________________
उद्देशक :
६:२, मूलं : ६२, [भा. १३३०]
३८५
परिहारिकाः परस्परं परिहारिकैः सममुपलक्षणमेतत् । अपरिहारिकैर्वा सममेकत्र न संभुञ्जते । आलापनादीनि कुर्वन्ति तत उपरितनमास परिपूर्णो भवनानन्तरं पश्चात् सर्वेऽपि पारिहारिका अपरिहारिकाश्च एकत एकत्रस्थाने सर्वप्रकारैर्भुञ्जते । एत सूत्र संक्षेपार्थः । अत्र पर आह- ननु बहवः परिहारिका अपरिहारिकाश्च कथमेकत्र संभवन्ति येनाधिकृतं सूत्रमुपपद्येत तत आहकारणिगाते लीना बहुगा परिहारिका भवेज्जाहि । अपरिहारियभोगो परिहारिन भुज्जए बहवो
[ भा. १३३१]
वृ- बहवः पारिहारिका एकत्र मिलिता भवेयुः कारणिकाः कारणवशेनेति भावः ततो नाधिकृत सूत्रानुपपत्तिः तत्रापरिहारिकाणामेकत्र परस्परं भोगोभवति । एतावता ते अनमनं संभुञ्जतीति व्याख्यातं यस्तु परिहारी स परिहारतपो वहन् परिहारिभिर्वा समं न भुङ्क्ते । एतेन अन्नमन्नंनो संभुञ्जतीति व्याख्यातम् । पारिहारिका नाम ये परिहारतपोरूपं प्रायश्चित्तं प्रपन्नाः । ये पुनः परिहारतपोरूपं प्रायश्चित्तं न प्रतिपन्नास्ते अपरिहारिकास्तत्र परिहारतपः प्रतिपादनविधिः परिहरणविधिश्च निशीथाध्ययने कल्पे च व्यावर्णितो यस्तु तत्र नोक्तस्तमिदानीं प्रतिपिपादयिषुराह-
[भा. १३३२ ] गिम्हाणं आवणो चउसुवि वासातु देति आयरिया । पुनंमि मासवज्जण अपुने मासियं लहुयं ||
वृ- इह ग्रीष्मग्रहणेन ऋतुबद्धकालग्रहणं तेषामृतुबद्धानां मासानां मध्ये एकमासं यावत् षण्मासं तावत् परिहारतप; समापन्नस्तद्वर्षारात्रे चतुर्षुमासेष्वपि दीयते अत्रार्थे च कारणं स्वयमेव वक्ष्यति यस्तु षण्मासं परिहारतपः प्रपन्नस्तस्य पूर्णे षण्मासे उपरि मासवर्जनं मासं यावदेकत्र भोजनवर्जनम् । एतेन मासादिके परिपूर्णी पञ्चरात्रिंदिवानि भोजनवर्जनमुपलक्षितं । तच्चानन्तरगाथायां स्वयमेव वक्ष्यति, 1 तंत्र यावद्भोजनं प्रतिषिद्धं, तत्र तावत् परिपूर्णे भोजनं कुर्वतः प्रायश्चित्तं मासिकं लघु सम्प्रति पुनंमि मासवजणमित्येतद्व्याचिख्यासुराह
[भा. १३३३]
पनगं पनगं, वज्जेज्जइ मासो छण्हमासाणं । नयभद्द पंतदोसा, पुव्युत्तगुणायतो वासो ।।
वृ-मासे मासे पञ्चकं पञ्चकं परिवर्धमानं तावत्पर्यन्ते यावत्षणां मासानामुपरिमासो वर्ज्यते, इयमत्र भावना - यो मासिकं परिहारतप आपन्नस्तस्य मासं वहतः पूर्वोक्तो विधिः आला (ल) पनवर्जनादिको वेदितव्यः । मासे तु व्यूढे उपरि पञ्चरात्रिंदिवानि यावदालापनादीनि सर्वाणि क्रियन्ते, नवरमेकं भोजनमेक वर्ज्यते । एवंयौ द्वौ मासावापन्नस्तस्यदशरात्रिंदिवानि, यस्त्रीन्मासान् तस्य पञ्चदश चश्चतुरो मासान्तस्य विंशतिः, यः पञ्चमासान् तस्य भिन्नमासं यावत्यस्तु षण्मासान्नापन्नस्तस्य षण्मासेषु व्यूढेषु उपरि मास यावदेकत्रभोजनमेकं वर्ज्यते । शेषं त्वालापनादिकं सर्वं सर्वत्र दशरात्रिं दिवादी क्रियते, अथ कस्मादृतु बन्धेषु मासेष्वापन्नस्यापि वर्षारात्रैः तपो दीयते । अत आह-नयभद्दपंत दोसा इत्यादि ऋतुबद्धे काले यदि परिहारतपो दीयते ततस्तस्मिन् दत्ते सति यदि मासकल्पे परिपूर्णे सति विहरन्ति तर्हि परिहारिकाणां परितापनादि दोषप्रादुर्भावः । अथन विहरन्ति ततो भद्रकप्रान्तकृतदोषसम्भयः । भद्रकृता दोषा उगमादिकरणं, प्रान्तकृतदोषा अति चिरावस्थाने चमढनादिका, वर्षाकाले त्वेतेदोषाः प्रायो न संभवन्ति । सर्वदर्शनिनां वर्षाकालस्य तपोऽनुष्टानाअयतया सम्मतत्वेन कस्यचिदपि विशेषतः 2125
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org