________________
४०७.
उद्देशकः ३, मूलं : ६६, [भा. १४११]
वृ-योऽसौ चोयग अप्पभु इत्यादिना ग्रन्थेन अप्रभुः पूर्व भणितः स तत्रापि विशेषतः एवोक्तः । इह अस्मिन् प्रस्तावेप्रभुः सूत्रेऽर्थे च विशेष्यते।सूत्रतोऽर्थतश्चतस्याप्रभुत्वं नित्यतेइतिभावस्तदेवाह[भा.१४१२] अबहुस्सुए अगीयत्थे, दिलंता सप्पसीसवेज्जसुए।
अत्थविहूणो धरते, मासा चत्तारिभारीया ।। वृ- अबहुश्रुता गीतार्थपदाभ्यां भङ्ग चतुष्टयं । तद्यथा-अबहुश्रुतो अगीतार्थ इति प्रथमो भङ्गः १, अबहुश्रुतो गीतार्थः २, बहुश्रुतोऽगीतार्थः ३ बहुश्रुतोगीतार्थः ४ |तत्रयस्य निशीथादिकं सूत्रतोऽर्थतो वा नगतंप्रथमभङ्गः । यस्य पुनर्निशीथादिगतौ सूत्रार्थी विस्मृतीस द्वितीयभङ्गः, ।पुनरेकादशाङ्गधारी अश्रुतार्थः स तृतीयभङ्गः३सकलकालो चितसूत्रापितश्चतुर्थः । अत्रबहुश्रुते अगीतार्थेवा एतेनाद्य भङ्गत्रयमुपात्तं तस्मिन्गणंधारयति । दृष्टान्तौसर्पशीर्षकंवैद्यसुतश्च । इयमत्रभावना-आद्यानांत्रयाणां भङ्गानामन्यतरो यदि गणं धारयति ततः स सहगणेन विनश्यति यथा सर्पशीर्षकं वैद्यसुतो वा एतत् दृष्टान्तद्वयं यथा कल्पाध्ययने तथा भावनीयम् । अत्थविहणेत्यादि अर्थविहीने अगीतार्थ इत्यर्थः । अर्थग्रहणमुपलक्षणं ते इत्यपि द्रष्टव्यं तस्मिन् अर्थविहीन सूत्रविहीने या गणं धारयति उपलक्षणमेतत् निसृजतिवाप्रायश्चित्तं चत्वारो भारिया इतिगुरुकामासाः ।। [भा.१४१३] अबहुस्सुते अगीयत्थेनिसिरएवा विधारए वागणं ।
तद्देवसियंतस्स उमासा चत्तारिभारिया ।। वृ-अबहुश्रुतोऽगीतार्थोवायदिगणंनिसृजतिधास्थतिवास्वयं किमुक्तंभवति ।आद्यानां त्रयाणां भङ्गानामन्यतरोयदिगणंगीतार्थस्य वा निसृजति स्वयं चाद्यानां त्रयाणां भङ्गानामेकतरः सन् यदि गणं धारयति । एकं द्वौ वा दिवसावुत्कर्षतः सप्तरात्रिं दिवानि ततस्तदैवसिकस्तेषां सप्तानां दिवसानां निमित्तत्त्वतस्तस्य गणंनिस्रष्टुर्धारयतिस प्रायश्चित्तं चत्वारो मासा गुरुकाः।। [भा.१४१४] सतरतंतवो होही ततोच्छेदोपधावती ।
च्छेदेन छिनपरियाएततो मूलं ततोदुगं ।। वृ- अन्यदन्यतः सप्तरात्रिं यावद्गणस्य निसर्जने धारणे वा प्रायश्चित्तं तपो भवति । तपः प्रायश्चित्तपरिसमाप्त्यनन्तरं तपः क्रमेण च्छेदः प्रधावति च्छेदेन चेन्न च्छिन्नः पर्यायो भवति । ततोऽच्छिन्नपर्याये तस्मिन् मूलं दीयते, । ततोऽप्यतिक्रमे अन्तिमं द्विकमनवस्थाप्य पाराञ्चितलक्षणं । इयमत्रभावना-प्रथमसप्तदिवसानान्तरमन्यानिचेत्सप्तदिनानिगणं निसृजतिधारयति वा स्वयं ततः प्रायश्चित्तं षट् लघु । ततोऽप्यन्यानिसप्तदिनानि ततः षट्गुरु, तदनन्तरमप्यन्यानि चेत्सप्तदिनानि । ततश्चतुर्गुरुकाःच्छेदः । ततोऽप्यन्यसप्तदिनानिततश्चतुर्गुरुकाःच्छेदः । ततोऽप्यन्यसप्तदिवसातिक्रमे षट्लधुकः च्छेदः । तदनन्तरमप्यन्यसप्तदिवसातिवाहनेषट्गुरुकच्छेदः । एतावताकालेन यदिपर्यायो नछिनति । अतस्त्रिंचत्वारिंशत्तमे दिवसे गणं धारयतो निसृष्टुर्वा प्रायश्चित्तं मूलं, चतुश्चत्वारिंशत्तमे दिवसे अनवस्थाप्यं पञ्चचत्वारिंशत्तमेपाराञ्चितंतदेवंयतइत्थं प्रायश्चित्तं ततोनिवर्तते आद्यानां त्रयाणां भङ्गानामेकतरः स्थापयितुं, कः पुनर्गणधरः स्थापयितव्यः इति चेदुच्यतेशुद्धः ।
अथ कोऽसौशुद्ध इतिशुद्धलक्षणमाह[भा.१४१५] जो सोचउत्थभंगो दव्वेभावे यहोइसंच्छन्नो ।
गणधारणमि अरिहो सोसुद्धो होइनायव्यो ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org