________________
व्यवहार - छेदसूत्रम् - १-२ / ५८ निरतियारा य समणां न तदाहं तेन पडिरुवं ।।
वृ- यत्त्वं राजन् पृच्छसि अथ कथं त्वं श्रमणानां प्रतिरूपी तदहं कथयामि । यथा श्रमणा भगवन्तो निरतिचारा न तथाहं ते श्रमणानां प्रतिरुपी न तु साक्षात् श्रमण इति प्रतिरुपित्वमेव भावयति । । [भा. १२१८ ] निव्वूढोमि नरेसर खेत्ते विजईण अस्थिरं न लभे । अतियाररस विसोही पकरेमि पमायमूलस्स ।।
वृ- हे नरेश्वर पृथिवीपते ! प्रमादमूलस्यातिचारस्य सम्प्रति विशोधिं करोमि, तां च कुर्वन् निर्यूढोऽस्मि निष्कासितोऽस्मि । तत आस्तामन्यत् क्षेत्रेऽपि यतीनामहं स्थातुं न लभे ततः श्रमण प्रतिरुप्यमिति राजाप्राह- कस्त्वया कृतोतीचारः का वा तस्य विशोधिरेवं पृष्टे यत्कर्तव्यं तदाह
2
[भा. १२१९]
३६०
कहणा उद्दणा आगमन पृच्छणं दीवणाय कज्जस्स । वीसज्जियंतिय मया हासुस्सितो भणति राया ।।
वृ- कथनं राज्ञा पृष्टस्य सर्वस्याप्यर्थस्य प्रसङ्गतोऽन्यस्यापि यथा प्रवचनप्रभावना भवति । तत आवर्तनमाकम्पनं राज्ञो भक्ती भवनमिति भावः । तदनन्तरमागमनप्रच्छन्नमागमनकारणस्य प्रश्नः । केन प्रयोजनेन यूयमत्रागताःस्थ, अत्रान्तरे येन कार्येण समागतस्तस्य दीपना प्रकाशना, ततो राजा हासोस्सितो ति हासेन उत्सृता हृष्टोद्भासो स्मितो हसितमुखप्रहष्टश्च सन्नित्यर्थः । भणति यथा मया विसर्जितं मुत्कलितमिति । अथ किं तत्कार्यं यस्य राज्ञो मुत्कलनं कृमित्यत आहवायपरायणकुवितो चेइयतद्दव्वसंजत्ती गहणी ।
[ भा. १२२० ]
पुव्वत्ताण चरण्हण्हवि कज्जाण हविज अन्नयरं ।।
वृ- वादे पराजयेन कुपितः स्यात् अथवा चैत्यं जिनायतनं किमपि तेनावष्टब्धं स्यात् ततस्तन्मोचा क्रुद्धोभवेत् । यदिवा ततद्रव्यस्य ग्रहणेऽथवा संयत्याग्रहणे ततः पूर्वोक्तानां कल्पाध्ययनोक्तानां चतुर्णा निर्विषयित्वा ज्ञापनादीनां कार्याणामन्यतरत् कार्यं भवेत् ।
[ भा. १२२१]
संघो न लहति कज्जुं लद्धं क ुञ्जं महानुभागेनं । तुझं तु विसजमी, सोविय संघोत्ति पूएइ ।।
बृ- निर्विपयित्वाऽज्ञापनमुत्कलनादिलक्षणंकार्यं सङ्घा न लभते । किन्तुतेनानवस्थाप्येन पाराञ्चितेन वा महानुभागेन लब्धं न च स एवं कार्यलाभेऽपि गर्वमुद्वहति यत आह- तुज्झं तु इत्यादि राजा प्राहयुष्माकं तु निश्चितं प्रभावेनार्हं पूर्वग्राहं विसृजाभि नान्यथा सोऽपि ब्रूते राजन् कोऽहं कियान्मात्री वा गरीयान् सङ्घो भट्टारकस्तत्प्रभावादहं किञ्चिदज्ञ स्तस्मात्सङ्घमाहूय क्षमयित्वा च यूयमेवं ब्रूथ-मुत्कलितं मया युष्माकमिति सङ्घं पूजयति । ततः किमित्याह
[भा. १२२२ ] अन्भत्थितो वरणा, सयं व संघो विसज्जयति तुट्टो । आदिमज्झवसाने सव्वाविदोसी धुओ होति ।।
वृ- अभ्यर्थितो वा राज्ञा सङ्को यदि वा स्वयमपि सन्तुष्टः सङ्घो विसर्जयति किमुक्तं भवति । यद्वषूढं शेषं सर्वं प्रसादेन मुक्त्वा सोऽगृहस्थी भूत एवोपस्थाप्यते इति एतदेवाह-सव्वापि दांषो धुतः प्रकम्पितः प्रसादेन स्फटित इत्यर्थः । आदौ मध्ये अवसाने वा भवति राजानुवृत्तिद्वारं गतम् ।
इदानीं प्रद्विष्ट स्वगणद्वारमाह[भा. १२२३]
Jain Education International
सगणो य पट्टो से आवणो तं च कारणं नत्थि ।
For Private & Personal Use Only
www.jainelibrary.org