________________
उद्देशंक : ६:२, मूलं : ६३. [ भा. १३४३]
३८९
पुरुषेभ्यो भोजने यच्छेषं तत्तस्या भवति । इति एव अमुना प्रकारेणाचार्योपदेशतः पर्याप्त भोजिते शेषमुद्धरितमस्य पारिहारिकस्य परिवेषकस्याचार्यो ददाति । सम्प्रति येन प्रमाणेनाचार्या उपदिशन्ति तत्प्रमाणमभिधित्सुराह
[भा. १३४४ ] दव्वप्यमाणं तु विदित्तु पुव्वं, थेरा से दापति तयं पमाणं । जुत्ते विसेसंभवते जहा उ, उच्चर लंभेतु पकामदानं ।।
वृ- इहाचार्यैः पूर्वं द्रव्यं प्रमाणयितव्यं यथेदं किंयुक्तप्रमाणमाहोश्चित्सपरिस्थापनमेवं पूर्वं द्रव्यप्रमाणं विदित्वा ज्ञात्वा स्थविरा आचार्याः से तस्य परिहारिकस्य तत्प्रमाणं दर्शयन्ति । यथा युक्तेऽपि युक्तप्रमाणेऽपि शेषं भवति । उच्चूरलाभे प्रचूरनानाविधघृतादिलाभे प्रकामदानं यावत् यस्मै रोचते तावत्तस्मै दीयतामित्येवं रूपमनुज्ञाप्यते ।।
भू. (६४) परिहार कम्पट्ठिए भिक्खू सरणं पडिग्गहेणं बहिया अप्पाणं वेयावडियाए गच्छेज्जा, थेरा तं वएज्जा पडिहेहि अज्जो ! अहंपि भोक्खामि वा पाहामि वा एवं नं से कप्पइ पडिग्गाहितए, तत्थनोकप्पइ अपरिहारिएणं परिहारियस्स पडिग्गहम्मि असनं वा पानं वा खाइमं वा साइमं वा भांतए वा, पायएवा, कप्पइसे सरांसि पडिग्गहंसि, सवंसि पलासगंसि वा कमढगंसि वा सयंसि वा खुवगंसिया उद्धव भोत्तए वा पायए वा एस कप्पे अपरिहारियस्स पारिहारियओ ।।
वृ- अस्य सूत्रस्य पूर्वसूत्रेण सह सम्बन्धेन प्रतिपादनार्थमाह-[भा. १३४५ ] आयाणादिवसाने संपुडितो एस होइ उद्देसो । एगाहिगारियाणं वारेइ अतिप्पसंगं वा ॥
वृ- आदानमादिवसानं पर्यन्तः तयोः साधर्मिकाधिकार प्रतिपाद्रनादेष उद्देश सम्पुटितः तारकादि दर्शनादितः प्रत्ययः । इयमत्र भावना- अस्योद्देशकस्यादावन्ते च प्रत्येकं द्वे द्वे सूत्रे साधर्मिकाधिकारप्रतिपादके । ततः एष उद्देशकः साधर्मिकारेणः सम्पुटितः सम्पुटितत्वाच्च सम्पुटनकरणमेवास्य सूत्रस्य सम्बन्धः 1 अथवा एकाधिकारिकानि यानि यान्यनन्तरमुद्दिष्टानि परिहारिकसूत्राणि तेषामेकाधिकारिकारिकाणां पारिहारिकसूत्राणां यो भक्तदानैकत्र भोजनप्रतिषेधे अतिप्रसङ्गस्तं वारयत्यधिकृतेन सूत्रद्वयेनेत्येष पूर्वसूत्रेण सहास्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या- परिहारकल्पस्थितो भिक्षुः स्वकीयेन पतद्भहणेन पतद्ग्रहणे वा वसतेर्बहिरात्मनः स्वशरीरस्य वैयावृत्याय भिक्षानयनायेत्यर्थः गच्छेत्स्थविराश्च तं गच्छन्तं दृष्ट्रा वदेयुस्मद् योग्यमपिस्वपात्रके गृहणीयात् । अहमपिभोक्ष्ये पास्यामि वा एकमुक्ते से तस्य कल्पते स्थविर योग्यं प्रतिगृहीतुं तत्र तस्मिन् आत्मयोग्य परिगृहीते सति नो कल्पते अपरिहारिकेण सता पारिहारिकस्य पतद्गृहे अशनं पानं खादिमं स्वादिमं भोक्तुं वा पातुं वा, किन्तु कल्पते से तस्याऽपारिहारिकस्य स्वकीये वा पतद्ग्रहे तुम्बादिमये स्वकीये वा पलाशके पलाशपात्रके स्थाले स्वकीये वा कमढके स्वकीये वा खुब्बए इति । पलाशादिपत्रमये दोणके उद्धड्डू उद्धट्ठू इत्यवकृष्य अवकृष्य भोक्तुं वा पातुं वा उपलक्षणमेतत् । दुर्लभपानीयभावे कालाप्रापणे वा तत्पात्रे एव पारिहारिकेण समं कल्पते भोक्तुं पातुं वा । उपसंहारमाह-एष कल्पोऽपारिहारिकस्य पारिहारिकतपः पारिहारिकमधिकृत्य एष प्रथमसूत्र संक्षेपार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org