________________
३६६.
अनीकारइ मूलं इयर सच्च प्पतिणाउ ।।
बृ- सर्वप्रकारेणा ज्ञायमाने भूतार्थे सङ्घसमवायं कृत्वा तस्मै आवेद्यते । स्त्वाधिको वदति नाहं कृतवान् प्रतिसेवनामितरो ब्रूते द्वावपि प्रतिसेवितवन्ताविति, तत्र किं कर्तव्यमिति एवमावेदने कृते ये सङ्घमध्ये गीतार्थास्ते वदन्ति किञ्चित्तथाभावं तथा भावेनद्दश्यते । किञ्चित्तथाभावमन्यथाभावेन दृश्यते, किंचिदन्यथाभावं तथा भावेन, किञ्चिदन्यथा भावमन्यथा भावेन एषा चतुर्भङ्गी । अस्यां चतुर्भङ्गयां प्रथमोभङ्गःप्रतीतः । द्वितीयभङ्गभावना त्वेवम्-कोऽपिक्वापि वनप्रदेशे परस्त्रियासहवर्त्तते, तस्मिंश्चप्रदेशे केचिदारक्षका अपन्यायादक्षमा असि व्यग्रहस्ता वल्गन्ति । ततः काचिद्देवताभद्रिका मा विनश्यत्वेष पुरुष इति तौ दुरान्तरितौ दर्शयति । तृतीयभङ्गे भगवतो वर्द्धमानस्वामिनः सागारिकमकषायितं सङ्गमकः कषायितं दर्शयति । चतुर्भङ्गः कस्यांचिद्विपदिदासं राज्ञा कारितराजनेपथ्यं विनश्यंतं दृष्ट्रा काचिद्भद्रवेवता तदनुकम्पयास्त्रियं दर्शयति । एवं प्रान्ता च भद्रा देवता अन्यथाभूतं सद्वस्तु अन्यथाकरोति । अन्यथाभूतं दर्शयति । ततो दृष्टमपि यावदप्रमाणमत्र न ज्ञायते किमपि दृष्टमवमरत्नाधिकेन । अथ च सत्यप्रतिज्ञा व्यवहारास्तीर्थकृद्भिरुपदिष्टास्तस्मात् यत् रत्नाधिको ब्रूते न मया प्रतिसेवितमिति तत्प्रमाणतः शुद्धः एष न प्रायश्चित्त भागिति, यदिपचावमरत्नाधिको वक्तिमयाप्रतिसेवितमितितदपि प्रमाणमतस्तस्य मूलं प्रायश्चित्तमिति ।
मू. (६०) भिक्खूय गणा ओवक्कम्म ओहाणु पेहीवज्रेजा-से अहच अनोहाइतो सेय इच्छेजा दोच्चंपितमेवगणं उवसंपत्रित्ताणं विहरितए तत्थणं थेराणं इमेयारुवे विवाए समुपचित्ताइमं अजो जाणह किं पडिसेवी अपडिसेवी सेयपुच्छियव्वे किंपडिसेवी अपडिसेवि सेयवएजा पडिसेवी परिहार पत्ते सेयवएज्जानोपडिसेवी नोपडिहारपत्ते जं से पमाणं वयति से पमाणे घेतव्य से किं एव माहु भंते । सच पइणाववहारा ।।
*:
व्यवहार- छेदसूत्रम् - १-२ / ५९
वृ- अथास्य सूत्रस्य कः सम्बन्धस्तत आह[भा. १२४३ ]
त्यो भगदिनो दाउं, वत्थोभगसेवियं च तदकिच्चं । सच्चा ओव असचं ओहावणसुत्तसंबंधो ।।
वृ- स्थोभकमभ्याख्यानं दत्तं यस्मिन् स च्छोभकदत्तः क्लान्तस्य परनिपातः प्राकृतत्वात् सुखादिदर्शनाद्वासोवधावनप्रेक्षीभवेत् । इयमत्र भावना यस्याभ्याख्यानमदायि स कथमहमेवमसताभ्याख्यानेनाभ्याख्यातः कथं वा साम्प्रतमेवमलीककलंकाङ्कितो जनानां पुरत एवमात्मानं दर्शयामीत्यवधावनप्रेक्षी गच्छेत् । अथवा येनाभ्याख्यानं दत्तं स चिन्तयति । यथा असदभ्याख्यान
तस्मै दत्तमेवतच्च बहुभिर्जनैर्ज्ञातं यथानेनासदभ्याख्यानमस्मै दत्तमिति । ततः कथमहं तेषां पुरतः तिष्ठामीत्येवं च्छी स्थोभकमभ्याख्यानं दत्वा लज्जया अवधावनप्रेक्षी गच्छेत् । यदि वा तदकृत्यं मैथुनरूपं मोहोदयेन सेवित्वा ज्ञातीऽहं सर्वजनैरपीति लज्जया कोऽप्यवधावनप्रेक्षी यायात् । एतदर्थप्रतिपादनार्थं च्छोभकं सूत्रानन्तरमस्य सूत्रस्योपन्यासः । अथवा यं सम्बन्धः सच्चा ओव असच्चमिति सत्यसंयमः स पूर्वसूत्रेष्वभिहितः । सत्याच्चान्यदसत्यमसंयमोऽवधावमप्रेक्षी वाऽसंयमं याति । ततोऽसंयमप्रतिपादनार्थमवधावनप्रेक्षी सूत्रमनेन सम्बन्धेनायातस्यास्य व्याख्या भिक्षुश्च गणात् गच्छादपक्रम्य अवधावनमसंयमगमनंतदनुप्रेक्षी व्रजेत । सचानवधावित एव असंयममगत एव सन्इच्छेत् द्वितीयमपि वारं तमेव गणमुपस्मपद्य विहर्तुं तत्र स्थविराणामयं वक्ष्यमाण एतद्रुपानन्तरमेवोच्यमानस्वरूपो विवादः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org