________________
३७६
व्यवहार - छेदसूत्रम् - १- २/५९
वृ- अथवेति प्रकारान्तरोपप्रदर्शन अगीतार्था ब्रुवते । मज्जनादिभिर्मञ्जनाङ्गरागधूपाधिवासादिभिरप गृहिभूतो जातः सपुनरेवसमाह नाहं स्नानादिकं कृतवान् यदि वा बलादहं स्वजनैः स्नानादिकं कारितो न पुनस्तेषु स्नानादिष्वनुरागवान् जात इति । तत्रैवं भूतं विवादे यत्ते सहाया ब्रुवते तन्न भवति प्रमाणं, किन्तु स एव तत्र प्रमाणमिति एतदेव प्रविकटविषुग्रह
[ भा. १२८८ ]
पडिसेवी अपडिसेवी एवं श्रेराण होइ उ विवादो । तत्थ वि होइ पमाणं स एव पडिसेवणा न खलु ।।
वृ- स्थविरा आचक्षते एष प्रतिसेवी स प्राह-नाहं प्रतिसेवी एवं स्थविरैः सहगाथायां पटी तृतीयार्थे विवादो भवति । अत्रापि प्रतिसेवना विषयेऽपि भवति स एव प्रमाणं न पुनः खलु सहायैरुच्यमाना प्रतिसेवना तेपां पुनरगीतार्थानां पुरतः सूरय एतदभिदधति
[ भा. १२८९ ]
मञ्जन गंध परियारणादि जह नेच्छतो अदोसाय ।
अनुलोमा उवसग्गा एमंच इमपि पासामी ।।
।
वृ- यथा अनिच्छतोऽनभिलषितोऽनुलोमा अनुकूला उपसर्गाः । के ते इत्याह-मज्जनं स्नानं गन्धः पटवासादिरूपः परिचारणास्त्रिया बलात्कारेणोपभोग आदिशब्दादेवं विधान्योपसर्गः परिग्रहः एते यथा अदोषास्तद्विषयानुमननाभावात् । एवमिदमप्यधिकृताऽवधावितसाधुविषयं मञ्जनादि पश्यामस्तदनुरागा भावतो निर्दोषमिति भावः एतदेव भावयति
[भा. १२९० ] जह चेवय पडिलोमा अपदुरसं तस्स हांति दोसा य । एमेव य अनुलोमा होति असायज्जणे अफला ।।
बृ- यथेति दृष्टान्तीपन्यासे, च शब्दो दृष्टान्तदाष्टन्तिकयोः साम्यावधारणार्थः । यथाचैवं प्रतिलाभाः प्रतिकुला उपसर्गाः प्रद्वेषतः प्रद्वेषमगच्छतो भवत्यदीपाय एवमेव अनेनैव प्रतिकुलोपसर्गगतेन प्रकारेण अनुलीमा अपि स्वजनैः क्रियमाणा मज्जनादय उपसर्गा असाइजमाणे अननुमननं भवन्त्यफलाः अन्यच्च[भा. १२९१] साहीणभागच्चई अविमहती निजराउ एक्स्स !
सुमो विकम्मबंध न होइ उनिवत्तभावस्स ।।
- अपीति गुणान्तर समुच्चये । स्वजनक्रियमाणमञ्जनाङ्गरागाद्यनास्वादनादेप स्वाधीन भोगत्यागी स्वाधीनभांगपरित्यागाच्चैतस्य महती निर्जरा पुराणकर्मनिर्जरगं प्रवृद्धप्रवृद्धतर शुभाशयसंभवात् न चाप्यभिनवकर्मसंगलनंयत आह-नतुनिवृत भावस्यावधावनात्प्रतिनिवृत्त परिणामस्य सतः सूक्ष्मोऽपि कर्मबन्धो भवति, कर्मोपचयहेतोर्दुष्टाध्यवसायस्याभावात् ।
मू. (६१) एगपक्खियस्स भिक्खुयस्स कम्पति आयरिय उवज्झायाण इत्तरियं दिसं वा अनुदिस वा उद्दित्तिए वा धारितएवा जहा वा तस्स गणस्स पत्तिवं सिया ।।
वृ- एकः समानः पक्ष एकपक्षः । सोऽस्यास्तीति एकपक्षिकः प्रव्रज्यया श्रुतेन च स्ववर्गस्य भिक्षीः कल्पते । इत्वरां कियत्कालभाविनीमित्यग्रहणमुपलक्षणं यावत्कचिकांच दिशमाचार्यत्वमुपाध्यायत्वं वा अनुदिशं वा आचार्योपाध्यायपदद्वितीयस्थानवर्तित्वं वा शब्दो विकल्पार्थः । उद्देष्टुं वा तस्य वा स्वयं धारयितुं यथा वा तस्य गणस्य प्रीतिकं स्वात् । यथावा दिशमनुदिशं वा उद्दिशेत । किमुक्तं भवति ? भिन्नपक्षिकमप्यपवादपदेन स्वगणप्रीत्याचार्यादिपदाध्यारोपितं कुर्यादिति संक्षेपार्थः ।
व्यासार्थं तु भाष्यकृद्विवक्षुः प्रथमतः पूर्वसूत्रेण सह सम्बन्धमाहः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org