________________
४१६
व्यवहार - छेदसूत्रम् - १-३/६६
वृ- योदेशदर्शनं कृत्वा समागतः सन् ब्रूते युष्माभिर्दत्ताः साधवः परिवारतया ते सर्वे युष्माकं शिष्याः पथि कालगताः प्रतिभग्नावा, इमे पुनः सर्वे मम शिष्या एते स्थविरादयोऽनहस्तेिषां पुनरनर्हाणामाचार्यसमीपगतानां ये तैः प्रव्राजिताः शिष्यास्तानाचार्य इच्छापयति वा न वा गुरुणामत्रेच्छा प्रमाणं । । [ भा. १४५९ ] एसा गीते मेरा इमाउ अपरिग्गहाउ अगीयाणं । गीयत्थपमादी णव अपरिगह संजतीणंच ।।
बृ- एषा अनन्तरोदिता मर्यादा योग्यस्य गीतार्थता आचार्यस्तस्मिन् गीते गीतार्थे द्रष्टव्या, इयं पुनरपरिग्रहाणामगीतानां तथा गीतार्थप्रमादिनामपरिग्रहसंयतीनां च इयमत्र भावना - येषामाचार्योऽप्यगीतार्थस्ते अपरिग्रहा यद्यपि नाम तेषामाचार्यपरिग्राहकस्तथापि सोऽगीतार्थ इति तत्वतः सूत्रनीत्या ते अपरिग्रहा एव, तेषां मध्यात्कोऽप्येकोऽन्यं संविग्नं गच्छमुपसम्पन्नं एष एकः अन्यो अवषन्ना गीतार्थानां गच्छस्तेषां मध्यादेकः कश्चिदन्यं संविग्नं गच्छ्माश्रितवान् एष द्वितीयः । तथा अन्याः काश्चन संयत्यस्तासामाचार्यो नास्ति, कालकरालपिशाचेन कवलितत्वात् केवलं ताभिरेकः क्षुल्लकः परिब्राजित आसीत् । (सो?) कोऽन्यं संविग्नं गच्छमुपसम्पन्नः एते त्रयोऽपि पूर्वगता कालिकगते वा श्रुते सूत्रार्थतदुभयैः परिपूर्णा जातास्तेषामागतानां यावदा भवति, तावद्वक्तव्यमिति । एतदेवाह[ भा. १४६० ] गीयत्थमगीयत्थे, अज्जाणं खुड्डए य अन्नेसिं । आयरियाण सगासे, अमुयत्तेणं तु निम्माया ।।
वृ- गीतार्थो योऽवसन्नगीतार्थः गच्छाद्विनिर्गतोऽगीतार्थो योऽपरिग्रहगीतार्थगच्छान्निर्गतः आर्यिकाभिः प्रव्राजितः आर्यिकाणां क्षुल्लक एते त्र्योऽप्यन्येषामाचार्याणां सकाशे अमायित्वेन कदाचनापि आचार्यसमीपममुञ्चतो निर्माताः । सूत्रार्थतदुभयज्ञा जाताः । एतदेव स्पष्टतरमाहसीस पडिच्छो होउं, पुव्वगए कालिए य निम्मातो ।
[भा. १४६१]
तस्सागयस्स स गणं किं आभव्वं इमं सुणसु ।।
वृ-गीतार्थोऽगीतार्थ आर्यिका क्षुल्लको चान्येपामाचार्याणां समीपे प्रतीच्छक रुपकः शिष्यो भूत्वा पूर्वगते कालिके वा श्रुते निर्मातस्तस्य स्वगणस्य गतस्य किमाभाव्यं सूरिराह- इदं च वक्ष्यमाणं शृणु तदेवाह -
[भा. १४६२ ]
सीसो सीसो सीसो, चउत्थंपि पुरिसंतरं लहइ ।
विलभति तिणी, पुरिसजुगं सत्तहा होइ ।।
वृ- शिष्यः स्वदीक्षितः तस्यापि शिष्यो यः पौत्रकल्पस्तस्यापि शिष्यः प्रपौत्रकल्प रूपं एवं सन्तानत्रयात्मकंचतुर्थमपि पुरुषान्तरः पुरुषयुगंलभते । चतुर्थग्रहणादन्येऽपि त्रयः सूचितास्ताने वाहट्ठावि लहइ तिणी इत्यधस्तात्त्रीणि पुरुषयुगानि लभते । अपिशब्दादुपर्यपि त्रीणि । इयमत्र भावनाआत्मीयमाचार्यं वर्जयित्वा यस्तस्य परिवारस्तं सर्वं लभते इदमेकं पुरुषयुगं ? पितामहंवर्जयित्वा पितामह परिवारं सर्वं लभते इति द्वितीयं पुरुषयुगं प्रपितामहपरिवारं सर्वं लभते इति तृतीयपुरुषयुगं ३ । एतानि त्रीण्युपरितनानि । साम्प्रतमधस्तनानि त्रीणि भाव्यन्ते । गुरुभ्रातृप्रव्राजितं समस्तं परिवारं लभते इत्येवं पुरुषयुगं, भ्रातृव्य प्रब्राजितमपि सर्वं लभते परिवारमिति द्वितीयं पुरुषयुगं, भ्रातृप्रव्राजितैरपि प्रब्राजितान् समस्तान् लभते इति तृतीयं पुरुषयुगं । तदेवमधस्तनानि त्रीणि पुरुषयुगानि त्रीण्युपरितनानीति मिलितानि षट् जातानि । तथा आत्मना ये प्रव्राजिताः पुत्रस्थानीया ये च तैः प्रव्राजिताः पौत्रस्थानीया
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International