________________
३९०
व्यवहार - छेदसूत्रम् - १-२ / ६५ मू. (६५) परिहारकप्पट्ठिए भिक्खु थेराणं पडिमाहेणं बहिया थेराणं वेयावडियाए गच्छेज़्जा धराय वदेज्जा पडिग्गहे हि अज्जो ! अत्थ तुमं पि एत्थ भांयसि वा पाहसि वा एवं से कप्पइ पडिगाहित्तए, तत्थ नो कम्पइ पारिहारिएणं अपारिहारियस्स पडिम्पहंसि असनं वा पानं वा खाइमं वा साइमं वा भावएवा पायएवा, कप्पड़ से सर्वसि पडिग्गहंसि सयंसि वा पलासगंसि वा सयंसि वा कमदगंसि सयंसि वा खुव्वगंसिवा पाणिसि उद्धटुंउद्धवं भोयए वा पायए वा एस कप्पेपारिहारियरस अपारिहारिय आंत्तियेमि ।।
वृ- द्वितीयसूत्रसंक्षेपार्थस्त्वयम् - परिहारकल्पस्थितो भिक्षुः स्थविराणां पतद्भहेण वसतेर्बहिः स्थविराणां वैयावृत्याय भिक्षानयनायेत्यर्थः । गच्छेत् स्थविराश्च तं तथा गच्छन्तं दृष्ट्रा नूनं सर्वगृहेषु भिक्षाकालः समकं वर्तते ततोऽस्मद्योग्यमानीय षश्चादेष आत्मनो योग्यानयनाय प्रविष्टो न किमपि लप्स्यते । इति कारणवशतो वदेयुः प्रतिगृह्णियात् । त्वमप्यत्र भोक्ष्यसे पास्यसि वा । एवमुक्ते से तस्य कल्पते स्थविरस्य प्रतिगृहीतुं तत्र तस्मिन्नात्मयोग्यग्रहणे सति न कल्पते परिहारिकेणा पारिहारिकस्य पतद्ग्रहेऽशनं पानं स्वादिमं खादिमं वा भोक्तुं वा पातुं या किं तुकल्पते तस्य स्वकीये वा पतद्ग्रहे स्वकीये वा पलाशके स्वकीये या कमढे स्वकीयेखुव्वके भोक्तुं वा पातुं वा उपलक्षणं व्याख्यानमत्रापि द्रष्टव्यम् । एष कल्पपरिहारिकस्यापरिहारिकतोऽपरिहारिकमधिकृत्य इति ब्रवीमि तीर्थकरो पदेशतो न स्वमनीषिकयेति । सम्प्रति नियुक्तिभाष्यविस्तरः
[ भा. १३४६ ]
सपडिग्महे परपडिग्गहे य बहि पुव्वपच्छतत्थेव । आयरिय सेहभिग्गह समसंडासे अहा कप्पो ।।
वृ- पूर्वं वसतेर्बहिर्भिक्षा नयनाय निष्क्रम्य स्वपतद्गृहे स्वयोग्यमानीय पश्चात्परपतद्ग्रहे आचार्ययांग्यमानयति । अथवा पूर्वं परपतद्ग्रहे आचार्ययोग्यमानीय पश्चात् स्वपतद्ग्रहे स्वयोम्यमानयति । अथवा कारणवशतस्तत्रैव एकस्मिन् पतद्गृहे उभययोग्यमानयति । आनीते स्थविरण पूर्वं भुक्ते पश्चात्परिहारिकेण भोक्तव्यम् । अथ कालो न प्राप्यते ततं आचार्यः स्थविरः शैक्षाभिग्रहः परिहारकएतौ द्वावपि समकमेकस्मिन् तपगद्ग्रहे भुञ्जते । तत्रच सण्डासोपलक्षितः शुनकमांसदृष्टान्तो वक्तव्यः । एष यथाकल्पो यथावस्थिता सामाचारी । साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतः सपडिग्गहे य बहिपुव्वपच्छ इति व्याख्यानवतिः -
[भा. १३४७ ]
कारणिय दोन्नि थेरो, सो व गुरु अहवकेणइ असहू ।
पुव्वं सयं व गेहइ पच्छा घेत्तुं व थेराणं ।।
}
वृ- अशिवादिकारणवशतो द्वौ आचार्य पारिहारिको कारणिकौ जातौ विमुक्तं भवति अशिवादिकारणवशतः शेषसाधून् देशान्तरं प्रेष्यतावेव केवलावेकत्र स्थानस्थितौ तत्र योऽसौ गुरुः स स्थविर इति कृत्वा अथवा केनापि रोगेण ग्रस्त इति भिक्षामटितुमससहोऽसमर्थः यः पुनस्तस्य सहायः स परिहारतपः प्रतिपन्नो वर्तते । ततस्तत्रेयं सामाचारी पारिहारिकः पूर्वमात्मीयेन पतद्ग्रहेणात्मयोग्यमानीय मुक्त्वा आत्मीयं पतद्ग्रहं स्थापयित्वा पश्चात्स्थविरसत्कं पतद्ग्रहंगृहीत्वा स्थविराणां योग्यं गृहीतुमटति । अथवा पूर्वं स्थविरसत्कं कृत्वा स्थविरयोग्यमानीय स्थविराणां सम्पर्क पश्चादात्मीयेन पतद्ग्रहेण हिण्डत्वात्मना भुङ्क्ते । अत्र परस्यावकाशमाहः
[ भा. १३४८ ]
जइ एस सामाचारी किमसुतं इमं तु आरद्धं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org