________________
३६३
उद्देशकः २, मूलं : ५९, [भा. १२३२] तरदकृत्यस्थानं मैथुनादिकं प्रतिसेव्य प्रतिसेवितमभ्युपगतस्य गुरुणामन्तिके आलोचयेत् आलोचनाप्रकारमाह-अहणमितिवाक्यालङ्कारभदन्त! अमुकेनसाधुनासार्धमस्मिन्कारणे मैथुनादिके प्रतिसेवी । किमुक्तंभवति ।तेनानेन मैथुनादिनाकारणेन चारित्रप्रतिकूलक्रियासेवनाभागजातइति । अथ सकस्मादात्मानं प्रति सेवितवंतमभ्युपगच्छतिन परस्यैव केवलस्याभ्याख्यानं ददाति तत आहपच्चवहेउं चेत्यादि । परेषामाचार्याणामन्येषां च साधूनामेष सत्यं वदत्यन्यथा को नामात्मानं प्रतिसेवितमभिमन्यत इतिप्रत्ययो विश्वासः स्यादितिहेतोःस्वयमपिच प्रतिसेवितमितिभणति, ।एव मुक्तेयस्याम्याख्यानमदायिसप्रष्टव्यः ।किंभवान् प्रतिसेवीन वा, तत्रयदि स वदेत् प्रतिसेवी ततः स परिहारप्राप्तः स्यात् परिहारतपोभाक् क्रियते, । उपलक्षणमेतत्च्छे दादिप्रायश्चित्तभागपि क्रियते इति दृष्टव्यः । अथ स वदेत् नाहं प्रतिसेवी तर्हिन परिहारप्राप्तः स्यात्, न परिहारतपः प्रभृति प्रायश्चित्तभाक् क्रियतेइतिभावः ।सचप्रतिसेवीवायदभ्याख्यानदातासेतस्यप्रतिसेवनायाप्रमाणंचरिकादिवक्ति, । तस्मात्प्रमाणात् गृहीतव्यो निश्चेतव्यः स अथ किं कस्मात्कारणादेवमाहुर्भवन्तो हे भदन्त सूरिराहसत्यप्रतिज्ञाव्यवहारास्तीर्थकरैः दर्शिताः । ततो यथा कथंचित्प्रतिसेवी अप्रतिसेवी वा क्रियते । एष सूत्राक्षरार्थः । अधुना नियुक्ति भाष्यविस्तरः । तत्र भिक्षाचर्यां विचारभूमिगमनविहारादिषु यो रत्नाधिकतरः कुतश्चिद्दोषादवमोजातः सतमवरमरत्नाधिकं येः करैरभ्याख्यानेन दूषयति ।
तानि प्रतिपादयिषुराह[भा.१२३३] रायनियवायएणंखलियमिलितपेल्लणाए उदएणं ।
देउलमेहुणमिय अब्भक्खाणंकुडंगंमि ।। वृ- रत्नाधिकवातेन रत्नाधिकोऽहमिति गर्वेण अवमरत्नाधिकं दशविधचक्रवालसामाचार्यामस्खलितमपिकषायोदयेन तर्जयति । यथाहे दुष्टशैक्षक एखलितोऽसीतितथाएपिथिकी प्रतिक्रम्य प्रथममेव परावर्तयन्तं यदि वा अग्रिमतपरदं पदेन विच्छिन्नं सूत्रं उच्चारयंतं हा दुष्ठु शैक्षकमिलितमुच्चारयसीति । तथापेल्लणत्ति अन्यैः साधुभिर्वार्यमाणोऽपिकषायोदयतस्तंहस्तेन प्रेरयतितर्जयति । ततः सोवमरत्नाधिकः कषायितः सन् चिन्तयति एषरत्नाधिकवातेनेत्थंबहुजनसमक्षंतर्जयति ।अर्थ
चैषा सामाचारी रत्नाधिकस्य सर्वं क्षतव्यमिति ततस्तथा करोसि । यथैष ममलघुको भवति । एवं चिन्तयित्वा तौ द्वावपि भिक्षाचर्याय गतौ च तृषितौ बुभुक्षितौ वेत्येवं चिन्तयन्तो चिन्तितवन्तौ अस्मिन्नायदिवकुलेवृक्षविषसेवाप्रथमालिकांकृत्वापानीयंपास्वामइति ।एवं चिन्तयित्वातौ तदभिमुखं प्रस्थितौ । अत्रान्तरे अवमरत्नाधिकः पब्रिाजिकामेकां तदभिमुखं गच्छन्ती इष्टा स्थितोपलब्ध एष इदानीमिति चिन्तयित्वा रत्नाधिकं वदति-अहो अज्ज ज्येष्टार्य कुरु त्वं प्रथमालिकां पानीयं वा पिब, अहं पुनः संज्ञां व्युत्सुक्ष्यामि । एवमुक्त्वा त्वरितं वसतावागत्य मैथुने अभ्याख्यानं ददत् आलोचयति तथा चाह-देउले इत्यादि देवकुले आदिवगृहादौ कुडङ्गे वा वृक्षविषमे प्रदेशे मैथुने अभ्याख्यानं दातुं वसतावागत्य आलोचयति, यथा आलोचयति, तथा दर्शयति[भा.१२३४] जेट्टजेणअकजं सज्जं अज्जा घरे कयं अजं ।
उवजीवितोत्थभंतेमए विसंसट्ठकप्पोव ।। वृ-ज्येष्ठार्येणाद्य सघ इदानीमार्यागृहे कृतमकार्य मैथुनासेवालक्षणंततोभदन्त तत्संसर्गतो मयापि संसृष्टकल्पो मैथुनप्रतिसेवा अत्रास्मिन्प्रस्तावे उपजीवितः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org