशगस्य For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy