________________
व्यवहार - छेदसूत्रम् - १- ३ / ६६
वृ-योऽसौ चतुर्थभंगवतीं । कोऽसावित्याह- द्रव्ये भावे चयो भवति संच्छन्नद्रव्यः परिच्छदविशेषैश्च परिकलित इति भावः । तथा आचार्यलक्षणोपेततया यो गणधरणे योग्यः सशुद्धो भवति ज्ञातव्यः । स च परीक्षया ज्ञातुं शक्यते इति तत्परीक्षामाह[ भा. १४१६ ]
४०८
सुद्धस्स य पारिच्छा खुड्य धेरै य तरुणवग्गूडे । दोमादि मंडलीए सुद्धमसुद्धे ततो पुच्छ ।।
वृ- शुद्धस्य परीक्षा कर्तव्या । कस्मिन् विषये इत्यत आह- क्षुल्लके स्थविरे तरुणे खग्गूडः स्वभावाद्वक्राचारः । तस्मिंस्तथा द्वयोरादिमण्डल्योः एताभिः परीक्षाभिर्यदि निर्वटितस्ततः शुद्ध इतरस्त्यशुद्धः शुद्धस्य च गणधरपदानुज्ञा कर्तव्या । नाशुद्धस्य ततः शुद्धाशुद्धप्रतिपादनानन्तरं चोदकपृच्छा उपलक्षणमेतदाचार्यस्य प्रतिवचनं वक्तव्यं । एष द्वारगाथासंक्षेपार्थः । साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतः क्षुल्लकविषयां परीक्षाविधिमाह
[भा. १४१७ ]
उच्चफलो अह खुड्डो सउणिच्छावोपवासिउं दुक्खं । पुट्ठो विहोहिति न वा पलिमंधी सावंतस्स ।।
वृ- तस्य द्रव्यभावपरिच्छदोपेतस्य गणधरपदयोग्यता परीक्षणाय प्रथमतः क्षुल्लको दीयते । एनं द्विविधामपि शिक्षां त्वं ग्राहय, ततः स एव मुक्तः सन् यदि चिन्तयति यथा अहत्ति एषक्षुल्लकः उच्च चिरकालभाविफलं यस्मात्स उच्चफलचिरकालेनोपकारी तावता कालेन किमपि भविष्यतीति को वेद, ततः क एनं शिक्षां ग्राहयिष्यति । यदिवा शकुनिशावशिवावत् पोषयितु दुःखं महता कष्टेनैष पोष्यते । पुनः पुनर्बुभुक्षाभावादिति भावः । अपिच पुष्टोऽपि सन्नेष मम भविष्यति न वा को जानाति अन्यञ्च्चामुं धारयतः सारामस्य कुर्वती मम सूत्रस्य च महान् पलिमन्थो व्याघातस्ततो नैतस्य मे शिक्षयायोजनमेवं चिन्तयन् यो न ग्राहयति सोऽनर्हस्तद्विपरीतोऽर्हस्ततो यः स्थविर एष प्रवचनोपग्रहकरो भविष्यति दृढदेहो वा यथा आर्यरक्षितपितेति कारणतो दीक्षितस्तिष्ठति । शैक्षस्तस्य समर्प्यते । एवं द्विविधामपि शिक्षां ग्राहयति तस्मिंस्तत्समर्पिते यदि स इदं चिन्तयति ।
[ भा. १४१८ ] पुठी वा समरिसतिदुराणुवृत्ती न वेत्थ पडियारो । सुत्तत्थे परिहाणी थेरे बहुयं निरत्थं तु ।।
वृ- एष प्रथमालिकादिदापनतः शिक्षाग्रहणतश्च पुष्टीकृतोऽप्यासु शीघ्रंमरिष्यति । वाशब्दश्चिन्तान्तर समुच्चये । यदि वा वृद्धः स्वभावात् दुरनुवर्त्य दुःखेनानुवर्त्यते न वा अत्र वृद्धशिक्षापनेकश्चित्प्रतीकारः । किमुक्तं भवति ? नास्मात् वृद्धात् कश्चित्प्रत्युपकारः । अथवा वृद्धो वृद्धत्वादेव जडप्रज्ञश्च ततोऽस्य शिक्षणे मम सूत्रार्थपरिहाणिस्तदेवं स्थविरशिक्षां ग्राह्यमाणे बहुकं निरर्थकमिति य एवं चिन्तयित्वा योन शिक्षां ग्राहयति सोऽनर्हः तद्विपरीतोऽर्ह इति । तदनन्तरं योऽसौ तरुणो मेधावी तं समर्प्य भण्यते यथा एष मण्डलिपरिपाट्या आलापकेदीयमानेसीदति । ततस्त्वमेवमप्याक्षेपेण पाठ्य, ततः स इदं चिन्तयति[ भा. १४१९] अहियं पुच्छति गिण्हए बहुं किं गुणो मरेगेण । होहितिय विवर्द्धतो एसो ममं पडिसवत्ती ||
वृ- एष मेधावित्वादधिकं प्रच्छत्यवगृह्णाति वा वधारयति बहु प्रभूतं तत इत्थमस्यैव सूत्रस्यार्थस्य चरकेण प्रदानत आक्षणिकयोः को गुणो मम निरर्थकं कश्चिदित्यर्थः । केवलं दोषो निजसूत्रार्थपरिगलनादन्यच्च एष हु निश्चितं विवर्धमानः । सूत्रतोऽर्थतश्च वृद्धिं गच्छन् मम प्रति सपत्नी च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org